________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
स्याद्वादग्रन्थमाला ।
नन्दिनस्ते विनन्तान नन्तानन्तोभिनन्दन ॥२३॥
नन्दनेति---नन्दना चासौ श्रीश्च नन्दनश्री: पुरुषो वा । हे जिन । त्वा युष्मदः इअन्तस्य प्रयोगः । न न नत्वा किन्तु नत्वैव । ऋद्ध्या विभूत्या सह स्वनन्दि, क्रियाविशेषणम् । स्वनन्दि यथा भवति तथा स्वहर्ष यथा भवति । नन्दिनः समृद्धिमतः । ते तव । विनन्ता च विशेषनन्ता । न न नन्ता स्तोता । अनन्तः अविनश्वरः सिद्धः सम्पद्यते यतः । हे अभिनन्दन । किमुक्तं भवति-हे अभिनन्दन जिन नन्दिनस्ते नन्दनीः ऋद्ध्या सह त्वा न न नत्वा विनन्ता च तव न न स्यात् अनन्तः सवापि अनन्तासद्धः सम्पद्यते ॥ २३ ॥
हे अभिनन्दन जिन ! आप सदा अनन्त चतुष्टयादि समृद्धि कर सुशोभित रहते हैं । हे देव ! जो समृद्धिशाली पुरुष हर्षिता होकर अपनी विभूतिके साथ आपकी पूजा करता है आपको नमस्कार करता है वह अवश्य ही अनन्त अर्थात् अनन्त गुणों का धारक सिद्ध हो जाता है ॥ २३ ॥
गर्भमहादिशैकाक्षरचक्रश्लोकः । नन्दनं त्वाप्यनष्टो न नष्टो नत्वाभिनन्दन । नन्दनस्वर नत्वेन नत्वेनः स्यन्न नन्दनः ॥ २४ ॥
नन्दनं त्वेति-नन्दनं वृद्धिकरं । त्या युष्मदः इबन्तस्य रूपम् । आप्य प्राप्य । नष्टो विनष्टो न । नष्टो विनष्टोऽनत्वा अस्तुत्वा । हे अभिनन्दन । नन्दनः प्रीतिकरः स्वरो वचनं यस्यासौ नन्दनस्वरः तस्य सम्बोधनं हे नन्दनस्वर । त्वा इत्यध्याहार्यः । त्वा नवा स्तुत्वा । इन
For Private And Personal Use Only