________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्याद्वादग्रन्थमाला ।
अनन्तरपादमुरजबन्धः । अभिषिक्तः सुरैर्लोकैस्त्रिभिर्भक्तः परैर्न कैः । वासुपूज्य मयीशेशस्त्वं सुपूज्यः क ईदृशः॥४८॥
अभीति-प्रथमद्वितीययोस्तृतीयचतुर्थयोः पादयोः मुरजबन्धो दृष्टव्यः ।
__ अभिाषिक्तः मेरुमस्तके स्नापितः । सुरैः देवैः । लोकैस्त्रिभिः भवन वासिमनुष्यदेवेन्द्रैः । भक्त: सेवितः । परैरन्यैः कैन सेवितः किन्तु सेवित एव । हे वासुपूज्य द्वादशतीर्थकर । मयि विषये मम वा । ईशानामीशः ईशेशः त्वं । सुष्ठु पूज्यः सुपूज्यः । क ईदृशः युष्मत्समानः अन्यः क इत्यर्थः । एतदुक्तं भवति-हे वासुपूज्य यः लोकैः त्रिभिः अभिषिक्तः भक्तश्च सः अन्यैः कैन भक्तः सवितश्च ततो मयि मम त्वमेव ईशेशः अन्यः ईदृशः सुपूज्यः कः यः अस्माकं स्वामी भवेत् ॥ ४८ ॥
हे भगवन् ! वासुपूज्य ! वैमानिक देवोंने तथा भवन वासी व्यन्तर ज्योतिष्क मनुष्य तिर्यञ्च आदि तीनो लोकोंने आपको सुमेरु पर्वतके मस्तकपर ले जाकर आपका अभिषेक किया, आपकी सेवा की । हे प्रभो ! फिर ऐसा कौन है जो आपकी सेवा म करै अर्थात् सभी आपकी सेवा करते हैं। अतएव मेरेलिये आपही ईश्वग ईश्वर हैं आप ही सुपूज्य हैं। आपके समान अन्य कौन है जो मेरा स्वामी हो सके । ४८ ।।
For Private And Personal Use Only