Book Title: Acharangasutram Sutrakrutangsutram Cha
Author(s): Sagaranandsuri, Anandsagarsuri, Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 598
________________ 235 दिका: पूर्वोक्तदखाता वृक्षा इत्यभिधातिष्विति, इहापिका २ श्रुतस्क न्धे शीलाकीयावृत्तिः ॥३५२॥ मूलकन्दस्कन्धादीनि नानावर्णानि भवन्तीति चतुर्थ ४, एवमत्रापि वनस्पतियोनिकानां वनस्पतीनामेवं विधार्थप्रतिपादकानि चतुःप्रकाराणि सूत्राणि द्रष्टव्यानीति यावत्ते जीवा वनस्पत्यवयवमूलकन्दस्कन्धादिरूपाः कर्मोपपन्नगा भवन्त्येवमाख्यातम् ।। साम्प्रतं वृक्षोपर्युत्पन्नान् वृक्षानाश्रित्याह-अथापरमेतत्पुराऽऽख्यातं यद्वक्ष्यमाणमिहके सत्त्वा वृक्षयोनिका भवन्ति, तत्र येते पृथिवीयोनिका वृक्षास्तेष्वेव प्रतिप्रदेशतया येऽपरे समुत्पद्यन्ते तस्यैकस्य वनस्पतेर्मूलारम्भकस्योपचयकारिणस्ते वृक्षयोनिका इत्यभिधीयन्ते, यदिवा ये ते मूलकन्दस्कन्धशाखाप्रशाखादिकाः पूर्वोक्तदशस्थानवर्तिनस्त एवमभिधीयन्ते, तेषु च वृक्षयोनिकेषु वृक्षेषु कर्मोपादाननिष्पादितेषु उपर्युपरि अध्यारोहन्तीत्यध्यारुहा:-वृक्षोपरिजाता वृक्षा इत्यभिधीयन्ते, ते च वल्लीवृक्षाभिधानाः | कामवृक्षाभिधाना वा द्रष्टव्याः, तद्भावे चापरे वनस्पतिकायाः समुत्पद्यन्ते वृक्षयोनिकेषु वनस्पतिष्विति, इहापि प्राग्वच्चखारि सूत्राणि द्रष्टव्यानि, तद्यथा-वृक्षयोनि रेषु वृक्षेष्वपरेऽध्यारुहाः समुत्पद्यन्ते, ते च तत्रोत्पन्नाः खयोनिभूतं वनस्पतिशरीरमाहार-18 यन्ति, तथा पृथिव्यप्तेजोवाय्वादीनां च शरीरकमाहारयन्ति, तथा तच्छरीरमाहारितं सदचित्तं विध्वस्तं विपरिणामितमात्मसास्कृतं स्वकायावयवतया व्यवस्थापयन्ति, अपराणि च तेपामध्यारहाणां नानाविधरूपरसगन्धस्पर्शोपेतानि नानासंस्थानानि शरीराणि भवन्ति, ते जीवास्तत्र स्वकृतकर्मोपपन्ना भवन्तीत्येतदाख्यातमिति प्रथमं सूत्रम् , द्वितीयं खिदम्-अथापरं पुराऽऽख्यातं ये ते प्राग्वृक्षयोनिकेषु वृक्षेषु अध्यारुहाः प्रतिपादितास्तेष्वेवोपरि प्रतिप्रदेशोपचयकर्तारोऽध्यारुहवनस्पतिखेनोपपद्यन्ते, ते च जीवा अध्यारुहप्रदेशेषूत्पन्ना अध्यारुहजीवास्तेषां स्वयोनिभूतानि शरीराण्याहारयन्ति, तत्रापराण्यपि पृथिव्यादीनि शरीराणि आहारयन्ति अपराणि चाध्यारुहसंभवानामध्यारुहजीवानां नानाविधवर्णकादिकानि शरीराणि भवन्तीत्येवमाख्यातम् , तृतीयं खिदमअथापरं पुराख्यातं, तद्यथा-इहैके सत्त्वा अध्यारुहसंभवेष्वध्यारुहेष्वध्यारुहलेनोत्पद्यन्ते, ये चैवमुत्पद्यन्ते तेऽध्यारुहयो- 1३ आहारनिकानामध्यारुहाणां यानि शरीराणि तानि आहारयन्ति, द्वितीयसूत्रे वृक्षयोनिकानामध्यारुहाणां यानि शरीराणि तान्यपरे परिज्ञाध्य. अध्यारुहजीवा आहारयन्ति, तृतीये सध्यारुहयोनिकानामध्यारुहजीवानां शरीराणि द्रष्टव्यानीति विशेषः, इदं तु चतुर्थकं, तद्यथा-अथापरमिदमाख्यातं, तद्यथा-इहैके सत्त्वा अध्यारुहयोनिकेष्वध्यारुहेषु मूलकन्दस्कन्धखकशाखाप्रवालपत्रपुष्पफलबीजभावेनोत्पद्यन्ते, ते च तथाविधकर्मोपगा भवन्तीत्येतदाख्यातमिति, शेषं तदेवेति ॥ साम्प्रतं वृक्षव्यतिरिक्तं शेषं वनस्प-18 (ग्रन्थानं १०५०० )तिकायमाश्रित्याह-अथापरमिदमाख्यातं यदुत्तरत्र वक्ष्यते, तद्यथा-इहैके सत्त्वाः पृथिवीयोनिकाः पृथिवीसंभवाः पृथिवीव्युत्क्रमा इत्यादयो यथा वृक्षेषु चखार आलापका एवं तृणान्यप्याश्रित्य द्रष्टव्याः, ते चामी-नानाविधासु पृथिवीयोनिषु तृणवेनोत्पद्यन्ते पृथिवीशरीरं चाहारयन्ति द्वितीयं तु पृथवीयोनिकेषु तृणेपुत्पद्यन्ते तृणशरीरं चाहारयन्तीति तृतीयं तु तृणयोनिकेषु तृणेघृत्पद्यन्ते तृणयोनिकतृणशरीरं चाहारयन्तीति चतुर्थ तृणयोनिकेषु तृणावयवेषु मूलादिषु दशप्रकागरेषुत्पद्यन्ते तृणशरीरं चाहारयन्ति, इत्येवं यावदाख्यातमिति । एवमौषध्याश्रयाश्चखार आलापका भणनीयाः, नवरमोषधिग्रहणं कर्तव्यम् । एवं हरिताश्रयाश्चखार आलापका भणनीयाः । कुहणेषु वेक एवालापको द्रष्टव्यः, तद्योनिकानामपरेषामभावादिति भावः । इह चामी वनस्पतिविशेषा लोकव्यवहारतोऽनुगन्तव्याः प्रज्ञापनातो वाऽवसेया इति । अत्र च सर्वेषामेव पृथिवीयोनिक ॥३५२॥ खात्पृथिवीसमाश्रयखेनाभिहिताः । इह च स्थावराणां वनस्पतेरेव प्रस्पष्टचैतन्यलक्षणखात्तस्यैव प्रात प्रदर्शितं चैतन्यम् , साम्प्रतमकाययोनिकस्य वनस्पतेः स्वरूपं दर्शयितुमाह-अथानन्तरमेतद्वक्ष्यमाणमाख्यातं, तद्यथा-इहैके सत्तास्तथाविधकर्मोदयादुदकं योनिः-उत्पत्तिस्थानं येषां ते तथा, तथोदके संभवो येषां ते तथा, यावत्कर्मनिदानेन संदानितास्तदुपक्रमा नवन्तीति । ते च तत्कर्मवशगा नानाविधयोनिषूदकेषु वृक्षलेन व्युत्क्रामन्ति-उत्पद्यन्ते । ये च जीवा उदकयोनिका वृक्षखेनोत्पन्नास्ते तच्छरीरम्-उदकशरीरमाहारयन्ति, न केवलं तदेवान्यदपि पृथिवीकायादिशरीरमाहारयन्तीति । शेष पूर्ववत् नेयं । यथा पृथिवीयो|निकानां वृक्षाणां चखार आलापका एवमुदकयोनिकानामपि वृक्षाणां भवन्तीत्येवं द्रष्टव्यं, तदुत्पमानां त्वपरविकल्पाभावा-1 |देक एवालापको भवति, एतेषां हि उदकाकृतीनां वनस्पतिकायानां तथा अवकपनकशवलादीनामपरस्य प्रागुक्तस्य विकल्प-16 स्थाभावादिति । एते च उदकाश्रया वनस्पतिविशेषाः कलम्बुकाहडादयो लोकव्यवहारतोऽवसेया इति ॥ साम्प्रतमन्येन प्रका-18 | रेण वनस्पत्याश्रयमालापकत्रयं दर्शयितुमाह-तद्यथा-पृथिवीयोनिकैपक्षवृक्षयोनिकैयक्षैस्तथा वृक्षयोनिकैर्मूलादिभिरिति, एवं वृक्षयोनिकैरध्यारुहैस्तथाऽध्यारुहयोनिकैरध्यारुहैस्तथाध्यारुहयोनिकैर्मूलादिभिरिति । एवमन्येऽपि तृणादयो द्रष्टव्याः । एवमुदक-12 योनिकेष्वपि वृक्षेषु योजनीयं ॥ तदेवं पृथिवीयोनिकवनस्पतेरुदकयोनिकवनस्पतेश्च भेदानुपदाधुना तदनुवादेनोपसंजिघृक्षुराह-'ते जीवा' इत्यादि, ते वनस्पतित्पन्ना जीवाः पृथिवीयोनिकानां तथोकवृक्षाध्यारुहतृणौषधिहरितयोनिकानां वृक्षाणां यावत्स्नेहमाहारयन्तीत्येतदाख्यातमिति, तथा सानां प्राणिनां शरीरमाहारयन्त्येतदवसाने द्रष्टव्यमिति । तदेवं वनस्पतिकायि-MS कानां सुप्रतिपाद्यचैतन्यानां स्वरूपमभिहितं, शेषाः पृथ्वीकायादयश्चखार एकेन्द्रिया उत्तरत्र प्रतिपादयिष्यन्ते, साम्प्रतं त्रसकायस्थावसरः, स च नारकतियेमनुष्यदेवभेदभिन्नः, तत्र नारका अप्रत्यक्षत्वेनानुमानग्राह्या:-(तथाहि) दुष्कृतकमफलभुजः १ एवमन्येष्वपि तृणादियोनिकेष्वपि वृक्षेषु योजनीयं, तदेवं प्र० २ तथोदकानां वृक्षा० प्र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764