________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्थाद्वाद ग्रन्थमाला ।
मपापापदौ च तावमेयश्रियो च तौ अपापापदमेयश्रियो । पादावेव पद्मो पादपद्मौ । अपापापदमेयश्रियौ तौ पादपद्मौ यस्यासो अपापापद्व्यश्रीपादपद्मः तस्य सम्बोधनं हे अपापापदमेयश्रीपादपद्म । प्रभो स्वामिन् । श्रर्दय हिंसय विनाशय । पापं दुष्कृतम् । अप्रतिमा अनुपमा आभा दीप्तिर्यस्यासावप्रतिमाभः अनुपमतेजाः । मे मम । पद्मप्रभ षष्ठ तीर्थकर । मति सद्विज्ञानं प्रददातीति मतिप्रदः तस्य सम्बोधनं हे मतिप्रद । एतदुक्तं भवति-हे पद्मप्रभ मम पापं अर्दय । अन्यानि सर्वाणि पदानि तस्यैव विशेषणानि ॥ २७ ॥
हे पद्मप्रभ ! आपके चरण कमल सदा पापरहित हैं शारीरिक और मानसिक दुःखोंसे अलग हैं, अपरिमित लक्ष्मीको धारण करनेवाले हैं । हे प्रभो ! आप भनुपम तेजको धारण करने वाले हो । सम्यग्ज्ञानको देनेवाले हो । हे प्रभो ! यह मेरा भी पाप दूर कर दीजिये ।। २७ ।।
गतप्रत्यागतपादयमकश्लोकः । वंदे चारुरुचा देव भो वियाततया विभो। त्वामजेय यजे मत्वा तमितान्तं ततामित ॥२८॥
वन्दे इति-प्रथमपादस्याक्षरचतुष्टयं क्रमेणालिख्य पठित्वा पुनरपि तेषां व्युत्क्रमेण पाठः कर्त्तव्यः । क्रमपाठे यान्यक्षराणि विपरीतपाठेऽपि तान्येव । एवं सर्वे पादा द्रष्टव्याः।
वन्दे नौमि । चार्वी शोभना रुग् दीप्तिर्भक्तिर्वा येषां ते चारुरुचः भतस्तेषां चारुरुचाम् । देव भो भट्टारक ! वियाततया वियातस्य भावो
For Private And Personal Use Only