Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतीन्द्रमतदीपिकाघटः पट इति चाक्षुषज्ञानं जायते । एवमेव स्पार्शनप्रत्यक्षादयोऽपि । द्रन्यग्रहणे संयोगः संवन्धः । द्रव्यगतरूपादिग्रहणे समवायानङ्गीकारात्संयुक्ता. श्रेयणं संबन्धः । निर्विकल्पकसविकल्पकभिन्न प्रत्यक्षं द्विविधम् । अर्वाचीनमनर्वाचीनं चेति । अर्वाचीनं पुनर्द्विविधम् । इन्द्रियसापेक्षं तदनपेक्षं चेति । तदनपेक्षं च द्विविधम् । स्वयंसिद्धं दिव्यं चति । स्वयंसिद्धं योगजन्यम् । दिव्यं भगवत्मसादजन्यम् । अनर्वाचीनं त्विन्द्रियनिरपेक्ष मुक्तनित्येश्वरज्ञानम् । अनर्वाचीनं तु प्रसङ्गादुक्तम् । एवं साक्षात्कारिप्रमाकरणं प्रत्यक्षमिति सिद्धम् । त्वगादीन्द्रियवत् । दूरस्थघटादिमिश्चक्षुषः संबन्धस्तु वृत्तिद्वारा बोध्यः । इन्द्रियाणां योग्यदेशे वृत्तिप्रसरणात् । स्यादेतत् । उन्मिषितमात्रं चक्षुश्चन्द्रं बोधयति । न चैकस्मिन्क्षणे तावान्देशो वृत्त्या लवयितुं क्षमः । क्रमे तु प्रतिपरमाण्ववच्छेद विलम्ब्य गमनात्प्रतीतिरपि विलम्बेत । दूरासन्नग्रहणकालतारतम्यं च स्यात् । वृत्तिप्रसरणाभावे तु प्राप्यप्रकाशकारित्वं न सिध्यति । भैवम् । सूर्योदये सकलदिग्व्यापिन्याः प्रभाया इवेन्द्रियवृत्तेरपि तादृशवेगातिशयाङ्गीकारेणादोषात् । तत्र सतोऽपि क्रमस्य दुर्लक्ष्यतया पद्मपत्रशतवेधरीत्या योगपद्याभिमानात् । तां च वृत्तिमालोकाद्यनुप्रवेशानुगुणसंनिवेशवानम्बुकाचादिः स्वमावादेव न सर्वथा प्रतिबध्नातीति तद्यवहितस्य यथायथमविशदं प्रत्यक्ष भवत्येव । वस्तुस्वभाववैचित्र्यं चावश्यं त्वयाऽप्यभ्युपेयम् । अन्यथा ह्यप्राप्यग्रहणेऽपि कुड्यादिव्यवहितं न ग्राह्य काचादिव्यवहितं तु ग्राह्यमित्यत्र नियामकाभावः । अञ्जनादिसंस्कृतनयनप्रभायाः पृथिव्यादावनुप्रवेशात्तदक्तचक्षुषां निधिप्रभृतेरुपलम्भः । अथ श्रोत्रेन्द्रियस्य दूरस्थशब्देन कथं संबन्धः । सांख्यास्तु चक्षुरिन्द्रियस्येव श्रोत्रेन्द्रियस्यापि वृत्तिद्वारैव संबन्धः । न तु वायुवशादुत्पन्नस्य शब्दस्ये. न्द्रियदेश एव संबन्धः । अत एव भेरीशब्दो मया श्रुत इति अमुकदिशि शब्दो जात इति च धीः संगच्छत इत्याहुः । तन्न । तथा सति दूरस्थो मेरीशब्दं विलम्बन शृणोति वादकास्तदासन्नाश्चाविलम्बेनेति वैषम्यं निर्बीजं स्यात् । तस्माद्वायुवशात्समीपमागच्छन्नेव शब्दो गृह्यत इत्यभ्युपेयम् । एवमपि भेरीशब्दो मया श्रुत इति धीरुपपद्यते । अमुकदिशि शब्दो जात इति त्वनुमानेनापि गम्यत इति बोध्यम् । द्रव्यग्रहण इति । त्वक् चक्षुर्मनांसि द्रव्याद्रव्यग्राहकाणि । श्रोत्रजिह्वाम्राणान्यद्रव्यग्राह. काणि । संयोग इति । तदुक्तं तत्त्वरत्नाकरे--
'तत्र वृद्धा विदामासुः संयोगं संनिकर्षणम् । संयुक्ताश्रयणं चेति यथासंभवमूह्यताम् ' इति ।
१ ख. "ति ज्ञा। २ क, ख, घ. °यणस' ।
For Private And Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126