________________
255
स्प्लुत्य गच्छति । न योजनमसौ गन्तुं, शक्तोऽभ्यासशतैरपि ॥१॥" इति, दृष्टान्तदान्तिकयोरसाम्यात् , तथाहि-ताप्यमान जलं प्रतिक्षणं क्षयं गच्छेत् प्रज्ञा तु विवर्द्धते, यदिवा प्लोषोपलब्धेरव्याहतमनित्वं, तथा प्लवनविषयेऽपि पूर्वमर्यादाया अनतिक्रमाघोजनोत्नुवनाभावः, तत्परित्यागे चोत्तरोत्तरं वृद्ध्या प्रज्ञाप्रकर्षगमनवद्योजनशतमपि गच्छेदित्यतो दृष्टान्तदाान्तिकयोरसाम्यादेवनाशकनीयमिति खितम् , प्रज्ञावृद्धश्च बाधकप्रमाणाभावादस्ति सर्वज्ञत्वप्राप्तिरिति । यदिवा अञ्जनभृतसमुद्गकदृष्टान्तेन जीवाकुलत्वाजगतो हिंसाया दुर्निवारत्वात्सियभावः, तथा चोक्तम्-"जले जीवाः स्थले जीवा, आकाशे जीवमालिनि । जीवमालाकुले लोके, कथं भिक्षुरहिंसकः ॥१॥"इत्यादि, तदेवं सर्वस्यैव हिंसकत्वात्सिद्ध्यभाव इति, तदेतदयुक्तं, तथाहि-सदोपयुक्तख पिहिताश्रवद्वारस्य पञ्चसमितिसमितस्य त्रिगुप्तिगुप्तस्य सर्वथा निरवद्यानुष्ठायिनो द्विचत्वारिंशद्दोषरहितभिक्षाभुज ईर्यासमितस्य कदाचिद्रव्यतःप्राणिव्यपरोपणेऽपि तत्कृतबन्धाभावः, सर्वथा तस्यानवद्यत्वात् , तथा चोक्तम्-"उच्चालियंमि पाए,"इत्यादि प्रतीतं, तदेवं कर्मवन्वाभावात्सिद्धेः सद्भावोऽव्याहतः, सामग्यभावाद सिद्धिसद्भावोऽपीति ॥ २५॥ साम्प्रतं सिद्धानां स्थाननिरूपणा-18 याह-पत्थि सिद्धी'त्यादि, सिद्धेः-अशेषकर्मच्युतिलक्षणाया निजं स्थानं-ईषत्प्राग्भाराख्यं व्यवहारतो निश्चयतस्तु तदुपरि योजनक्रोशषड्भागः, तत्प्रतिपादकप्रमाणाभावात्स नास्तीत्येवं संज्ञां नो निवेशयेत्, यतो बाधकप्रमाणाभावात्साधकस्य चागमस्य सद्भावात्तत्सत्ता दुर्निवारेति । अपिच-अपगताशेषकल्मषाणां सिद्धानां केनचिद्विशिष्टेन स्थानेन भाव्यं, तच्चतुर्दशरज्ज्वात्मकस्य लोकस्याग्रभूतं द्रष्टव्यं, न च शक्यते वक्तुमाकाशवत्सर्वव्यापिनः सिद्धा इति, यतो लोकालोकव्याप्याकाशं, न चालोकेऽपर-18 द्रव्यस्य संभवः, तस्याकाशमात्ररूपत्वात् , लोकमात्रव्यापित्वमपि नास्ति, विकल्पानुपपत्तेः, तथाहि-सिद्धावस्थायां तेषां व्यापि
त्वमभ्युपगतमुत प्रागपि , न तावत्सिद्धावस्थायां, तद्व्यापित्वभवने निमित्ताभावात् , नापि प्रागवस्थायां, तद्भावे सर्वसंसारिणां सूत्रकृताङ्गे
५आचार २ भुतस्क
॥ प्रतिनियतसुखदुःखानुभवो न स्यात् , न च शरीराद्वहिरवस्थितमवस्थानमस्ति, तत्सत्तानिबन्धनस्य प्रमाणस्याभावात्, अतः सर्व-1 श्रुताध्य. न्धे शीला- व्यापिलं विचार्यमाणं न कथश्चिद् घटते, तदभावे च लोकाग्रमेव सिद्धानां स्थानं, तद्गतिश्च 'कर्मविमुक्तस्योर्ध्व गति रितिकृता । कीयावृत्तिः | भवति, तथा चोक्तम्-"लाउ एरंडफले अग्गी धूमे य उसु धणुविमुक्के । गइ पुवपओगेणं एवं सिद्धाणवि गईओ ॥१॥"इत्या-19
दि । तदेवमस्ति सिद्धिस्तस्याश्च निजं स्थानमित्येवं संज्ञां निवेशयेदिति ॥ २६ ॥ साम्प्रतं सिद्धेः साधकानां साधूनां तत्प्रतिपक्ष-19 ॥३८२॥
भूतानामसाधूनां चास्तित्वं प्रतिपिपादयिषुः पूर्वपक्षमाह
