Book Title: Acharangasutram Sutrakrutangsutram Cha
Author(s): Sagaranandsuri, Anandsagarsuri, Jambuvijay
Publisher: Motilal Banarasidas
View full book text ________________
दि पुरुषकारकतमिति प्रज्ञा वा तद्वान् मेधावी नियस दुःखयामि शोचयामि तथा नियतित एवैत
भ्युपपन्नो नान्यनियत्यादिकं कारणमस्तीति, तदेवाह-तद्यथा-योऽहमस्मि 'दुक्खामिति शारीरं मानसं दुःखमनुभवामि तथा शोचामि-इष्टानिष्टवियोगसंप्रयोगकृतं शोकमनुभवामि, तथा 'तिप्पामित्ति शारीरबलं क्षरामि, तथा 'पीडामित्ति सबाह्या
भ्यन्तरया पीडया पीडामनुभवामि, तथा 'परितप्पामित्ति परितापमनुभवामि, तथा 'जूरामित्ति अनार्यकर्मणि प्रवृत्तमात्मानं || || गर्हामि, अनर्थावाप्ता विसूरयामीत्यर्थः, तदेवं यदहं दुःखमनुभवामि तदहमेवाकार्ष, परपीडया कृतवानसीत्यर्थः, तथा परोऽपि ॥
यदुःखशोकादिकमनुभवति मयि वाऽऽपादयति तत्खयमेव कृतमिति, तदेव दर्शयति-'परो वेत्यादि, तथा परोऽपि यन्मां दुःखयति शोचयतीत्यादि प्राग्वन्नेयं तत्सर्वमहमकार्षमित्येवं द्वाभ्यामाकलितोझो वा बाल एवं 'विप्रतिवेदयति' जानीते स्वकारणं मला वा परकारणं वा सर्व दुःखादि पुरुषकारकृतमिति जानीते एवं पुरुषकारकारणमापन इति ॥ तदेवं नियतिवादी पुरुषकारकारणवादिनो बालखमापाद्य खमतमाह-मेधा-मर्यादा प्रज्ञा वा तद्वान् मेधावी-नियतिवादपक्षाश्रयी एवं विप्रतिवेदयति-जानीते, कारणमापम इति नियतिरेव कारणं सु(दुःखाधनुभवस्य, तबथा-योऽहममि दुःखयामि शोचयामि तथा 'तिप्पामिति
रामि 'पीडामिति पीडामनुभवामि परितप्पामिति परितापमनुभवामि, नाहमेवमकार्ष दुःखम् , अपि तु नियतित एवैत-श न्मय्यागत, न पुरुषकारादिकृतं, यतो न हि कस्यचिदात्माऽनिष्टो येनानिष्टा दुःखोत्पादादिकाः क्रिया समारभते, नियत्यैवासाव
निच्छमापि तत्कार्यते येन दुःखपरम्परामाग्भवति, कारणमापन इति परेऽप्येवमेव योजनीयम् । एवं सति नियतिवादी मेधावीति
18 सोल्लण्ठमेतत् , स किल नियतिवादी दृष्टं पुरुषकारं परित्यज्यादृष्टनियतिवादाश्रयेण महाविवेकीत्येवमुल्लण्ठ्यते, खकारणं परकारणं सूत्र. ४७च दुःखादिकमनुभवधियतिकृतमेतदेवं विप्रतिवेदयति-जानाति नात्मकृतं नियतिकारणमापनं, कारण चात्रैकस्यासदनुष्ठानरतस्यापि . सूत्रकृताओं न दुःखमुत्पद्यते परस्य तु सदनुष्ठायिनोऽपि तद्भवतीत्यतो नियतिरेव कीति । तदेवं नियतिवादे स्थिते परमपि यत्किञ्चित्तत्सर्वे ॥१ पुण्डरा २ श्रुतस्क- नियत्यधीनमिति दर्शयितुमाह-'से बेमी'त्यादि, सोऽहं नियतिवादी युक्तितो निश्चित्य 'ब्रवीमी'ति प्रतिपादयामि ये केचन काध्य न्धे शीलाप्राच्यादिषु दिक्षुत्रस्यन्तीति त्रसा-दीन्द्रियादयःस्थावराश्च-पृथिव्यादयः प्राणाः-प्राणिनस्ते सर्वेऽप्येवं नियतित एवौदारिकादिश
यतिवादी कीयावृत्तिः
रीरसंबन्धमागच्छन्ति, नान्येन केनचित्कर्मादिना शरीरं ग्राह्यन्ते, तथा बालकुमारयौवनस्थविरवृद्धावस्थादिकं विविधपर्यायं नियतित ॥२८॥ एवानुभवन्ति, तथा नियतित एव 'विवेक' शरीरात्पृथग्भावमनुभवन्ति, तथा नियतित एव विविधं विधानम्-अवस्थाविशेष
