Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay

View full book text
Previous | Next

Page 118
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक | जन्म मरणरूप संसारको नाश करनेवाले आपके चरणसरोजका आश्रय ले | पवित्र वही है जो आपके आगमकी भक्ति करें । वाणी वही है जो आपकी स्तुति करे, और पंडितजन वे ही हैं. जो आपके चरणयुगलों में बार २ प्रणाम करें ॥ ११३ ॥ चक्रवृत्तम् । सुश्रद्धा मम ते मते स्मृतिरपि त्वय्यचनं चापि ते हस्तावंजलये कथा श्रुतिरतः कर्णोक्षि संप्रेक्षते । सुस्तुत्यां व्यसनं शिरो नतिपरं सेवेशी येन ते तेजस्वी सुजनोहमेव सुकृती तेनैव तेजःपते ॥११४॥ For Private And Personal Use Only ११५ सुश्रद्धेति - गुश्रद्धा सुरुचिः । मम अस्मदः प्रयोगः । ते तव । गते विषये । स्मृतिरपि स्मरणमपि । त्वयि युष्पदः ईचन्तस्य रूपम् । अर्चनं चापि पूजनं चापि त्वय्येवेति सम्बन्धः । चशब्दः समुच्चयार्थः । ते तव । हस्तौ करौ । अञ्जलये अञ्जलिनिमित्तं ते इत्यनेन सम्बन्धः । कथा गुणस्तवनं । कथायाः श्रुति: श्रवणं कथाश्रुतिः । तस्यां रतः रक्तः कथा श्रुतिरतः । कर्णः श्रवणम् । अक्षि चक्षुः । सम्प्रेक्षते संपश्यति । ते रूपमिति सम्बन्धः सामर्थ्याल्लभ्यते । सुस्तुत्यां शोभनस्तवने । व्यसनं तत्परत्वम् । शिरः मस्तकम् । नतिपरं प्रणामतत्परम् । सेवा सेवनम् । ईदृशी ईदृग्भूता । प्रत्यक्षवचनमेतत् । येन यदो भान्तस्य रूपं येन कारणेनेत्यर्थः । ते तव । तेजस्वी भास्वान् । सुजनः शोभनजनः । अहं अस्मदो वान्तस्य रूपम् । एव अवधारणार्थ: । अहमेव नान्यः । सुकृती पुण्यवान् । तेनैव तदो भान्तस्य रूपं । तेनैव कारणेनेत्यर्थः । हे तेजःपते केवलज्ञानस्वामिन् । समुदायार्थ:- मम श्रद्धा या मम स्मृतिश्च या सा 1

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132