________________
५
५०
पनीतैर्मलयज मृणालघनसारतुषारप्रमुखैः व्याहार्षीच्च
[ १८ राज्ञा
शिशिरोपचारपरिकरप्रकरैः प्रत्युत्पन्नसंज्ञामकार्षीद्
गद्यचिन्तामणिः
$ १८. 'भीरु, केयमाकस्मिककातरता तरलयति भवतीम् ? केन जगति स्वप्नानामवितथफलतान्वभावि ? भावि वा वस्तु कथमस्तु प्रतिबद्धम् ? पुराकृतसुकृतेतर कर्मपरिपाकपराधीनायां विपदि विषादस्य कोऽवसरः ? विषाद किं तु विपदमपनुदति ? प्रत्युत विपदामेव भवे भवे प्रबन्धमनुबध्नाति । तदेवमुभयलोक विरोधी विपाद: किमत्याद्रियते ? यश्च समुपस्थितायां विपदि विषादस्य परिग्रहः सोऽयं चण्डातपचकितस्य दावहुतभुजि पातः । ततो हि कृतधियस्तत्त्वचिन्तया विपदामेव विपदं वितन्वन्ति । किं चावयोरनन्ताः खल्वतीता भवाः ।
समुत्क्षिप्य समुत्थाय स्वाकं निजोसंगम् आरोपयन्स्थापयन् अतिस्वरा शैत्रयातिशयः संजाता येषां तेऽति१० त्वरिताः ते च ते परिजनास्तैरुपनीतैरुपस्थापितैः मलयजश्च मृणालं च घनसारा तुपारश्चेति मलयजमृणालवनसारतुषाराः चन्दनबिसकर्पूरप्रालेयाः ते प्रमुखा येषु तैः शिशिशेपचारपरिकरस्य शीतलोप चारसामग्रधा प्रकराः समूहास्तैः प्रत्युत्क्षा संज्ञा यस्यास्तां पुनरानीतचेतनाम् अकार्षीत् व्याहार्षीश्च जगाद च । १८. भीर्विति भीरु ! अयि कातरे ! इयम् एषा का आकस्मिककातरता सहसोत्पन्नभीता भवतीं त्वां तरलयति तरलां करोति । जगति लोके स्वप्नानाम् अवितथफलता सत्यपरिपाकता केन जनेन १५ अन्वभावि अनुभूता । कर्मणि प्रयोगः अनुपूर्वस्य भवतेः सकर्मकत्वात् । वा अथवा मावि भविष्यत् वस्तु प्रतिबद्धं प्रतिरुद्धं कथं केन प्रकारेण अस्तु भवतु । पुराकृतयोः सुकृतेतरकर्मणोः पुण्यपापकर्मणोः परिपाकेनोदयेन पराधीना तस्यां विपदि विषादस्य शोकस्य श्रवसरः कः प्रस्तावः कः । विषादः शोकः किं विपदं विपत्तिम् अपनुदति दूरीकुरुते न्विति वितर्के । प्रस्युत भवे भवे जन्मनि जन्मनि विपदामेव विपत्तीनामेव प्रबन्धं सन्ततिम् अनुबध्नाति । तत्तस्मात् एवमिध्थम् उभयलोकयोर्विरोध इस्युमय लोकविरोधः सोऽस्ति २० यस्य सः विषादः खेदः किं केन कारणेन अध्याद्वियते अतिसक्रियते । यश्च समुपस्थितायां प्राप्तायां विपदि विषादस्य परिग्रहः स्वीकारः सोऽयं चण्डातपचकितस्य तीक्ष्ण वर्मभीतस्य दाबहुतभुजि चनानले पातः । निदर्शना । ततस्तस्मात् कारणात् हि निश्चयेन कृतधियो बुद्धिमन्तो जनास्तत्त्वचिन्तया तत्वविचारेण विपदामेव विपदं विपत्ति विनाशमिति यावत्, वितन्वन्ति कुर्वन्ति । किंच अन्यच, आवयोर्द्वयोः खलु निश्चयेन अनन्ता अन्तातीला भयाः पर्याया अतीता व्यपगताः न तेषु संगतिः संयोगः यथातीतेषु भवेध्वा२५ करनेवाली दोनों भुजाओंसे उठाकर उसे अपनी गोद में रख लिया और अत्यन्त शीघ्रता से युक्त परिजनोंके द्वारा लाये हुए चन्दन, मृणाल कपूर और बर्फ आदि शीतलोपचारकी सामग्रीके समूह से उसे सचेत किया। साथ ही निम्नांकित वचन कहे
१८. 'हे भीरु ! यह कौन-सा आकस्मिक भय आपको चंचल कर रहा है ? संसार में स्वप्नोंका वास्तविक फल किसने भोगा हूँ ? अथवा जो वस्तु जैसी होनेवाली हैं, वह कैसे ३० रोकी जा सकती है ? पूर्वकृत पाप कर्मके उदयसे परवश विपत्ति में विषादका अवसर ही क्या है ? क्या विपाद विपत्तिको दूर कर देता है ? बल्कि वह भव-भवमें विपत्तियोंकी सन्ततिको हो बढ़ाता है। फिर इस तरह दोनों लोकोंसे विरोध रखनेवाले विषादका आदर क्यों किया जा रहा है ? विपत्ति के उपस्थित होनेपर जो विषादको स्वीकृत करना हैं वह तीव्र घामसे भयभीत मनुष्यका मानो दाघानलमें गिरना है। इसीलिए तो ३५ बुद्धिमान मनुष्य तत्त्वचिन्तनके द्वारा विपत्तियों को ही विपत्ति बढ़ाते हैं- विपत्तियोंको नष्ट करते हैं। दूसरी बात यह है कि हम दोनोंके अनन्त भव बीत चुके । जिस प्रकार
१. म० भवप्रबन्ध - । २. म० किमित्याद्रियते ।