कुजकाणखञ्जवामनकजरामरणरोगशोकादिक बीभत्समागच्छन्ति, तदेवं ते प्राणिनस्त्रसाः स्थावरा 'एवं पूर्वोक्तया नीत्या संगति || यान्ति-नियतिमापना नानाविधविधानभाजो भवन्ति, त एव वा नियतिवादिनः 'संगइयंति नियतिमाश्रित्य 'तदुत्प्रेक्षया नियतिवादोत्प्रेक्षया यत्किञ्चनकारितया परलोकाभीरवो 'नो' नैव एतद्वक्ष्यमाणं विप्रतिवेदयन्ति-जानन्ति, तद्यथा-क्रिया| सदनुष्ठानरूपा अक्रिया तु-असदनुष्ठानरूपा इत्यादि यावदेवं ते नियतिवादिनस्तदुपरि सर्व दोषजातं प्रक्षिप्य विरूपरूपैः कर्मसमा-| | रम्भर्विरूपरूपान् कामभोगान् भोजनाय-उपभोगार्थ समारभन्त इति ।। तदेवमेव-पूर्वोक्तया नीत्या तेऽनार्या विरूपं नियतिमार्ग
॥२८९ प्रतिपन्ना विप्रतिपन्नाः, अनार्यवं पुनस्तेषां नियुक्तिकस्यैव नियतिवादस्य समाश्रयणात, तथाहि-असौ नियतिः किं स्वत एव नियतिखभावा उतान्यया नियत्या नियम्यते ? किंचातः, तत्र यघसौ खयमेव तथाखमावा सर्वपदार्थानामेव तथाखभावत्वं किं न कल्प्यते ?, किं बहुदोषया नियत्या समाश्रितया ? । अथान्यया नियत्या तथा नियम्यते, साऽप्यन्यया साऽप्यन्ययेत्येवमनवस्था । तथा नियतेः खभावंताभियतखावयाऽनया भवितव्यं न नानाखभावयेति, एकलाच नियतस्तत्कायणाप्येकाकारेणैव भवितव्यं, तथा च सति जगद्वैचित्र्याभावः, न चैतइष्टमिष्टं वा । तदेवं युक्तिभिर्विचार्यमाणा नियतिने कथश्चिद् घटते, यदप्युक्तंद्वावपि तौ पुरुषो क्रियाक्रियावादिनौ तुल्यौ, एतदपि प्रतीतिबाधितं, यतस्तयोरेकः क्रियावाद्यपरस्त्रक्रियावादीति कथमनयोस्तु-श ल्यखम् , अथैकया नियत्या तथानियतखात्तुल्यता अनयोः, एतच निरन्तराः सुहृदः प्रत्येष्यन्ति, नियतेरप्रमाणत्वात् , अप्रमाणखं च प्राग्लेशतः प्रदर्शितमेव, यदप्युक्तं यदुःखादिकमहमनुभवामि तबाहमकार्षमित्यादि, तदपि बालवचनप्रायं, यतो(यत्) जन्मान्तरकृतं शुममशुभं वा तदिहोपभुज्यते, स्वकृतकर्मफलेश्वरसादसुमतां, तथा चोक्तं-'यदिह क्रियते कर्म, तत्परत्रोपभुज्यते । मूलसि
तेषु पक्षेषु, फलं शाखासु जायते ॥१॥" तथा-'यदुपात्तमन्यजन्मनि शुभमशुभं वा स्वकर्म परिणत्या । तच्छक्यमन्यथा नो 8 कर्तु देवासुरैरपि हि ॥२॥" तदेवं ते नियतिवादिनोऽनार्या विप्रतिपन्नास्तमेव नियुक्तिकं नियतिवादं श्रद्दधानास्तमेव च प्रतीयन्ते
इत्यादि तावनेयं यावदन्तरा कामभोगेषु विषण्णा इति चतुर्थः पुरुषजातः समाप्तः । साम्प्रतमुपसंजिघृक्षुराह-'इत्येते' पूर्वोक्तास्तज्जीवतच्छरीरपञ्चमहाभूतेश्वरकर्तृखनियतिवादपक्षाश्रयिणश्चखारः पुरुषा नानाप्रकारा प्रज्ञा-मतिर्येषां ते तथा नाना-भिन्नश्छन्दःअभिप्रायो येषां ते तथा, नानाप्रकारं शीलम्-अनुष्ठानं येषां ते तथा, नानारूपा दृष्टिः-दर्शनं येषां ते तथा, नानारूपा रुचिःचेतोऽभिप्रायो येषां ते तथा, नानाप्रकार आरम्भो-धर्मानुष्ठानं येषां ते तथा, नानाप्रकारेण-परस्परभिन्भेनाध्यवसायन संयुक्ता | धर्मार्थमुद्यताः, प्रहीणः परित्यक्तः पूर्वसंयोगो-मातृपितृकलत्रपुत्रसंवन्धो यस्ते तथा, तथा आराधातः सर्वहेयधर्मेभ्य इत्यार्यो
परकारणनिरपेक्षत्वेन खाभाविकत्वात् । २ एकरूपया ।
eeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeesececeae
6ि2082ce
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764