णत्थि साहू असाहू वा, णेवं सन्नं निवेसए । अस्थि साहू असाह वा, एवं सन्नं निवेसए ॥ २७ ॥ णस्थि कल्लाण पावे वा, णेवं सन्नं निवेसए । अस्थि कल्लाण पावे वा, एवं सन्नं निवेसए ॥ २८॥ सूत्रं 'नास्ति' न विद्यते ज्ञानदर्शनचारित्रक्रियोपेतो मोक्षमार्गव्यवस्थितः साधुः, संपूर्णस्य रलत्रयानुष्ठानस्थाभावात् , तदभावाच 18 तत्प्रतिपक्षभूतस्यासाधोरप्यभावः, परस्परापेक्षित्वादेतव्यवस्थानस्यैकतराभावे द्वितीयस्याप्यभाव इत्येवं संज्ञां नो निवेशयेत् , अपि तु अस्ति साधुः, सिद्धेः प्राक्साधितत्वात् , सिद्धिसत्ता च न साधुमन्तरेण, अतः साधुसिद्धिः, तत्प्रतिपक्षभूतस्य चासाधोरिति । यश्च संपूर्णरत्नत्रयानुष्ठानाभावः प्रागाशङ्कितः स सिद्धान्ताभिप्रायमबुद्धैव, तथाहि-सम्यग्दृष्टरुपयुक्तस्यारक्तद्विष्टस्य सत्संयमवतः श्रुता- ३८२ ।। नुसारेणाऽहारादिकं शुद्धबुद्ध्या गृह्णतः कचिदज्ञानादनेषणीयग्रहणसंभवेऽपि सततोपयुक्ततया संपूर्णमेव रत्नत्रयानुष्ठानमिति,
१ अलाबुकैरण्ड फलामिधूमेषु धनुर्मुक्के इषौ पूर्वप्रयोगेण गतिरेवं सिद्धानामपि गतयः ॥१॥ यश्च भक्ष्यमिदमिदं चाभक्ष्यं गम्यमिदमिदं चागम्यं प्रासुकमेषणीयमिदमिदं च विपरीतमित्येवं रागद्वेषसंभवेन समभावरूपस्य सामायिकस्याभावः कैश्चिच्चोद्यते तत्तेषां चोदनमज्ञान विजृम्भणात् , तथाहि-न तेषां सामायिकवतां साधूनां रागद्वेषतया भक्ष्या| भक्ष्यादिविवेकः, अपितु प्रधानमोक्षाङ्गस्य सच्चारित्रस्य साधनार्थम् , अपि च-उपकारापकारयोः समभावतया सामायिकं न पुनभक्ष्याभक्ष्ययोः समप्रवृत्त्येति ।। २७ ॥ तदेवं मुक्तिमार्गप्रवृत्तस्य साधुत्वमितरस्य चासाधुत्वं प्रदर्याधुना च सामान्येन कल्याणपापवतोः सद्भाव प्रतिषेधनिषेधद्वारेणाह-'णस्थि कल्लाण पावे वा इत्यादि, यथेष्टार्थफलसंप्राप्तिः कल्याणं तन विद्यते, सर्वा-18 शुचितया निरात्मकत्वाच्च सर्वपदार्थानां बौद्धाभिप्रायेण, तथा तदभावे कल्याणवांश्च न कश्चिद्विद्यते, तथाऽऽत्माद्वैतवाद्यभिप्रायेण | 'पुरुष एवेदं सर्व'मितिकृत्वा पापं पापवान् वा न कश्चिद्विद्यते, तदेवमुभयोरप्यभावः, तथा चोक्तम्-"विद्याविनयसंपन्ने, ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च, पण्डिताः समदर्शिनः ॥१॥" इत्येवमेव कल्याणपापकाभावरूपां संज्ञां नो निवेशयेद्, अपि त्वस्ति कल्याणं कल्याणवांश्च विद्यते, तद्विपर्यस्तं पापं तद्वांश्च विद्यते, इत्येवं संज्ञां निवेशयेत् , तथाहि-नैकान्तेन कल्याणाभावो यो बौद्धैरभिहितः, सर्वपदार्थानामशुचित्वासंभवात् , सर्वाशुचित्वे च बुद्धस्याप्यशुचित्वप्राप्तेः, नापि निरात्मानः खद्रव्यक्षेत्र| कालभावापेक्षया सर्वपदार्थानां विद्यमानत्वात् परद्रव्यादिभिस्तु न विद्यन्ते, सदसदात्मकत्वाद्वस्तुनः, तदुक्तम्-"खपरसत्ताव्युदासोपादानापाचं हि वस्तुनो वस्तुत्व"मिति । तथाऽऽत्माद्वैतभावाभावात्पापाभावोऽपि नास्ति, अद्वैतभावे हि सुखी दुःखी सरोगो नीरोगः सुरूपः कुरूपो दुर्भगः सुभगोऽर्थवान् दरिद्रस्तथाऽयमन्तिकोऽयं तु दवीयान् इत्येवमादिको जगद्वैचित्र्यभावोऽध्यक्षसिद्धोऽपि न स्यात् । यच्च समदर्शित्वमुच्यते ब्राह्मणचाण्डालादिषु तदपि समानपीडोत्पादनतो द्रष्टव्यं, न पुनः कर्मापादित-18
Sawaerao200202000000000000000002020000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org