Book Title: Acharangasutram Sutrakrutangsutram Cha
Author(s): Sagaranandsuri, Anandsagarsuri, Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 606
________________ सूत्रकृताने २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३६४ ॥ 243 इति । कथमेते षड् जीवनिकायाः कर्मबन्धस्य कारणमित्याह - 'इच्चेएहि 'मित्यादि इत्येतेषु पृथिव्यादिषु पड्जीवनिकायेषु प्रतिहतंविभितं प्रत्याख्यातं - नियमितं पापं कर्म येन स तथा, पुनर्नञ्समासेनाप्रतिहतप्रत्याख्यातपापकर्मा य आत्मा-जन्तुस्तथा तद्भावखादेव नित्यं सर्वकालं प्रकर्षेण शठः प्रशठस्तथा व्यतिपाते- प्राणव्यपरोपणे चित्तं यस्य स व्यतिपातचित्तः खपरदण्ड हेतुत्वाद्दण्डः प्रशठश्वासौ व्यतिपातचित्तदण्डश्रेति कर्मधारय इति एतदेव प्रत्येकं दर्शयितुमाह- 'तंज' त्यादि, तद्यथा प्राणातिपाते | विधेये प्रशठव्यतिपातचित्तदण्डः, एवं मृषावादादत्तादानमैथुनपरिग्रहेष्वपि वाच्यं यावन्मिथ्यादर्शनशल्यमिति । तेषामि केन्द्रि| यविकलेन्द्रियादीनामनिवृत्तत्वान्मिथ्यात्खाविरतिप्रमादकषाययोगानुगतखं द्रष्टव्यं तद्भावाच्च ते कथं प्राणातिपातादिदोषवन्तो न | भवन्ति, प्राणातिपातादिदोपपत्तया चाव्यक्तविज्ञाना अपि सन्तोऽस्वमाद्यवस्थायामपि ते कर्मबन्धका एव । तदेवं व्यवस्थिते | यत्प्रागुक्तं परेण यथा-नाव्यक्तविज्ञानानामन ताममनरकानां कर्मबन्ध इत्येतत् लवते | साम्प्रतमाचार्य: स्वपक्षसिद्धये दृष्टान्तमाह-- 'तस्थ खलु भगवया' सत्रेति वाक्योपन्यासार्थमाह, खलुशब्दो वाक्यालङ्कारे, भगवता - ऐश्वर्यादिगुणोपेतेन चतुस्त्रिंशदतिशयसमन्वितेन तीर्थकृतः वधकदृष्टान्तः 'प्रज्ञप्तः' प्ररूपितः, तद्यथा नाम वधकः कश्चित्स्यादिति, कुतश्चिन्निमित्तात्कुपितः सन् कस्यचिद्वधपरिणतः कश्चित्पुरुषो भवति, यस्यासौ वधकस्तं विशेषेण दर्शयितुमाह-'गाहावइस्स वे'त्यादि, गृहस्य पतिगृहपतिस्तत्पुत्रो वा अनेन सामान्यतः प्राकृतपुरुषोऽभिहितः, तस्योपरि कुतश्चिनिमित्ताद्बधकः कश्चित्संवृत्तः, स च वधपरिणामपरितोऽपि कस्मिंश्चित्क्षणे पापकारिणमेनं घातयिष्यामीति । तथा राज्ञस्तत्पुत्रस्य वोपरि कुपित एतत्कुर्यादित्याह - 'खणं निद्दाय' १ योग्येऽवसरे । २ अपायस्य । इत्यादि, क्षणम्-अवसरं 'णिद्दाय'त्ति प्राप्य लब्ध्वा वध्यस्य पुरे गृहे वा प्रवेक्ष्यामीत्येतदध्यवसायी भवति, तथा क्षणम्-अवसरं छिद्रादिकं वध्यस्य लब्ध्वा तदुत्तरकालं तं वध्यं हनिष्यामीत्येवं संप्रधारयति, एतदुक्तं भवति-गृहपतेः सामान्यपुरुषस्य राज्ञो वा | विशिष्टतमस्य कस्यचिद्वधपरिणतोऽप्यात्मनोऽवसरं लब्ध्वाऽपरकार्यक्षणे सति तथा वध्यस्य च छिद्रमपेक्षमाणस्तदवसरापेक्षी कंचित्कालमुदास्ते, स च तत्रैौदासीन्यं कुर्वाणोऽपरकार्यं प्रति व्यग्रचेताः संस्तस्मिन्नवसरे