Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay

View full book text
Previous | Next

Page 91
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८८ स्थाद्वादग्रन्थमाला । हे स्वामिन् ! यह मोक्षरूप सुख मुझे भी दीजिये तथा मेरी रक्षा भी कीजिये ।। ८७ ॥ गतप्रत्यागत भागः। नय मा स्वर्य वामेश शमेवार्य स्वमाय न दमराजर्त्तवादेन नदेवार्तजरामद ॥ ८८ ॥ नयेति-नय प्रापय । मा अस्मदः इबन्तस्य रूपम् । सु शोभन: अर्यः स्वामी स्वर्यः तस्य सम्बोधन हे स्वर्य सुस्वामिन् । वामेश प्रधानेश । शमेव सुखमेव । आर्य साधो । सुष्ठु अमावः स्वमायः तस्य सम्बोधनं हे स्वमाय । न नत्वर्थे । अथवा आ संमतात् अर्यते गम्यते परिच्छिद्यते यः सः आर्यः र्य इत्यर्थः, आर्यस्य स्वः आत्मा आर्यस्वः, तं मिमीते इति कतरि कः, आर्यस्वमं अयनं ज्ञानं यस्यासौ आर्यस्वमायनः स्वस्वरूपप्रकाशक इत्यर्थः, तस्य सम्बोधनं हे आर्यस्वमायन । दमस्य इन्द्रियजयस्य राजा स्वामी दमराजः । टःसान्तः । अथवा दमेन राजत इति दमराजः तस्य सम्बोधनं हे दमराज । ऋतं सत्यं वादः कथनं यस्यासौ ऋतवादः तस्य सम्बोधनं हे ऋतवाद सत्यवाक्य । इन प्रभो भास्वन् । देवः क्रोडा, आतै पीडा, जरा वृद्धत्वं, मदः कामोद्रेकः । देवश्च आत च जरा च मदश्च देवार्तजरामदाः न विद्यन्ते देवार्तजरामदाः यस्यासौ नदेवात्तजरामदः । नञ् प्रतिरूपकोयं झि संज्ञको नकारः अत: अनादेशो न भवति । तस्य सम्बोधनं हे नदेवार्तजरामद । एतदुक्तं भवति-हे अरनाथ स्वर्य वामेश आर्य स्वमाय आर्यस्वमायन वा दगराज ऋतवाद इन नदेवार्तजरामद मनु मा शमेव नय सुखमेव प्रापय । मां न दु:खमित्युक्तं भवति ॥ ८८॥ हे अरनाथ ! आप उत्कृष्ट नायक हैं तथा सबके स्वामी For Private And Personal Use Only

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132