________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक ।
५५
करनेवाले जो जीव आपकी शरण लेते हैं वे बिना किसी कुश के सिद्धत्व पर्यायको अवश्य प्राप्त होते हैं । इसलिये भो भव्यजन ! ऐसे इन विमलनाथ स्वामीको तुम भी नमस्कार करो ।। ५२ ॥
चक्रश्लोकः ।
नयमानक्षमामान न मामार्यार्त्तिनाशन । नशनादस्य नो येन नये नोरोरिमाय न ॥ ५३ ॥
नयमेति - नयमानक्षम पूज्यमानक्षम नयमाना क्षमा यस्यासौ नयमानक्षम: तस्य सम्बोधनं हे नयमानक्षम । न विद्यते मानं उद्धतिः परिमाणं वा यस्यासावमानः तस्य सम्बोधनं हे अमान । न प्रतिषेधवचनम् मां अस्मदः इवन्तस्य रूपम् । आर्याणां साधूनां अति: पीडा तां नाशयती त्यार्यार्त्तिनाशनः कर्तरि युट् बहुलवचनात् । ततः हे आर्यार्तिनाशन । नशनात् विनाशात् जातिजरामरणेभ्यः इत्यर्थः । अस्य उत्सारय । असुक्षपणे इत्यस्य धोः लोडन्तस्य रूपम् | नो प्रतिषेधः । येन कारणेन नये पूजामहं लभे संमाननेयं विधिः । न नो प्रतिषेधवचने अत्र सम्बन्धनीये । न नो नये किन्तु नये एव । द्वौ प्रतिषेधौ प्रकृतमर्थे गमयतः । न प्रतिषेधे । है उरो महन् । अरिमाय अरिहिंसक । अरीन् अन्तःशत्रून् मिनाति इन्तीति अरिमायः ततः हे अरिमाय । पूर्वोक्तोपि न अत्र सम्बन्ध नीयः । हे न न अरिमाय । किमुक्तं भवति हे नयमानक्षम अमान आयर्तिनाशन न न अरिमाय मां विनाशात् अस्य अपनय । येन न नो नये अहं । येन पूजामहं लभे इत्यर्थः ॥ ५३ ॥
हे भगवन् विमलनाथ ! आपकी क्षमा सर्वपूज्य है । आप अहंकाररहित हैं । सज्जनोंके दुखोंको दूर करनेवाले हैं ।
For Private And Personal Use Only