Book Title: Acharangasutram Sutrakrutangsutram Cha
Author(s): Sagaranandsuri, Anandsagarsuri, Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 628
________________ 1265 सूत्रक. ६ मकता २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३९७॥ टseseseseeseaesesesepeceseceisesecticesesecenesenseseceiveleseseseseservestrenes छत्यससिद्धान्ते, तदुक्तम्-"अविज्ञानोपचितं परिज्ञानोपचितमीर्यापथिक स्वप्नान्तिकं चेति कर्मोपचयं न याति" ॥ २८॥ पुनरपि शाक्य एव दानफलमधिकृत्याहसिणायगाणं तु दुवे सहस्से, जे भोयए णियए भिक्खुयाणं । ते पुन्नखधं सुमहं जिणित्ता, भवंति आरोप्प महंतसत्ता ॥ २९ ॥ अजोगरूवं इह संजयाणं, पावं तु पाणाण पसज्झ काउं । अयोहिए दोण्हवि तं असाहु, वयंति जे यावि पडिस्सुणंति ॥ ३० ॥ उड्डे अहेयं तिरियं दिसासु, विन्नाय लिंगं तसथावराणं। भूयाभिसंकाइ दुगुंछमाणे, वदे करेजा व कुओ विहऽथी? ॥३१॥ पुरिसेत्ति विन्नत्ति न एवमस्थि, अणारिए से पुरिसे तहा हु। को संभवो? पिन्नगपिंडियाए, वायावि एसा वुइया असच्चा ॥ ३२॥ वायाभियोगेण जमावहेजा, णो नारिसं वायमुदाहरिजा । अट्ठाणमेयं वयणं गुणाणं, णो दिक्खिए बूय सुरालमेयं ॥ ३३ ॥ लद्धे अहे अहो एव तुन्भे, जीवाणुभागे सुविचिंतिए व । पुवं समुदं अवरं च पुढे, उलोइए पाणितले ठिए वा ॥३४॥ जीवाणुभागं सुविचिंतयंता, आहारिया अन्नविहीय सोहिं । न वियागरे छन्नपओपजीवि, एसोऽणुधम्मो इह संजयाणं ॥३५॥ सिणायगाणं तु दुवे सहस्से, जे भोयए नियए भिक्खुयाणं । असंजए लोहियपाणि से ऊ, णियच्छति गरिहमिहेव लोए ॥ ३६॥ स्नातका-बोधिसत्वाः, तुशब्दात्पश्चशिक्षापदिकादिपरिग्रहः, तेषां भिक्षुकाणां सहस्रद्वयं 'निजे शाक्यपुत्रीये धर्मे व्यवस्थितः। कश्चिदुपासकः पचनपाचनाद्यपि कृखा भोजयेत् समांसगुडदाडिमेनेष्टेन भोजनेन, ते पुरुषा महासत्त्वाः श्रद्धालवः पुण्यस्कन्धं महान्तं समावर्ण्य तेन च पुण्यस्कन्धेनारोप्याख्या देवा भवन्त्याकाशोपगा(मा.), सर्वोत्तमा देवगतिं गच्छन्तीत्यर्थः ॥२९॥ तदेवं ६आईकाबुद्धेन दानमूलः शीलमूलश्च धर्मः प्रवेदितः, तद् 'एहि आगच्छ बौद्धसिद्धान्त प्रतिपद्यखेत्येवं भिक्षुकैरभिहितः सभाकोना- ध्ययन. कुलया दृष्ट्या तान्वीक्ष्योवाचेदं वक्ष्यमाणमित्याह-'अजोगरूव'मित्यादि, 'इट' असिन् भवदीये शाक्यमते 'संयतानां' | भिक्षणां यदुक्तं प्राक्तदत्यन्तेनायोग्यरूपम्-अघटमानकं, तथाहि-अहिंसार्थमुत्थितस्य त्रिगुप्तिगुप्तस्य पञ्चसमितिसमितस्य सतः | प्रवजितस्य सम्यगज्ञानपूर्विका क्रियां कुर्वतो भावशुद्धिः फलवती भवति, तद्विपर्यस्तमतेस्वज्ञानावृतस्य महामोहाकुलीकतान्तरा मतया खलपुरुपयोरपि विवेकमजानतः कुतस्त्या भावशुद्धिः १, अतोऽत्यंतमसाम्प्रतमेतदुद्धमतानुसारिणां यत्खलबुख्या पुरुषस्य | शूलपोतनपचनादिकं, तथा बुद्धस्य पिन्नाकबुद्ध्या पिशितभक्षणानुमत्यादिकमिति । एतदेव दर्शयति-प्राणानाम्-इन्द्रियादीना| मपगमेन तुशब्दस्यैवकारार्थखात्पापमेव कृखा रससातागौरवादिगृद्धास्तदभावं व्यावर्णयन्ति, एतच्च तेषां