________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जिनशतक |
मुरजबन्धः ।
Acharya Shri Kailassagarsuri Gyanmandir
११
श्रितः श्रेयोप्युदासीने यत्त्वय्येवाश्नुते परः । क्षतं भूयो मदाहाने तत्त्वमेवार्चितेश्वरः ॥९॥
पुण्यमपि ।
श्रितः श्रेय इति श्रितः आश्रितः । श्रेयोपि उदासीने मध्यस्थे । अत्रापि शब्दः सम्बन्धनीयः । यत् यस्मात् । त्वयि युष्मदः ईचन्तस्य प्रयोगः । भट्टारके एब नान्यत्रेत्यर्थः । अश्नुते प्राप्नोति । परः जीवः । क्षतं विवरं छिद्रं दुःखम् । भूयः पुनरपि । मदस्य अहानं यस्मिन् स मदाहान: तस्मिन् मदाहा । मदः रागविशेषः । अहानं अपरित्यागः । तत् तस्मात् । त्वमेव भवानेव अर्चितः पूजितः । ईश्वरः प्रधान: स्वामी । एतदुक्तं भवति-भट्टारके उदासीनेपि आश्रित: जीव: अश्नुते श्रेयः सरागे त्वद्व्यतिरिक्तेऽन्यत्र राजादिके जने पुनराश्रित: क्षतं दुःखमेव प्राप्नोति । तस्माद् भट्टारक एव अचिंतेश्वर: नान्यः ॥ ९ ॥
For Private And Personal Use Only
हे भगवन् ! यद्यपि आप उदासीन हैं, वीतराग हैं तथापि जो जीव आपका आश्रय लेते हैं, आपकी सेवा करते हैं, उन्हें पुण्यकी प्राप्ति होती है और जो आपसे भिन्न राजा महाराजादिक अथवा ब्रह्मा विष्णु आदिक रागी द्वेपी हैं उनकी सेवा करनेसे दुःख ही होता है । इसलिये आप ही पूज्य ईश्वर हैं ॥ ९ ॥
१ अर्चित श्वासावीश्वरश्व अर्चितेश्वरः ।