Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता। ममाकरणं प्रत्यक्षम् । अनुमानादिव्यावृत्यर्थं साक्षात्कारीति । दुष्टेन्द्रियजव्यावृत्त्यर्थ प्रमेति । तच्च प्रत्यक्षं द्विविधम् । निर्विकल्पकसविकल्पकभेदात् । निर्विकल्पकं नाम गुणसंस्थानादिविशिष्टपथमपिण्डग्रहणम् । सविकल्पकं तु सपत्यवमर्श गुणसंस्थानादिविशिष्टद्वितीयादिपिण्डज्ञानम् । उभयविधमप्येतद्विशिष्टविषयमेव । अविशिष्टग्राहिणो ज्ञानस्यानुपलम्भादनुपपत्तेश्च । ग्रहणप्रका. रस्तु आत्मा मनसा संयुज्यते मन इन्द्रियेणेन्द्रियमर्थेन । इन्द्रियाणां प्राप्यप्रकाशकारित्वनियमात् । अतो घटादिरूपार्थस्य शूरूपेन्द्रियस्य च संनिकर्षे सत्ययं ज्ञानेऽव्याप्तेः । तस्येन्द्रियनिरपेक्षत्वात् । साक्षात्त्वलक्षणं तु लैङ्गिकत्वशाब्दत्वस्मृतित्व. रहितं ज्ञानत्वमिति बोध्यम् । न च वैशद्यमानं साक्षात्त्वमिति वाच्यम् । सुषुप्त्यादाव. विशदात्मस्वरूपस्य भानात् । प्रकाशांशवैशद्यस्य परोक्षज्ञानेऽपि सत्त्वाच्च । दुष्टेन्द्रियेति । दुष्टेन्द्रियजन्येऽन्यथाज्ञानादौ यथावस्थितव्यवहारानुगुणज्ञानत्वरूपप्रमालक्षणस्याभावात्तेषां प्रमाकरणत्वाभावान्न प्रमाणत्वमिति बोध्यम् । निर्विकल्पकं नामेति । केचित्तु जातिगुणद्रव्यादीनामन्योन्यसंबन्धं विना पृथक्पृथगुपलम्भो निर्विकल्पकप्रत्यक्षम् । विशिष्टप्रत्यक्षे विशेषणज्ञानस्य कारणत्वात् । दण्डी देवदत्त इतिवदित्याहुः । तन्न । दण्डदेवदत्तयोः पृथग्रहणस्य विशेषणविशेष्यभावप्रयुक्तत्वाभावात् । दण्डदेव. दत्तयोः संबन्धात्पूर्व यत्तयोः पृथग्रहणं तत्तयोः संबन्धाभावादेव । संबन्धोत्तरं तु पृथग्ग्रहणमेव नास्ति । तदानीं विशेषणविशेष्यभावेनैव तयोः प्रतीतत्वात् । जातिव्यक्त्योस्तु नियमेन संबन्धादेकसामग्रविद्येत्वाच्च तयोः पृथग्ग्रहणं नैव संभवति । तस्मानिर्वि. कल्पकेऽपि ससंस्थानमेव वस्त्वित्थमिति प्रतीयते । द्वितीयादिप्रत्ययेषु तस्यैव संस्थानविशेषस्यानेकवस्तुनिष्ठतामात्रं प्रतीयते । संस्थानरूपप्रकाराख्यस्य पदार्थस्यानेकवस्तुनिष्ठतयाऽनेकवस्तुविशेषणत्वं द्वितीयादिप्रत्ययावगम्यमिति द्वितीयादिप्रत्ययाः सविक. रुपका इत्युच्यन्ते । यद्यपि प्रथमपिण्डग्रहणेऽनुवृत्तिर्न प्रतीयते तथाऽपि जातिः प्रती. यत एव । नानुवृत्ति तिरपि त्वनुवृत्तं संस्थानमेवेति वेदार्थसंग्रहे स्पष्टम् । ननु प्रथ. मपिण्डग्रहणजन्यसंस्कारनाशोत्तरं जायमानस्य द्वितीयपिण्डग्रहणस्य निर्विकल्पकत्वं स्यात् । तदानीमनुवृत्तेरग्रहणादिति चेदिष्टमेव । द्वितीयादित्वेन यद्वितीयादिपिण्डग्रहणं तदेव सविकल्पकमित्यर्थस्य विवक्षितत्वात् । इन्द्रियाणामिति । तत्र त्वगिन्द्रियं रसनेन्द्रियं च स्वसंबद्धवस्तुप्रकाशकमित्यनुभवादेव सिद्धम् । दूरस्थगन्धोऽपि वायुवशात्समीपगत एव घ्राणेन्द्रियेण गृह्यत इति तदपि प्राप्यप्रकाशकार्येव । चक्षुःश्रोत्रविषये त्वनुमानमुच्यते। चक्षुरिन्द्रियं श्रोत्रेन्द्रियं च प्राप्यप्रकाशकारि, इन्द्रियत्वा १ क. 'शिटं प्र । २ ख. तु गु। ३ घ. 'णां वस्तुप्राप्यकारि। ४ ग, प्यकारि । ५ क. ख. घ. चक्षुरादिरू । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126