________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक |
केवलज्ञानादिप्राप्त्या । इगां ईहां चेष्टां विहरणम् । हे कल्य समर्थ । अकृत कृतवान् । भवान् भट्टारक: । युतः युक्तः । समुदायार्थः - भवान् कल्याणतः [: सन् पुनरपि आत्मवान् सन् प्राप्य सर्वार्थसिद्धिं गां अस्मादूर्ध्व अपूर्वा सध्या युतोपि हे कल्य त्वं तथापि चेष्टां विहरणं अकृत अतः सत्यमेतत् “ परार्थी हि सतां चेष्टा ” ॥ ६१ ॥
६३
हे समर्थ ! आप गर्भजन्मादि पंच कल्याणकको प्राप्त हुये हो । आपने अपने शुद्धस्वरूप आत्माकी प्राप्ति की है । तथा इस पृथिवीको ही सवार्थसिद्धि अर्थात् सम्पूर्ण कार्योंको सिद्ध करनेवाली बनादिया है । आप केवलज्ञानादि महा ऋद्धि धारक हैं तथापि भव्यजीवों के कल्याणार्थ विहार करते हो । अतएव यह वाक्य ठीक है कि ' परार्था हि सतां चेष्ट्रा अर्थात् सज्जनोंके सम्पूर्ण कार्य दूसरोंके लिये ही होते हैं ।। ६१ ।।
3
For Private And Personal Use Only
मुरज: ।
भवत्येव धरा मान्या सूद्यातीति न विस्मये । देवदेव पुरा धन्या प्रोद्यास्यति भुवि श्रिये ॥ ६२ ॥
भवतीति-भवति भट्टारके त्वयि । एव अवधारणम् । धरा पृथिवी मान्या पूज्या । सूद्याति उद्गच्छति प्रभवति । इति यस्मात् । न विस्मयेहं न ममाश्चर्य्यम् । हे देवदेव देवानां देवः देवदेवः तस्य सम्बोधनं हे देवदेव परमेश्वर । पुरा पूर्वमेव । धन्या पुण्या | प्रोद्यास्यति प्रोगमिष्यति प्रविष्यति । भुवि अस्मिन् लोके । श्रये श्रीनिमित्तम् । समुदायेनार्थः कथ्यते - हे देवदेव सूद्याति भवति भगवति धरा मान्या भवतीति न विस्मयेहम् । यतः प्रोद्यास्यति भगवति पुरैव धन्या भुवि श्रीनिमित्तम् ।। ६२ ।।
{
I