Book Title: Acharangasutram Sutrakrutangsutram Cha
Author(s): Sagaranandsuri, Anandsagarsuri, Jambuvijay
Publisher: Motilal Banarasidas
View full book text
________________
.88
वे.
श्रीआचारामवृत्तिः (शी०)
उद्दशका५
॥१३१॥
णेन तु पूतिर्गृह्यते, ननु च पूतिद्रव्यस्याप्यशुद्धत्वात् आमशब्देनैवोपादानाकिमर्थ भेदेनोपादानमिति, सत्यम् , अशुद्धसामान्यावयते, किंतु पूतिग्रहणेनेहाधाकर्माद्यविशुद्धकोटिरुपात्ता, तस्याश्च गुरुतरत्वात् प्राधान्यख्यापनार्थ पुनरुपादानं, ततश्चायमा-गन्धग्रहणेनाधाकर्म १ औदेशिकत्रिकं २ पूतिकर्म ३ मिश्रजातं ४ बादरप्राभृतिका ५ अध्यवपूरक ६ चैते पडद्गमदोषा अविशुद्धकोव्यन्तर्गता गृहीताः, शेषास्तु विशुद्धकोव्यन्तर्भूता आमग्रहणेनोपात्ता द्रष्टव्या इति, सर्वशब्दस्य च प्रकारकासाभिधायकत्वाद् येन केनचित् प्रकारेण आमम्-अपरिशुद्ध पूति वा भवति तत्सर्व ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया 'निरामगन्धः' निर्गतावामगन्धौ यस्मात्स तथा 'परिव्रजेत्' मोक्षमार्गे ज्ञानदर्शनचारित्राख्ये परिः-समन्ताद्गच्छेत् संयमानुष्ठानं सम्यगनुपालयेदितियावत् । आमग्रहणेन प्रतिषिद्धेऽपि क्रीतकृते तथाप्यल्पसत्त्वानां विशुद्धकोट्यालम्बनतया मा भूत्तत्र प्रवृत्तिरतस्तदेव नामग्राहं प्रतिषिषेधिषुराह
अदिस्समाणे कयविकयेसु, से ण किणे न किणावए किणंतं न समणुजाणइ, से भिक्खू कालन्ने बालन्ने मायन्ने यन्ने खणयन्ने विणयन्ने ससमयपरसमयन्ने भावन्ने परिग्गहं अममायमाणे कालाणुट्ठाई अपडिण्णे (सू० ८८)
भोगी भवतीति, आह च-'से ण किणे इत्यादि, 'स'मुमुक्षुरकिञ्चनो धर्मोपकरणमपि न क्रीणीयात् स्वतो नाप्यपहारेण कापयेत् क्रीणन्तमपि न समनुजानीयात् , अथवा निरामगन्धः परिव्रजेदित्यत्रामग्रहणेन हननकोटित्रिकं गन्धग्रह
णेन पचनकोटित्रिकं क्रयणकोटित्रिकं तु पुनः स्वरूपेणैवोपात्तम्, अतो नवकोटिपरिशुद्धमाहारं विगताङ्गारधूमं भुञ्जीत, एतद्गुणविशिष्टश्च किंभूतो भवतीत्याह-से भिक्खू कालन्ने' काल:-कर्त्तव्यावसरस्तं जानातीति कालज्ञः-विदितवेद्यः, तथा 'बालण्णे' बलज्ञः बलं जानातीति बलज्ञः, छान्दसत्वाद्दीर्घत्वं, आत्मबलं सामर्थ्य जानातीति यथाशत्यनुष्ठानविधायी, अनिगृहितबलवीर्य इत्यर्थः, तथा 'मायन्ने यावद्रव्योपयोगिता मात्रा तां जानातीति तज्ज्ञः, तथा 'खेयन्ने खेदः-अभ्यासस्तेन जानातीति खेदज्ञः अथवा खेदः-श्रमः संसारपर्यटनजनितस्तं जानातीति, उक्तं च-"जरामरणदौर्गत्यव्याधयस्तावदासताम् । मन्ये जन्मैव धीरस्य, भूयो भूयस्त्रपाकरम् ॥