Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay

View full book text
Previous | Next

Page 70
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । अनन्तरपादमुरजः। हृदि येन धृतोसीनः स दिव्यो न कुतो जनः । त्वयारूढो यतो मेरुः श्रिया रूढो मतो गुरुः॥६६॥ हृदीति-हृदि हृदये । येन जनेन । धृतो विधृतः । असि भवसि । इनः स्वामी इति कृत्वा । सः पूर्वोक्तः प्रतिपादकः । दिव्य: पुण्यवान् कृतार्थ इत्यर्थः । न कुतः न कस्मात् । जनः भव्यलोकः । त्वया भट्टारकेण । आरूढः अधिष्ठितः । यतो यस्मात् । मेरुः गिरिराजः श्रिया लक्ष्म्या । रूढः प्रख्यातः श्रीमान् जात: । मतः ज्ञातः । गुरुः महान् । एवं सम्बन्धः कर्तव्यः----हे भट्टारक त्वं येन जनेन हृदि धृतो भवसि इन इति कृत्वा स जन: कुतो न दिव्य: किन्तु दिव्य एव । यतो मेरुरपि त्वयारूढः सन् श्रिया रूढः मत: गुरुश्च मत: ॥६६॥ हे भगवन् ! जो भव्यजीव आपको स्वामी मानकर अपने हृदयमें धारण करता है वह अवश्य ही पुण्यवान् हो जाता है । क्योंकि सुमेरुपर्वत केवल आपके चरणकमलोंके स्पर्श करनेमात्रसे ही श्रीमान् और महान् होगया ।। ६६ ॥ इतिधर्मनाथस्तुतिः मुरजः। चक्रपाणेदिशामूढा भवतो गुणमन्दरम् । के क्रमेणेदृशा रूढाः स्तुवन्तो गुरुमक्षरम् ॥६७॥ चक्रेति-चक्रपाणेः चक्रवर्तिनः पूर्वराज्यावस्थाविशेषणमेतत् । दिशामूढा दिग्मूढा अविज्ञातदिशः । भवतः भट्टारकस्य । गुणमन्दरं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132