Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकातज्ञानं नाम धर्मिविपर्यासः । यथा वस्तुनो वस्त्वन्तरज्ञानम् । लक्षणस्य त्रीणि दूषणानि सन्ति । अव्याप्त्यतिव्याप्त्यसंभवभेदात् । लक्ष्यैकदेशे लक्षणस्यावर्तनमव्याप्तिः । कपिलवर्णवत्वं गोर्लक्षणमिति लक्षणे कृते शुक्लायामव्याप्तिः। लक्ष्यादन्यत्र वर्तमानत्वमतिव्याप्तिः। लक्ष्ये काप्यविद्यमानत्वमसंभवः । यथा चक्षुर्विषयो जीव इत्युक्तेऽसंभव एव । अत्रोक्तदूषणत्रयाभावात्मॉलक्षणं स्वस्थम् । साधकतमं करणम्। अतिशयितं साधकं साधकतमम् । यस्मिन्सत्यविलम्बेन ज्ञानमुत्पद्यते तदतिशयितमित्युच्यते । तेन प्रमाकरणं प्रमाणमिति सिद्धम् । अनधिगतार्थगन्द्र प्रमाणमित्यादिकं तु तत्तद्वादिभिरेव निरस्तत्वादनादरणीयम् । __तानि प्रमाणानि प्रत्यक्षानुमानशब्दाख्यानि त्रीण्येव । अत्र, साक्षात्कॉरि तच्च कर्तृत्वं नैमित्तिकमिति गीताभाष्य उक्तम् । तथा च भाष्यम्-'आत्मनः स्वतः परिशुद्धस्वभावस्य पूर्वपूर्वकर्ममूलसङ्गनिमित्तं विविधकर्मसु कर्तृत्वम् ' (गी०१४।१९) इति । धर्मिविपर्यास इति । यथा शुक्ताविदं रजतमित्यत्र । अतिव्याप्तिरिति । यथा शङ्गित्वं गोर्लक्षणमिति लक्षणे कृते महिप्यादावतिव्याप्तिः । अत्र च लक्ष्ये विद्य. मानत्वे सतीत्यपि बोध्यम् । अन्यथाऽसंभवेन संकरः स्यात् । तत्रापि लक्ष्यादन्यत्र लक्षणस्य विद्यमानत्वात् । निरस्तत्वादिति । मायावादिनामिदं लक्षणम् । 'अनधिगतार्थगन्तृ ' इत्यनेन स्मृतेनिरासः । तस्या अधिगतार्थगन्तत्वात् । एतच्च लक्षणं नैयायिकैः खण्डितम् । धारावाहिकबुद्धिस्थले द्वितीयादिज्ञानानामनधिगतार्थगन्तृत्वाभावेन तल्लक्षणस्याव्याप्तिग्रस्तत्वात् । नचेदानी घट इत्यादिप्रतीत्या नीरूपस्यापि कालस्य षडिन्द्रियवेद्यत्वाभ्युपगमेन द्वितीयादिज्ञानानां पूर्वपूर्वज्ञानाविषयतत्तत्क्षणविशेषवि. षयत्वेन न तत्राव्याप्तिरिति वाच्यम् । इदानी घट इत्यादौ घटादेरेवेन्द्रियवेद्यत्वात् । कालस्य तत्त्वाभ्युपगमे तु 'आकाशे बलाकाः ' इत्यादिप्रतीत्याऽऽकाशस्यापि चाक्षुषप्रत्यक्षविषयतापत्तेः । नचेष्टापत्तिः । मायावादिमत आकाशस्याचाक्षुषत्वात् । रामानुजमते धारावाहिकज्ञानस्यैकत्वमाकाशस्य प्रत्यक्षविषयत्वं चास्तीत्यन्यदेतत् । साक्षात्कारिप्रमेति । साक्षात्कारिणी या प्रभेत्यर्थः । अत्र केचित्-इन्द्रियजन्या प्रमा साक्षात्कारिणीत्युच्यते । एतेन प्रत्यक्षज्ञाने जाते साक्षात्त्वज्ञानं जाते च तस्मिन्प्रत्यक्षप्रमाणज्ञानमित्यन्योन्याश्रय इत्यपास्तम् । इन्द्रियत्वेन तज्जन्यत्वस्य विवक्षितत्वान्मनोजन्येऽनुमित्यादौ नातिव्याप्तिः शङ्कनीयेति वदन्ति । तच्चिन्त्यम् । मुक्तनित्येश्वर .. १ घ. नत्वम । २ घ. था चाक्षुषो जी। ३ क. ग. 'माणल । । क. ग. त्रीणि । ५ घ. 'त्कारप्र'। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126