१॥” इत्यादि, अथवा 'क्षेत्रज्ञः' संसक्तविरुद्धद्रव्यपरिहार्यकुलादिक्षेत्रस्वरूपपरिच्छेदकः, तथा 'खणयन्नो' क्षण एव क्षणकः-अवसरो भिक्षार्थमुपसर्पणादिकस्तं जानातीति, तथा "विणयन्ने' विनयो-ज्ञानदर्शनचारित्रौपचारिकरूपस्तं जानातीति, तथा 'ससमयपरसमयण्णे' स्वसमयपरसमयौ जानातीति, स्वसमयज्ञो गोचरप्रदेशादौ पृष्टः सन् सुखेनैव भिक्षादोषानाचष्टे, तद्यथा-पोडशोद्गमदोषाः, ते चामी-आधाकर्म १ औद्देशिकं २ पूतिकर्म ३ मिश्रजातं ४ स्थापना ५ प्राभृतिका ६ प्रकाशकरणं ७ क्रीतं ८ उद्यतकं ९ परिवर्तितं १० अभ्याहृतं ११ उद्भिन्नं १२ मालापहृतं १३ आच्छेद्यं १४ अनिसृष्टं १५ अध्य
वपूरकश्चेति १६ । षोडशोत्सादनदोषाः, ते चामी-धात्रीपिण्डः १ दूतीपिण्डः २ निमित्तपिण्डः ३ आजीवपिण्डः ४ श्रीआचा- वनीपकपिण्डः ५ चिकित्सापिण्डः ६ क्रोधपिण्डः ७ मानपिण्डः ८ मायापिण्डः ९ लोभपिण्डः १० पूर्वसंस्तवपिण्डः ११|लोक.वि.२ रावृत्तिः पश्चात्संस्तवपिण्डः १२ विद्यापिण्डः १३ मन्त्रपिण्डः १४ चूर्णयोगपिण्डः १५ मूलकर्मपिण्डश्चेति १६ । तथा दशैषणा(शी०) दोषाः, ते चामी-शङ्कित १ प्रक्षित २ निक्षिप्त ३ पिहित ४ संहृत ५ दायको ६ मिश्रा ७ ऽपरिणत ८ लिप्तो ९ ज्झित
उद्देशक ५ १० दोषाः । एषां चोद्गमदोपा दातृकृता एव भवन्ति, उत्पादनादोषास्तु साधुजनिताः, एषणादोषाश्चोभयोत्पादिता इति । ॥१३२॥
तथा परसमयज्ञो ग्रीष्ममध्याह्नतीव्रतरतरणिकरनिकरावलीढगलत्स्वेदबिन्दुकः क्लिन्नवपुष्कः साधुः केनचिद् धिग्जातिदेश्येनाभिहित:-किमिति भवतां सर्वजनाचीर्ण स्नानं न सम्मतमिति !, स आह-प्रायः सर्वेषामेव यतीनां कामाङ्गत्वाजलस्नानं प्रतिषिद्धं, तथा चार्षम्-"स्नानं मददपकरं, कामाङ्गं प्रथमं स्मृतम् । तस्मात्कामं परित्यज्य, नैव स्त्रान्ति दमे रताः॥१॥” इत्यादि, तदेवमुभयज्ञस्तद्विषये प्रश्न उत्तरदानकुशलो भवति, तथा 'भावन्ने' भावः-चित्ताभिप्रायो दातुःश्रोतुर्वा तं जानातीति भावज्ञः, किं च-'परिग्गहं अममायमाणे' परिगृह्यत इति परिग्रहः-संयातिरिक्तमुपक-| रणादिः तमममीकुर्वन्-अस्वीकुर्वन् मनसाऽप्यनाददान इतियावत्, स एवंविधो भिक्षुः कालज्ञो बलज्ञो मात्रज्ञः क्षेत्रज्ञः खेदज्ञो क्षणज्ञः विनयज्ञः समयज्ञो भावज्ञः परिग्रहमममीकुर्वाणश्च किंभूतो भवतीत्याह-'कालाणुढाई' यद्यस्मिन् काले कर्त्तव्यं तत्तस्मिन्नेवानुष्ठातुं शीलमस्येति कालानुष्ठायी-कालानतिपातकर्तव्योद्यतो, ननु चास्यार्थस्य 'से भिक्खू | कालन्ने' इत्यनेनैव गतार्थत्वात् किमर्थं पुनरभिधीयते इति ?, नैष दोषः, तत्र हि ज्ञपरिज्ञैव केवलाऽभिहिता, कर्त्तव्यकालं ॥१३२॥ जानाति, इह पुनरासेवनापरिज्ञा कर्त्तव्यकाले कार्य विधत्त इति । किं च-'अपडिण्णे' नास्य प्रतिज्ञा विद्यते इत्यप्रतिज्ञः,
AASARALASS
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org