Book Title: Acharangasutram Sutrakrutangsutram Cha
Author(s): Sagaranandsuri, Anandsagarsuri, Jambuvijay
Publisher: Motilal Banarasidas
View full book text
________________
235
MAKARANWARSACARANAGAR
श्रीआचाराङ्गवृत्तिः (शी०)
से भिक्खू वा से जं० मंसं वा मच्छं वा भजिजमाणं पेहाए तिल्लपूर्य वा आएसाए उवक्खडिजमाणं पेहाए नो खद्धं २ उवसंकमित्तु ओभासिज्जा, नन्नत्थ गिलाणणीसाए ।। (सू० ५१) स पुनः साधुर्यदि पुनरेवं जानीयात् , तद्यथा-मांसं वा मत्स्य वा 'भज्यमान'मिति पच्यमानं तैलप्रधानं वा पूपं, तच्च किमर्थ क्रियते इति दर्शयति-यस्मिन्नायाते कर्मण्यादिश्यते परिजनः स आदेशः-प्राघूर्णकस्तदर्थ संस्क्रियमाणमाहारं प्रेक्ष्य लोलुपतया 'नो' नैव 'खद्धं २'ति शीघ्र २, द्विर्वचनमादरख्यापनार्थमुपसंक्रम्यावभाषेत-याचेत, अन्यत्र ग्लानादिकार्यादिति ॥
से भिक्खू वा० अन्नयर भोयणजायं पडिगाहित्ता सुभि सुभि भुषा दुभि २ परिहवेइ, माइट्ठाणं संफासे, नो एवं करिजा । सुभि वा दुभि वा सव्वं भुंजिजा नो किंचिवि परिट्ठविज्जा ।। (सू० ५२) स भिक्षुरन्यतरद् भोजनजातं परिगृह्य सुरभि सुरभि भक्षयेत् दुर्गन्धं २ परित्यजेत् , वीप्सायां द्विवचनं, मातृस्थानं चैवं संस्पृशेत् , तच्च न कुर्यात् , यथा च कुर्यात् तदर्शयति-सुरभि वा दुर्गन्धं वा सर्व भुञ्जीत न परित्यजेदिति ॥
से भिक्खू वा २ अन्नयरं पाणगजायं पडिगाहित्ता पुष्फ २ आविइत्ता कसायं २ परिहवेइ, माइट्टाणं संफासे, नो एवं करिजा । पुर्फ पुप्फेइ वा कसायं कसाइ वा सव्वमेयं भुंजिजा, नो किंचिवि परि० ॥ (सू० ५३)
एवं पानकसूत्रमपि, नवरं वर्णगन्धोपेतं पुष्पं तद्विपरीतं कषायं, वीप्सायां द्विर्वचनं, दोषश्चानन्तरसूत्रयोराहारगासात् सूत्रार्थहानिः कर्मबन्धश्चेति ।
से भिक्खू वा० बहुपरियावन्नं भोयणजायं पडिगाहित्ता बहवे साहम्मिया तत्थ वसंति संभोइया समणुन्ना अपरिहारिया अदूरगया, तेसिं अणालोइया अणामंते परिवेइ, माइट्ठाणं संफासे, नो एवं करेज्जा, से तमायाए तत्थ गच्छिज्जा २ से पुवामेव आलोइज्जा-आउसंतो समणा ! इमे मे असणे वा पाणे वा ४ बहुपरियावन्ने तं भुंजह णं, से सेवं वयंत परो वइजा-आउसंतो समणा ! आहारमेयं असणं वा ४ जावइयं २ सरइ तावइयं २ भुक्खामो वा पाहाम्गे वा सव्वमेयं परिस
डइ सव्वमेयं भुक्खामो वा पाहामो वा ॥ (सू० ५४)
स भिक्षुर्वह्वशनादि पर्यापन्नं-लब्धं परिगृह्य बहुभिर्वा प्रकारैराचार्यग्लानप्राघूर्णकाद्यर्थ दुर्लभद्रव्यादिभिः पर्यापनमा४ हारजातं परिगृह्य तद्बहुत्वाद्भोक्तुमसमर्थः, तत्र च साधर्मिकाः सम्भोगिकाः समनोज्ञा अपरिहारिका एकार्थाश्चालापकाः,
