Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशसहिता। ननु यथावस्थितव्यवहारानुगुणज्ञानं प्रमेत्युक्तम् । एवं च स्मृतेरपि यथावस्थितव्यवहारानुगुणत्वेन प्रामाण्यात्स्मृतेरपि प्रमाणत्वेन परिगणनाञ्च त्रीण्येव प्रमाणानीति कथं प्रतिपाद्यत इति चेदुच्यते-स्मृतेः प्रामाण्याङ्गीकारेऽपि संस्कारसापेक्षत्वात्तस्याः प्रत्यक्षमूलभूतत्वान्मूलभूते प्रत्यक्षेऽन्तर्भाव इति न पृथक्प्रमापकल्पनम् । अतस्त्रीण्य प्रमाणानि संभवन्ति । स्मृति म पूर्वानुभवजन्यसंस्कारमात्रजन्यं ज्ञानम् । तत्र चोबुद्धः संस्कारो हेतुः । तदुबोधश्च
'सहशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः' इत्युक्तप्रकारेण कचित्सदृशदर्शनाद्भवति कचिददृष्टात्कचिच्चिन्तया ।आदि शब्दन साहचर्यस्यापि ग्रहणात्तेनापि भवति सादृश्यजा यथा-देवदत्त यज्ञदत्तयोः सदृशयोर्देवदत्तदर्शनेन यज्ञदत्तस्मृतिः। द्वितीया यथा-यादृच्छिकी कालान्तरानुभूतश्रीरङ्गादिदिव्यदेशस्मृतिः । तृतीया यथा-चिन्त्यमाने सति श्रीपेङ्कटेशस्य कमनीयदिव्यमङ्गलविग्रहस्मृतिः । चतुर्थी तु सहचरितयोर्देवदत्तयज्ञदत्तयोर्मध्येऽन्यतरदर्शनेन तदन्यतरस्मृतिः । सम्यचपूर्वमनुभूतस्य सर्वस्य स्मृतिविषयत्वनियमः । कचित्कालदैाद्याध्यादिना वा संस्कारप्रमोषात्स्मृत्यभावः।
स्मृतेरिति । सदृशादृष्टचिन्ताद्यैः संस्कारानुग्रहे ततः संस्कारोबोधे या परिण. मति मतिः सा स्मृतिः । सा च स्वकारणभूतप्रमितिभ्रान्तिसंशयानुरोधेन स्वयमपि ताग्रूपा सती त्रिप्रकारेति सर्वार्थसिद्धावृक्तम् । केचित्तु सर्वाऽपि स्मृतिरयथार्थवार्थशून्यत्वात् । नहि पाकरक्ते घटे श्यामतामतियथार्था । तद्वन्निवृत्तपूर्वावस्थे वस्तुनि तत्तामु. ल्लिखन्ती स्मृतिरयथार्थेवेत्याहुः । तन्न । स्मर्तव्यस्यापि विषयस्य स्वकाले विद्यमान. त्वात् । नहि स्मृतिनिवृत्तामपि पूर्वावस्थां वर्तमानत्वेनोल्लिखति । तथाचेदिदमित्येवो. ल्लिखेत् । अपि तु निवृत्तत्वेनैव । अन्यथा तत्तोल्लेखाभावप्रसङ्गात् । पाकरक्ते तु श्यामताप्रत्ययो निवृत्तमपि श्यामत्वं वर्तमानत्वेनोल्लिखतीति विषमो दृष्टान्तः । एवमेवातीतानागतानुमानागमयोगिप्रत्यक्षेषु नष्टविषयत्वेऽपि याथार्य द्रष्टव्यम् । नन्वेवं स्मृतेयथार्थत्वेऽपि प्रमाणत्वं कुतः । कणादेन तेप्वपरिगणनादिति चेदत्र सर्वार्थसिद्धिकाराःन ह्यक्षपादः कणादः कपिल इत्यादयः प्रामाणिकत्वेन परिग्राह्याः । युक्तियुक्तं तु गृह्णीमः । न पुनस्तद्वाक्यगौरवादिति । तथाच तैरनुक्तमपि युक्तियुक्तं चेद्ग्राह्यमेव । तैरुक्तमपि युक्ति विरुद्धं चेत्त्याज्यमेव । दृश्यते च स्मृतेः प्रमाणत्वेन परिगणनम् -
'स्मृतिः प्रत्यक्षमैतिह्यमनमानं चतुष्टयम् ' इत्यादौ ।
१ ग. णज्ञानत्वे । २ ग घ. ण्येवेति संभवति । स्मृ । ३ घ. 'स्य स्मृ ।
For Private And Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126