________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक ।
अनन्तरपादमुरजः। हृदि येन धृतोसीनः स दिव्यो न कुतो जनः । त्वयारूढो यतो मेरुः श्रिया रूढो मतो गुरुः॥६६॥
हृदीति-हृदि हृदये । येन जनेन । धृतो विधृतः । असि भवसि । इनः स्वामी इति कृत्वा । सः पूर्वोक्तः प्रतिपादकः । दिव्य: पुण्यवान् कृतार्थ इत्यर्थः । न कुतः न कस्मात् । जनः भव्यलोकः । त्वया भट्टारकेण । आरूढः अधिष्ठितः । यतो यस्मात् । मेरुः गिरिराजः श्रिया लक्ष्म्या । रूढः प्रख्यातः श्रीमान् जात: । मतः ज्ञातः । गुरुः महान् । एवं सम्बन्धः कर्तव्यः----हे भट्टारक त्वं येन जनेन हृदि धृतो भवसि इन इति कृत्वा स जन: कुतो न दिव्य: किन्तु दिव्य एव । यतो मेरुरपि त्वयारूढः सन् श्रिया रूढः मत: गुरुश्च मत: ॥६६॥
हे भगवन् ! जो भव्यजीव आपको स्वामी मानकर अपने हृदयमें धारण करता है वह अवश्य ही पुण्यवान् हो जाता है । क्योंकि सुमेरुपर्वत केवल आपके चरणकमलोंके स्पर्श करनेमात्रसे ही श्रीमान् और महान् होगया ।। ६६ ॥
इतिधर्मनाथस्तुतिः
मुरजः। चक्रपाणेदिशामूढा भवतो गुणमन्दरम् । के क्रमेणेदृशा रूढाः स्तुवन्तो गुरुमक्षरम् ॥६७॥
चक्रेति-चक्रपाणेः चक्रवर्तिनः पूर्वराज्यावस्थाविशेषणमेतत् । दिशामूढा दिग्मूढा अविज्ञातदिशः । भवतः भट्टारकस्य । गुणमन्दरं
For Private And Personal Use Only