Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक ।
१०९
अरमध्ये स्थाप्याः । चतुर्थपादो नेमिमध्ये एवं च सर्वचक्रवृत्तानि दष्टव्यानि ।
वन्दारवः वन्दनशीला प्रबल प्रचुरं आजवंजव: संसार: भयं भी: आजवंजवाभयं आजवंजवभयं प्रबलं च तत् आजवंजवभयं च तत् प्रबलाजवंजवमयं । वन्दारूणां प्रबलाजवंजवभयं वन्दारप्रवलाजवंजवभयं । तत् प्रध्वंसयति विनाशयतीत्येवंशीलं वन्दारुप्रबलाजवंजवभयप्रध्वंसि । प्रभोर्भावः प्राभवम् । गोर्वाण्याः प्राभवं प्रभुत्वं गोप्रभवं वाणीमाहात्म्यमित्यर्थः । वन्दारप्रबलाजवंजवभयप्रध्वंसि गोप्राभवं यस्यासौ वन्दारुप्रबलाजवजवभयप्रध्वंसिगोप्राभव: तस्य सम्बोधनं वन्दारुप्रबलाजवंजव. भयप्रध्वंसिगोप्राभव । वर्धिष्णो वर्द्धनशील | गुणा एव अर्णवो गुणार्णवः विलसन् शोभमानो गुणार्णवो गुणसमुद्रो यस्यासौ विलसद्गुणार्णव: तस्य सम्बोधनं विलसद्गुणार्णव। निर्वाणस्य मोक्षस्य हेतुः कारणं निर्वाणहेतुः । जगतां भव्यलोकानां निर्वाणहेतुः जगन्निर्वाणहेतुः। तस्य सम्बोधनं हे जगनिर्वाणहेतो । शिव परमात्मन् । वन्दीभूता: मङ्गलपाठकाभूताः समस्ता: देवाः विश्वे सुरवराः यस्यासौ वन्दीभूतसमस्तदेवः तस्य सम्बोधन हे वन्दीभूतसमस्तदेव । वरद इष्टद । प्रज्ञानां मतिमतां एकः प्रधानः प्राशैकः । दक्षाणां विचक्षणानां स्तवः स्तुतिवचनं यस्यासौ दशस्तवः । अथवा दक्षैः स्तूयते इति दक्षस्तवः प्राजैकश्चासौ दक्षस्तवश्च प्राजकदक्षस्तवः तस्य सम्बोधनं प्राजकदक्षस्तव । वन्दे स्तुवे । त्वा भवन्तम् । अवनत: प्रमतः। वरं श्रेष्ठम् । भवभिदं संसारस्य भेदकम् । हे वर्य शोभन । एकः वन्द्यः एकवन्द्यः तस्य सम्बोधन हे एकवन्द्य संसारित्वेन न भवति इत्यभवः तस्य सम्बोधनं हे अभव । एतदुक्तं भवति-हे वर्द्धमान भट्टारक सम्बोधनान्तानि सर्वाणि विशेषणानि अस्यैव भवन्ति । वन्दे अवनतो भूत्वाहं त्वा किंविशिष्टं वरं भवभिदम् इति ॥ ११० ॥
For Private And Personal Use Only

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132