________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक |
२३
I
श्वर । विधेयाः कुरु । वि पूर्व : धाज् करोत्यर्थे वर्त्तते । मे मम । यत् अनन्तं न विद्यते अन्तो विनाशो यस्य तदनन्तं धाम । विभ्रमः मोहः न विद्यते विभ्रमो यस्यासावविभ्रमः । तस्य सम्बोधनं हे अविभ्रम । एतदुक्तं भवति - हे जिन अविभ्रम स्वकीयया श्रिया धाम अवस्थानं यदनन्तं मे मम तत् विधेयाः ॥ २० ॥
हे जिन ! मोहरहित ! भगवन् ! आप अपनी, अभिमत और बड़ी भारी लक्ष्मी के होनेसे ही अनन्तज्ञानी हो । हे प्रभो ! आप मुझे भी ऐसा ज्ञान वा तेज दीजिये जिसका कभी नाश न हो ॥ २० ॥
इति शंभवनाथस्तुतिः ।
अर्द्धभूमः ।
अतमः स्वनतारक्षी तमोहा वन्दनेश्वरः । महाश्रीमानजो नेता स्वव मामभिनन्दन ॥ २१ ॥
अतम इति -- तमः अज्ञानं न विद्यते तमो यस्यासावतमाः तस्य सम्बोधनं हे अतमः । स्वतः आत्मनः नताः प्रणता: स्वस्मिन् नता: .मा स्वनताः । आरक्षणशीलः आरक्षी । स्वनतानामारक्षी स्वनतारक्षी । नमो मोह च हन्ति जहातीति तमोहा त्वं वन्दनेश्वर: वन्दनायाः ईश्वर: . स्वामी वंदनेश्वरः । महती चासौ श्रीश्च महाश्रीः महाश्री : विद्यते यस महाश्रीमान् | न जायत इत्यजः । नेता नायकः । स्वयं रक्ष सुपूर्वस्य अव रक्षणे इत्यस्य धो: लोङ तस्य रूपम् । मां अस्मदः इबन्त स्य रूपम् | अभिनन्दन: चतुर्थजिनेश्वरः तस्य सम्बोधनं हे अभिनन्दन ।
For Private And Personal Use Only