Book Title: Acharangasutram Sutrakrutangsutram Cha
Author(s): Sagaranandsuri, Anandsagarsuri, Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 618
________________ 255 स्प्लुत्य गच्छति । न योजनमसौ गन्तुं, शक्तोऽभ्यासशतैरपि ॥१॥" इति, दृष्टान्तदान्तिकयोरसाम्यात् , तथाहि-ताप्यमान जलं प्रतिक्षणं क्षयं गच्छेत् प्रज्ञा तु विवर्द्धते, यदिवा प्लोषोपलब्धेरव्याहतमनित्वं, तथा प्लवनविषयेऽपि पूर्वमर्यादाया अनतिक्रमाघोजनोत्नुवनाभावः, तत्परित्यागे चोत्तरोत्तरं वृद्ध्या प्रज्ञाप्रकर्षगमनवद्योजनशतमपि गच्छेदित्यतो दृष्टान्तदाान्तिकयोरसाम्यादेवनाशकनीयमिति खितम् , प्रज्ञावृद्धश्च बाधकप्रमाणाभावादस्ति सर्वज्ञत्वप्राप्तिरिति । यदिवा अञ्जनभृतसमुद्गकदृष्टान्तेन जीवाकुलत्वाजगतो हिंसाया दुर्निवारत्वात्सियभावः, तथा चोक्तम्-"जले जीवाः स्थले जीवा, आकाशे जीवमालिनि । जीवमालाकुले लोके, कथं भिक्षुरहिंसकः ॥१॥"इत्यादि, तदेवं सर्वस्यैव हिंसकत्वात्सिद्ध्यभाव इति, तदेतदयुक्तं, तथाहि-सदोपयुक्तख पिहिताश्रवद्वारस्य पञ्चसमितिसमितस्य त्रिगुप्तिगुप्तस्य सर्वथा निरवद्यानुष्ठायिनो द्विचत्वारिंशद्दोषरहितभिक्षाभुज ईर्यासमितस्य कदाचिद्रव्यतःप्राणिव्यपरोपणेऽपि तत्कृतबन्धाभावः, सर्वथा तस्यानवद्यत्वात् , तथा चोक्तम्-"उच्चालियंमि पाए,"इत्यादि प्रतीतं, तदेवं कर्मवन्वाभावात्सिद्धेः सद्भावोऽव्याहतः, सामग्यभावाद सिद्धिसद्भावोऽपीति ॥ २५॥ साम्प्रतं सिद्धानां स्थाननिरूपणा-18 याह-पत्थि सिद्धी'त्यादि, सिद्धेः-अशेषकर्मच्युतिलक्षणाया निजं स्थानं-ईषत्प्राग्भाराख्यं व्यवहारतो निश्चयतस्तु तदुपरि योजनक्रोशषड्भागः, तत्प्रतिपादकप्रमाणाभावात्स नास्तीत्येवं संज्ञां नो निवेशयेत्, यतो बाधकप्रमाणाभावात्साधकस्य चागमस्य सद्भावात्तत्सत्ता दुर्निवारेति । अपिच-अपगताशेषकल्मषाणां सिद्धानां केनचिद्विशिष्टेन स्थानेन भाव्यं, तच्चतुर्दशरज्ज्वात्मकस्य लोकस्याग्रभूतं द्रष्टव्यं, न च शक्यते वक्तुमाकाशवत्सर्वव्यापिनः सिद्धा इति, यतो लोकालोकव्याप्याकाशं, न चालोकेऽपर-18 द्रव्यस्य संभवः, तस्याकाशमात्ररूपत्वात् , लोकमात्रव्यापित्वमपि नास्ति, विकल्पानुपपत्तेः, तथाहि-सिद्धावस्थायां तेषां व्यापि त्वमभ्युपगतमुत प्रागपि , न तावत्सिद्धावस्थायां, तद्व्यापित्वभवने निमित्ताभावात् , नापि प्रागवस्थायां, तद्भावे सर्वसंसारिणां सूत्रकृताङ्गे ५आचार २ भुतस्क ॥ प्रतिनियतसुखदुःखानुभवो न स्यात् , न च शरीराद्वहिरवस्थितमवस्थानमस्ति, तत्सत्तानिबन्धनस्य प्रमाणस्याभावात्, अतः सर्व-1 श्रुताध्य. न्धे शीला- व्यापिलं विचार्यमाणं न कथश्चिद् घटते, तदभावे च लोकाग्रमेव सिद्धानां स्थानं, तद्गतिश्च 'कर्मविमुक्तस्योर्ध्व गति रितिकृता । कीयावृत्तिः | भवति, तथा चोक्तम्-"लाउ एरंडफले अग्गी धूमे य उसु धणुविमुक्के । गइ पुवपओगेणं एवं सिद्धाणवि गईओ ॥१॥"इत्या-19 दि । तदेवमस्ति सिद्धिस्तस्याश्च निजं स्थानमित्येवं संज्ञां निवेशयेदिति ॥ २६ ॥ साम्प्रतं सिद्धेः साधकानां साधूनां तत्प्रतिपक्ष-19 ॥३८२॥ भूतानामसाधूनां चास्तित्वं प्रतिपिपादयिषुः पूर्वपक्षमाह णत्थि साहू असाहू वा, णेवं सन्नं निवेसए । अस्थि साहू असाह वा, एवं सन्नं निवेसए ॥ २७ ॥ णस्थि कल्लाण पावे वा, णेवं सन्नं निवेसए । अस्थि कल्लाण पावे वा, एवं सन्नं निवेसए ॥ २८॥ सूत्रं 'नास्ति' न विद्यते ज्ञानदर्शनचारित्रक्रियोपेतो मोक्षमार्गव्यवस्थितः साधुः, संपूर्णस्य रलत्रयानुष्ठानस्थाभावात् , तदभावाच 18 तत्प्रतिपक्षभूतस्यासाधोरप्यभावः, परस्परापेक्षित्वादेतव्यवस्थानस्यैकतराभावे द्वितीयस्याप्यभाव इत्येवं संज्ञां नो निवेशयेत् , अपि तु अस्ति साधुः, सिद्धेः प्राक्साधितत्वात् , सिद्धिसत्ता च न साधुमन्तरेण, अतः साधुसिद्धिः, तत्प्रतिपक्षभूतस्य चासाधोरिति । यश्च संपूर्णरत्नत्रयानुष्ठानाभावः प्रागाशङ्कितः स सिद्धान्ताभिप्रायमबुद्धैव, तथाहि-सम्यग्दृष्टरुपयुक्तस्यारक्तद्विष्टस्य सत्संयमवतः श्रुता- ३८२ ।। नुसारेणाऽहारादिकं शुद्धबुद्ध्या गृह्णतः कचिदज्ञानादनेषणीयग्रहणसंभवेऽपि सततोपयुक्ततया संपूर्णमेव रत्नत्रयानुष्ठानमिति, १ अलाबुकैरण्ड फलामिधूमेषु धनुर्मुक्के इषौ पूर्वप्रयोगेण गतिरेवं सिद्धानामपि गतयः ॥१॥ यश्च भक्ष्यमिदमिदं चाभक्ष्यं गम्यमिदमिदं चागम्यं प्रासुकमेषणीयमिदमिदं च विपरीतमित्येवं रागद्वेषसंभवेन समभावरूपस्य सामायिकस्याभावः कैश्चिच्चोद्यते तत्तेषां चोदनमज्ञान विजृम्भणात् , तथाहि-न तेषां सामायिकवतां साधूनां रागद्वेषतया भक्ष्या| भक्ष्यादिविवेकः, अपितु प्रधानमोक्षाङ्गस्य सच्चारित्रस्य साधनार्थम् , अपि च-उपकारापकारयोः समभावतया सामायिकं न पुनभक्ष्याभक्ष्ययोः समप्रवृत्त्येति ।। २७ ॥ तदेवं मुक्तिमार्गप्रवृत्तस्य साधुत्वमितरस्य चासाधुत्वं प्रदर्याधुना च सामान्येन कल्याणपापवतोः सद्भाव प्रतिषेधनिषेधद्वारेणाह-'णस्थि कल्लाण पावे वा इत्यादि, यथेष्टार्थफलसंप्राप्तिः कल्याणं तन विद्यते, सर्वा-18 शुचितया निरात्मकत्वाच्च सर्वपदार्थानां बौद्धाभिप्रायेण, तथा तदभावे कल्याणवांश्च न कश्चिद्विद्यते, तथाऽऽत्माद्वैतवाद्यभिप्रायेण | 'पुरुष एवेदं सर्व'मितिकृत्वा पापं पापवान् वा न कश्चिद्विद्यते, तदेवमुभयोरप्यभावः, तथा चोक्तम्-"विद्याविनयसंपन्ने, ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च, पण्डिताः समदर्शिनः ॥१॥" इत्येवमेव कल्याणपापकाभावरूपां संज्ञां नो निवेशयेद्, अपि त्वस्ति कल्याणं कल्याणवांश्च विद्यते, तद्विपर्यस्तं पापं तद्वांश्च विद्यते, इत्येवं संज्ञां निवेशयेत् , तथाहि-नैकान्तेन कल्याणाभावो यो बौद्धैरभिहितः, सर्वपदार्थानामशुचित्वासंभवात् , सर्वाशुचित्वे च बुद्धस्याप्यशुचित्वप्राप्तेः, नापि निरात्मानः खद्रव्यक्षेत्र| कालभावापेक्षया सर्वपदार्थानां विद्यमानत्वात् परद्रव्यादिभिस्तु न विद्यन्ते, सदसदात्मकत्वाद्वस्तुनः, तदुक्तम्-"खपरसत्ताव्युदासोपादानापाचं हि वस्तुनो वस्तुत्व"मिति । तथाऽऽत्माद्वैतभावाभावात्पापाभावोऽपि नास्ति, अद्वैतभावे हि सुखी दुःखी सरोगो नीरोगः सुरूपः कुरूपो दुर्भगः सुभगोऽर्थवान् दरिद्रस्तथाऽयमन्तिकोऽयं तु दवीयान् इत्येवमादिको जगद्वैचित्र्यभावोऽध्यक्षसिद्धोऽपि न स्यात् । यच्च समदर्शित्वमुच्यते ब्राह्मणचाण्डालादिषु तदपि समानपीडोत्पादनतो द्रष्टव्यं, न पुनः कर्मापादित-18 Sawaerao200202000000000000000002020000 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764