Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay

View full book text
Previous | Next

Page 120
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक। बन्दीभूतवतोपि नोन्नतिहतिर्नन्तुश्च येषां मुदा दातारो जयिनो भवन्तु वरदा देवेश्वरास्ते सदा११५। ___ जन्मेति-जन्म संसारः, अरण्यं अटवी, शिखी अग्नि,: जन्मेवारण्यं जन्मारण्यम् , जन्मारण्यस्य शिखी जन्मारण्यशिखी । स्तव: गुणस्तवनम् । स्मृतिरपि स्मरणमपि । क्लेशाम्बुधेः दुःखसमुद्रस्य नौः पोतः । पदे पादौ । भक्तानामनुरक्तानां । परमौ श्रेष्ठौ । निधी द्रव्यनिधाने । प्रतिकृतिः प्रतिबिम्बम् । सर्वार्थानां सकलकार्याणां सिद्धिः निष्पत्ति. सर्वा थसिद्धिः । परा प्रकृष्टा । बन्दीभूतवतोपि मङ्गलपाटकीभूतवतोपि नग्नाचार्यरुपेण भवतोपि ममेत्यर्थः । न प्रतिषेधवचनम् । उन्नतेः माहात्म्यस्य हतिः हननं उन्नतितिः । नन्तुश्च स्तोतुश्च । येषां यदः आमन्तस्य रूपम् , मुदा हर्षेण । दातारो दानशीलाः, जयोस्ति येषां ते जयिनः । भवन्तु मन्तु । बरं ददत इति वरदाः स्पेष्टदायिनः । देवानां सुराणां ईश्वराः स्वामिन: देवेश्वराः । ते तदो जसन्तस्य रूपम् । सदा सर्वकालम् । एत. दुक्तं भवति येषां स्तवः जन्मारण्यशिखी भवति, येषां स्मतिरपि क्लेशाम्युधेश्च नौः भवति, येषां च प्रतिकृतिः सर्वार्थसिद्धिः परा, येषां नन्तु मुंदा वन्दीभूतवतोपि नोन्नतिहतिः, ते देवेश्वराः दातार: जयिन: वरदा: भवन्तु सदा सर्वकालम् ।। ११५ ॥ हे भगवन् ! जिनके गुणोंका स्तवन करना जन्ममरणरूपी बनको जलानेकेलिये अग्निके समान है जिनका स्मरण करना दुःखरूपी समद्रसे पार होनेकेलिये नौकाके समान है । जिनके चरणकमल भक्त लोगोंके लिये अतिशय श्रेष्ठ और सम्पूर्ण द्रव्योंके १ जायमानस्यापि मम । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132