पापाभावव्यावर्णनम् | | 'अयोध्यै' अबोधिलाभार्थ तयोर्द्वयोरपि संपद्यते, अतोऽसाध्वेतत् । कयोद्धयोरित्याह-ये बदन्ति पिण्याकबुख्या पुरुषपाकेऽपि |पातकाभावं, ये च तेभ्यः शृण्वन्ति, एतयोयोरपि वर्गयोरसाध्वेतदिति । अपिच-नाज्ञानावृतमूढजने भावशुख्या शुद्धिर्भवति, यदि च स्यात्संसारसोचकादीनामपि तर्हि कर्मविमोक्षः स्यात् , तथा भावशुद्धिमेव केवलामभ्युपगच्छतां भवतां शिरस्तुण्डमुण्डनपिण्डपातादिकं चैत्यकर्मादिकं चानुष्ठानमनर्थकमापद्यते, तसार्वविधया भावशुद्ध्या शुद्धिरुपजायत इति स्थितम् ॥ ३०॥ ॥३९७॥ परपक्षं दूपयित्वाऽऽकः स्वपक्षाविर्भावनायाह-ऊर्ध्वमधस्तिर्यक्षु या दिशः प्रज्ञापकादिकास्तासु सर्वास्वपि दिक्षु प्रसानां स्थावराणां च जन्तूनां यत्रसस्थावरखेन जीवलिङ्ग-चलनस्पन्दनाङ्कुरोद्भवच्छेदम्लानादिकं तद्विज्ञाय अतो 'भूताभिशया'जीवोपमर्दोऽत्र | भविष्यतीत्येवंबुद्धा सर्वमनुष्ठानं जुगुप्समानः-तदुपमई परिहरन् वदेत् कुर्यादप्यतः कुतोऽस्तीह-अस्मिन्नेवभूतेऽनुष्ठाने क्रियमाणे प्रोच्यमाने वाऽस्मत्पक्षे युष्मदापादितो दोष इति ॥ ३१॥ अधुना पिण्याके पुरुषबुवा असंभवमेव दर्शयितुमाह-'पुरिसेत्यादि, तस्यां पिण्याकपिण्ड्यां पुरुषोऽयमित्येवमत्यन्तजडस्यापि विज्ञप्तिरेव नास्ति, तस्साद्य एवं वक्ति सोऽत्यन्तं पुरुषस्तथाभ्युपगमेन हुशब्दस्यैवकारार्थत्वेन अनार्य एवासौ यः पुरुषमेव खलोऽयमितिमखा हतेऽपि नास्ति दोष इत्येवं वदेत् । तथाहि-कः संभवः पिन्नाकपिण्ड्यां पुरुषबुद्धेरित्यतो वागपीयमीगसत्येति सचोपघातकखात् , ततश्च निःशङ्कप्रहार्यनालोचको निर्विवेकतया बयते, तसात्पिण्याककाष्ठादावपि प्रवर्त्तमानेन जीवोपमईभीरुणा साशकेन प्रवर्तितव्यमिति ॥३२॥ किश्चान्यत्-वाचाभियोगो वागभियोगस्तेनापि 'यद्' यस्मादावहेत्पापं कर्म अतो विवेकी भाषागुणदोषज्ञो न तादृशी भाषामुदाहरेत्-नाभिदध्याद्, यत एवं ततोऽस्थानमेतद्वचनं गुणानां, न हि प्रव्रजितो यथावस्थितार्थाभिधायी एतद् 'उदारं' सुष्ठु परिस्थूरं निःसारं निरुपपत्तिकं वचनं ब्रूयात् , तद्यथा-पिण्याकोऽपि पुरुपः पुरुषोऽपि पिण्याकः, तथाऽलाबुकमेव बालको बालक एव वाऽलाबुकमिति ॥३३॥ साम्प्रतमार्द्रककुमार एव तं भिक्षुकं युक्तिपराजितं सन्तं सोल्लुण्ठं विभणिषुराह–'लद्धे'इत्यादि, अहो युष्माभिरथ-अनन्तरं एवंभूताभ्युपगमे सति लब्धोऽर्थो-विज्ञानं यथावस्थितं तत्त्वमिति, तथाऽवगतः सुचिन्तितो भवद्भिर्जीवानामनुभाग:-कर्मविपाकस्तत्पीडेति, तथैवंभूतेन विज्ञानेन भवतां यशः पूर्वसमुद्रमपरं च स्पृष्ट, गतमित्यर्थः, तथा भवद्भिरेवंविधविज्ञानावलोकनेनावलोकितः पाणितलस्थ इवायं लोक इति अहो! भवतां विज्ञानातिशयो यदुत-भवन्तः पिण्याकपुरुषयोर्चालालाबुकयोर्वा विशेषानभिज्ञतया पापस्य कर्मणो यथैतद्भावाभावं प्राकल्पितवन्त इति ॥ ३४ ॥ तदेवं परपक्षं दुपयिता स्वपक्षस्थापनायाह-मौनीन्द्रशासनप्रतिपन्नाः सर्वज्ञोक्त ॥ ३४ ॥ तदेवं परपापिण्याकपुरुपयो लालायुकानावलोकनेनावलोकिता प एयर Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764