________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्याद्वादग्रन्थमाला ।
रूप विभूति से विभूषित हैं। हे प्रभो ! मैं भी वीर अर्थात् नर नारकादि अनेक पर्यायों में परिभ्रमण करनेवाला हूं अतएव इस परिभ्रमण से मेरी रक्षा कीजिये ॥ ८९ ॥
इत्यरनाथस्तुतिः । अर्द्धभ्रमः ।
आस यो नतजातीय सदा मत्वा स्तुते कृती | यो महामतगोतेजा नत्वा मल्लिमितः स्तुत ॥९०॥
गौर्वाणी,
आसेति — आस अस्यतिस्म । यः यदो वान्तस्य रूपम् । नतस्य प्रणतस्य जातिः उत्पत्तिः नतजाति: नतजातेरीर्या प्राप्ति: नतजातीर्या तां नतजातीर्याम् । सदा सर्वकालम् । मत्वा ज्ञात्वा । अथवा क्वनिबन्तोयं प्रयोगः, मत्वा ज्ञातेत्यर्थः । स्तुते नुते पूजिते । कृती अनश्वरकीर्त्तिः तीर्थंकरकर्मा पुण्यवानित्यर्थः । यः यदो रूपम् । मतं आगमः, तेजः केवलज्ञानं, द्वन्द्वः, महान्तः मतगोतेजांसि यस्यासौ महामतगोतेजाः । नत्वा स्तुत्वा तमिति सम्बन्धः । तं मल्लि एकोनविंशतीर्थकरम् । इतः प्राप्तः । अथवा इतः ऊर्ध्वं अरस्तुतेरूर्ध्वम् । स्तुत । स्तु इत्यस्य धोः लोडन्तस्य रूपं बहुवचनान्तम् । एतदुक्तं भवति-य: मल्लिः नतजातीय आस सदा मत्वा स्तुते सति कृती यश्च महामतगोतेजाः तं मल्लिनाथं नत्वा इतः स्तुत ॥ ९० ॥
हे मल्लिनाथ ! जो पुरुष आपको नमस्कार करता है आप उसके सम्पूर्ण जन्ममरणादिक रोग दूर कर देते हो | आप सदा ज्ञाता हो । आपका यह आगम, आपकी यह ध्वनि, आपका यह केवलज्ञान अतिशय विशाल है । हे प्रभो ! जो आपकी स्तृति करता है वह अवश्य ही महा पुण्यवान् अर्थात्
For Private And Personal Use Only