________________
235
दिका: पूर्वोक्तदखाता वृक्षा इत्यभिधातिष्विति, इहापिका
२ श्रुतस्क
न्धे शीलाकीयावृत्तिः
॥३५२॥
मूलकन्दस्कन्धादीनि नानावर्णानि भवन्तीति चतुर्थ ४, एवमत्रापि वनस्पतियोनिकानां वनस्पतीनामेवं विधार्थप्रतिपादकानि चतुःप्रकाराणि सूत्राणि द्रष्टव्यानीति यावत्ते जीवा वनस्पत्यवयवमूलकन्दस्कन्धादिरूपाः कर्मोपपन्नगा भवन्त्येवमाख्यातम् ।। साम्प्रतं वृक्षोपर्युत्पन्नान् वृक्षानाश्रित्याह-अथापरमेतत्पुराऽऽख्यातं यद्वक्ष्यमाणमिहके सत्त्वा वृक्षयोनिका भवन्ति, तत्र येते पृथिवीयोनिका वृक्षास्तेष्वेव प्रतिप्रदेशतया येऽपरे समुत्पद्यन्ते तस्यैकस्य वनस्पतेर्मूलारम्भकस्योपचयकारिणस्ते वृक्षयोनिका इत्यभिधीयन्ते, यदिवा ये ते मूलकन्दस्कन्धशाखाप्रशाखादिकाः पूर्वोक्तदशस्थानवर्तिनस्त एवमभिधीयन्ते, तेषु च वृक्षयोनिकेषु वृक्षेषु कर्मोपादाननिष्पादितेषु उपर्युपरि अध्यारोहन्तीत्यध्यारुहा:-वृक्षोपरिजाता वृक्षा इत्यभिधीयन्ते, ते च वल्लीवृक्षाभिधानाः | कामवृक्षाभिधाना वा द्रष्टव्याः, तद्भावे चापरे वनस्पतिकायाः समुत्पद्यन्ते वृक्षयोनिकेषु वनस्पतिष्विति, इहापि प्राग्वच्चखारि सूत्राणि द्रष्टव्यानि, तद्यथा-वृक्षयोनि रेषु वृक्षेष्वपरेऽध्यारुहाः समुत्पद्यन्ते, ते च तत्रोत्पन्नाः खयोनिभूतं वनस्पतिशरीरमाहार-18 यन्ति, तथा पृथिव्यप्तेजोवाय्वादीनां च शरीरकमाहारयन्ति, तथा तच्छरीरमाहारितं सदचित्तं विध्वस्तं विपरिणामितमात्मसास्कृतं स्वकायावयवतया व्यवस्थापयन्ति, अपराणि च तेपामध्यारहाणां नानाविधरूपरसगन्धस्पर्शोपेतानि नानासंस्थानानि शरीराणि भवन्ति, ते जीवास्तत्र स्वकृतकर्मोपपन्ना भवन्तीत्येतदाख्यातमिति प्रथमं सूत्रम् , द्वितीयं खिदम्-अथापरं पुराऽऽख्यातं ये ते प्राग्वृक्षयोनिकेषु वृक्षेषु अध्यारुहाः प्रतिपादितास्तेष्वेवोपरि प्रतिप्रदेशोपचयकर्तारोऽध्यारुहवनस्पतिखेनोपपद्यन्ते, ते च जीवा अध्यारुहप्रदेशेषूत्पन्ना अध्यारुहजीवास्तेषां स्वयोनिभूतानि शरीराण्याहारयन्ति, तत्रापराण्यपि पृथिव्यादीनि शरीराणि आहारयन्ति अपराणि चाध्यारुहसंभवानामध्यारुहजीवानां नानाविधवर्णकादिकानि शरीराणि भवन्तीत्येवमाख्यातम् , तृतीयं खिदमअथापरं पुराख्यातं, तद्यथा-इहैके सत्त्वा अध्यारुहसंभवेष्वध्यारुहेष्वध्यारुहलेनोत्पद्यन्ते, ये चैवमुत्पद्यन्ते तेऽध्यारुहयो-
1३ आहारनिकानामध्यारुहाणां यानि शरीराणि तानि आहारयन्ति, द्वितीयसूत्रे वृक्षयोनिकानामध्यारुहाणां यानि शरीराणि तान्यपरे परिज्ञाध्य. अध्यारुहजीवा आहारयन्ति, तृतीये सध्यारुहयोनिकानामध्यारुहजीवानां शरीराणि द्रष्टव्यानीति विशेषः, इदं तु चतुर्थकं, तद्यथा-अथापरमिदमाख्यातं, तद्यथा-इहैके सत्त्वा अध्यारुहयोनिकेष्वध्यारुहेषु मूलकन्दस्कन्धखकशाखाप्रवालपत्रपुष्पफलबीजभावेनोत्पद्यन्ते, ते च तथाविधकर्मोपगा भवन्तीत्येतदाख्यातमिति, शेषं तदेवेति ॥ साम्प्रतं वृक्षव्यतिरिक्तं शेषं वनस्प-18 (ग्रन्थानं १०५०० )तिकायमाश्रित्याह-अथापरमिदमाख्यातं यदुत्तरत्र वक्ष्यते, तद्यथा-इहैके सत्त्वाः पृथिवीयोनिकाः पृथिवीसंभवाः पृथिवीव्युत्क्रमा इत्यादयो यथा वृक्षेषु चखार आलापका एवं तृणान्यप्याश्रित्य द्रष्टव्याः, ते चामी-नानाविधासु पृथिवीयोनिषु तृणवेनोत्पद्यन्ते पृथिवीशरीरं चाहारयन्ति द्वितीयं तु पृथवीयोनिकेषु तृणेपुत्पद्यन्ते तृणशरीरं चाहारयन्तीति तृतीयं तु तृणयोनिकेषु तृणेघृत्पद्यन्ते तृणयोनिकतृणशरीरं चाहारयन्तीति चतुर्थ तृणयोनिकेषु तृणावयवेषु मूलादिषु दशप्रकागरेषुत्पद्यन्ते तृणशरीरं चाहारयन्ति, इत्येवं यावदाख्यातमिति । एवमौषध्याश्रयाश्चखार आलापका भणनीयाः, नवरमोषधिग्रहणं
कर्तव्यम् । एवं हरिताश्रयाश्चखार आलापका भणनीयाः । कुहणेषु वेक एवालापको द्रष्टव्यः, तद्योनिकानामपरेषामभावादिति भावः । इह चामी वनस्पतिविशेषा लोकव्यवहारतोऽनुगन्तव्याः प्रज्ञापनातो वाऽवसेया इति । अत्र च सर्वेषामेव पृथिवीयोनिक
॥३५२॥ खात्पृथिवीसमाश्रयखेनाभिहिताः । इह च स्थावराणां वनस्पतेरेव प्रस्पष्टचैतन्यलक्षणखात्तस्यैव प्रात प्रदर्शितं चैतन्यम् , साम्प्रतमकाययोनिकस्य वनस्पतेः स्वरूपं दर्शयितुमाह-अथानन्तरमेतद्वक्ष्यमाणमाख्यातं, तद्यथा-इहैके सत्तास्तथाविधकर्मोदयादुदकं योनिः-उत्पत्तिस्थानं येषां ते तथा, तथोदके संभवो येषां ते तथा, यावत्कर्मनिदानेन संदानितास्तदुपक्रमा नवन्तीति । ते च तत्कर्मवशगा नानाविधयोनिषूदकेषु वृक्षलेन व्युत्क्रामन्ति-उत्पद्यन्ते । ये च जीवा उदकयोनिका वृक्षखेनोत्पन्नास्ते तच्छरीरम्-उदकशरीरमाहारयन्ति, न केवलं तदेवान्यदपि पृथिवीकायादिशरीरमाहारयन्तीति । शेष पूर्ववत् नेयं । यथा पृथिवीयो|निकानां वृक्षाणां चखार आलापका एवमुदकयोनिकानामपि वृक्षाणां भवन्तीत्येवं द्रष्टव्यं, तदुत्पमानां त्वपरविकल्पाभावा-1 |देक एवालापको भवति, एतेषां हि उदकाकृतीनां वनस्पतिकायानां तथा अवकपनकशवलादीनामपरस्य प्रागुक्तस्य विकल्प-16 स्थाभावादिति । एते च उदकाश्रया वनस्पतिविशेषाः कलम्बुकाहडादयो लोकव्यवहारतोऽवसेया इति ॥ साम्प्रतमन्येन प्रका-18 | रेण वनस्पत्याश्रयमालापकत्रयं दर्शयितुमाह-तद्यथा-पृथिवीयोनिकैपक्षवृक्षयोनिकैयक्षैस्तथा वृक्षयोनिकैर्मूलादिभिरिति, एवं वृक्षयोनिकैरध्यारुहैस्तथाऽध्यारुहयोनिकैरध्यारुहैस्तथाध्यारुहयोनिकैर्मूलादिभिरिति । एवमन्येऽपि तृणादयो द्रष्टव्याः । एवमुदक-12 योनिकेष्वपि वृक्षेषु योजनीयं ॥ तदेवं पृथिवीयोनिकवनस्पतेरुदकयोनिकवनस्पतेश्च भेदानुपदाधुना तदनुवादेनोपसंजिघृक्षुराह-'ते जीवा' इत्यादि, ते वनस्पतित्पन्ना जीवाः पृथिवीयोनिकानां तथोकवृक्षाध्यारुहतृणौषधिहरितयोनिकानां वृक्षाणां यावत्स्नेहमाहारयन्तीत्येतदाख्यातमिति, तथा सानां प्राणिनां शरीरमाहारयन्त्येतदवसाने द्रष्टव्यमिति । तदेवं वनस्पतिकायि-MS कानां सुप्रतिपाद्यचैतन्यानां स्वरूपमभिहितं, शेषाः पृथ्वीकायादयश्चखार एकेन्द्रिया उत्तरत्र प्रतिपादयिष्यन्ते, साम्प्रतं त्रसकायस्थावसरः, स च नारकतियेमनुष्यदेवभेदभिन्नः, तत्र नारका अप्रत्यक्षत्वेनानुमानग्राह्या:-(तथाहि) दुष्कृतकमफलभुजः १ एवमन्येष्वपि तृणादियोनिकेष्वपि वृक्षेषु योजनीयं, तदेवं प्र० २ तथोदकानां वृक्षा० प्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org