इत्येतेषु सत्स्वदूरगतेषु वा ताननापृच्छच प्रमादितया 'परिष्ठापयेत्' परित्यजेत् , एवं च मातृस्थानं संस्पृशेत् , नैवं कुर्यात्, यच्च कुर्यात्तदर्शयति-स भिक्षुस्तदधिकमाहारजातं परिगृह्य तत्समीपं गच्छेद् , गत्वा च पूर्वमेव 'आलोकयेत्' दर्शयेत्, एवं च ब्रूयाद्-आयुष्मन् ! श्रमण! ममैतदशनादि बहु पर्यापन्नं नाहं भोक्तुमलमतो यूयं किश्चिद् भुङ्गध्वं, तस्य चैवं वदतः स परो ब्रूयाद्-यावन्मानं भोक्तुं शक्नुमस्तावन्मानं भोक्ष्यामहे पास्यामो वा, सर्व वा 'परिशटति' उपयुज्यते तत्सर्व | भोक्ष्यामहे पास्याम इति ॥
से भिक्खू वा २ से जं. असणं वा ४ परं समुद्दिस्स बहिया नीहरं जं परेहिं असमणुनायं अणिसिटुं अफा० जाव नो पडिगाहिजा जं परेहिं समणुण्णायं सम्मं णिसिटुं फासुर्य जाव पडिगाहिज्जा, एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा
सामग्गिय (सू० ५५)॥२-१-१-९ ॥ पिण्डैषणायां नवम उद्देशकः । स पुनर्यदेवंभूतमाहारजातं जानीयात् , तद्यथा-परं' चारभटादिकमुद्दिश्य गृहान्निष्क्रान्तं यच्च परैयदि भवान् कस्मैचिद्ददाति ददात्वित्येवं समनुज्ञातं नेतुर्दातुर्वा स्वामित्वेनानिसृष्टं वा तद् बहुदोषदुष्टत्वादप्रासुकमनेषणीयमिति मत्वा न प्रतिगृह्णीयात् , तद्विपरीतं तु प्रतिगृह्णीयादिति, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ प्रथमाध्ययनस्य नवमोद्देशकः परिसमाप्तः ॥
श्रुतस्क०२ |चूलिका १ पिण्डैप०१ उद्देश:
॥३५२॥
उक्तो नवमोऽधुना दशम आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरं पिण्डग्रहणविधिः प्रतिपादितः, इह तु व साधारणादिपिण्डावाप्तौ वसतौ गतेन साधुना यद्विधेयं तद्दर्शयितुमाह
से एगइओ साहारणं • वा पिंडवायं पडिगाहित्ता ते साहम्मिए अणापुच्छित्ता जस्स जस्स इच्छइ तस्स तस्स खद्धं खद्धं दलई, माइट्ठाणं संफासे, नो एवं करिजा । से तमायाय तत्थ गच्छिज्जा २ एवं वइजा-आउसंतो समणा ! संति मम पुरेसंथुया वा पच्छा० तंजहा-आयरिए वा १ उवज्झाए वा २ पवित्ती वा ३ धेरे वा ४ गणी वा ५ गणहरे वा ६ गणावच्छेइए वा ७ अवियाई एएसिं खद्धं खद्धं दाहामि, सेणेवं वयंतं परो वइजा-कामं खलु आउसो! अहापज्जतं - निसिराहि, जावइयं २ परो बदइ तावइयं २ निसिरिजा, सव्वमेवं परो वयइ सव्वमेयं निसिरिज्जा ।। (सू० ५६)
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org