________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्याद्वादग्रन्थमाला ।
मुरजबन्धः। विश्वमेको रुचामाको व्यापो येनार्य वर्त्तते । शश्वल्लोकोपि चालोको द्वीपो ज्ञानार्णवस्य ते॥८॥
विश्वमेक इति-विश्वं समस्तं क्रियाविशेषणमेतत् । एकः अद्वितीयः। रुचां दीप्तानां आक: प्रापकः। कर्मणि तेयं । व्यापः ब्यापकः । येन यस्मात् । हेतौ भा। हे आर्य भट्टारक । वर्तते शश्वत सर्वदा । लोक: द्रव्याधारः शश्वल्लोकः । अपि च अन्यच्च । अलोकोपि अलोकाकाशमपि । द्वीप: समुद्रे जलविरहितः प्रदेशः । ज्ञानं केवलज्ञानम् अर्णव: समुद्रः। ज्ञानमेवाणवः ज्ञानार्णवः तस्य ज्ञानार्णवस्य । ते तव। अथवा लोकस्यैव विशेषणम् | हाभिः ज्ञानै: आक: परिच्छेद्यः व्याप: मेयः । येन कारणेन लोकश्चालोकश्च आको व्यापश्च ज्ञानार्णवस्य ते तव तेन कारणेन द्वोपो वर्त्तते इति । किमुक्त भवति-सर्वपदार्थेभ्य: केवलज्ञानस्यैव माहात्म्यं दत्तं भवति ॥ ८ ॥
हे आर्य भट्टारक ! यह सम्पूर्ण पट् द्रव्यात्मक लोकाकाश तथा अलोकाकाश ज्ञानसे ही जाना जाता है और ज्ञानके ही द्वारा प्रमेय माना जाता है । इसलिये यह लोकाकाश तथा अलोकाकाश आपके ज्ञानरूपी समुद्रका एक द्वीप है । भावार्थजैसे द्वीप समुद्रके भीतर होता है उसीप्रकार ये समस्त, लोक अलोक आपके केवलज्ञानके भीतर हैं इसकारण यह द्वीप है अर्थात् आपका ज्ञान सवको जानता है और सबसे बड़ा है ॥ ८ ॥
For Private And Personal Use Only