वधं प्रत्यस्पष्टविज्ञानो भवति, स चैवंभूतोऽपि यथा तं वध्यं प्रति नित्यमेव प्रशठव्यतिपातचित्तदण्डो भवति, एवमविद्यमानैरपि प्रव्यक्तैर शुभ योगैरे केन्द्रिय विकलेन्द्रियादयोऽस्प|ष्टविज्ञाना अपि मिथ्यात्वाविरतिप्रमादकषाय योगानुगतत्वात्प्राणातिपातादिदोषवन्तो भवन्तीति न च तेऽवसरमपेक्षमाणा उदासीना अप्यवैरिण इति, एवमस्पष्टविज्ञाना अप्यवैरिणो न भवन्तीति, अत्र च वध्यवधकयोः क्षणापेक्षया चत्वारो भङ्गाः, तद्यथावध्यस्थानवसरो १ वधकस्य च २ उभयोर्वाऽनवसरो ३ द्वयोरप्यवसर इति ४ । नागार्जुनीयास्तु पठन्ति - 'अप्पण्णो अक्खणयाए तस्स वा पुरिसस्स छिद्दं अलभमाणे णो वहेइ, तं जया मे खणो भविस्सर तस्स पुरिसस्स छिदं लभिस्सामि तथा मे स पुरिसे अवस्सं वयवे भविस्सह, एवं मणो पहारेमाणे ति सूत्रं निगदसिद्धम् । साम्प्रतमाचार्य एवं स्वाभिप्रेतमर्थं परप्रश्नपूर्वकमाविर्भावयन्नाह' से किं नु हु' इत्यादि, आचार्यः खतो हि निर्णीतार्थोऽसूयया परं पृच्छति - किमिति परप्रश्ने, नुरिति वितर्के दुशब्दो वाक्यालङ्कारे, किमसौ वधकपुरुषोऽवसरापेक्षी 'छिद्रम्' अवसरं 'प्रधारयन' पर्यालोचयन्नहर्निशं सुप्तो जाग्रदवस्थो वा 'तस्य' गृहपते राज्ञो वा वध्यस्यामित्रभूतो मिध्यासंस्थितो नित्यं प्रशठव्यतिपातचित्तदण्डो भवत्याहोखिन्नेति ?, एवं पृष्टः परः समतया १ कचित्कारण कोपाद्वयपरिणतोऽप्या० प्र० । २ परचित्तस्था याऽसूया - यथार्थेऽयथार्थतोद्भावनरूपा तथा हेतुभूतया । माध्यस्थ्यमवलम्बमानो यथावस्थितमेव व्यागृणीयात्, तद्यथा- हन्ताचार्य ! भवत्यसावमित्रभूत इतीत्यादि । तदेवं दृष्टान्तं प्रद | दार्शन्तिकं दर्शयितुमाह-यथाऽसौ वधक इत्यादिना दृष्टान्तमनूद्य दार्शन्तिकमर्थं दर्शयितुमाह- 'एवमेवे 'त्यादि, एवमेवेति यथासौ वधकोऽवसरापेक्षितया वध्यस्य व्यापत्तिमकुर्वाणोऽप्यमित्रभूतो भवत्येवमेवासावपि बालवद्वालोऽस्पष्टविज्ञानो भवत्येव, निवृत्तेरभावाद्येोग्यतया सर्वेषां प्राणिनां व्यापादको भवति यावन्मिथ्यादर्शनशल्योपेतो भवति, इदमुक्तं भवति - यद्यप्युत्थानादिकं विनयं कुतश्चिन्निमित्तादसौ विधत्ते तथाऽप्युदायिन्नृपव्यापादकवदन्तर्दुष्ट एवेति नित्यं प्रशठव्यतिपातचित्तदण्डश्च यथा परशुरामः कृतवीर्यं व्यापाद्यापि तदुत्तरकालं सप्तवारं निःक्षत्रां पृथिवीं चकार, आह हि - " अपकारसमेन कर्मणा न नरस्तुष्टिमुपैति शक्तिमान् । अधिकां कुरुतेऽरियातनां द्विषतां मूलमशेषमुद्धरेत् ॥ १ ॥" इत्येवमसावमित्रभूतो मिथ्याविनीतश्च भवतीति । साम्प्रतमुपसंहरन् प्राक् प्रतिपादितमर्थमनुवदन्नाह - 'एवं खलु भगवया' इत्यादि, यथाऽसौ वधकः स्वपरावसरापेक्षी सन्न तावद् घातयत्यथ चा निवृत्तत्वाद्दोषदुष्ट एव, एवमसावप्यकेन्द्रियादिको स्पष्टविज्ञानोऽपि तथाभूत एवाविरताप्रतिहत प्रत्याख्याता सत्क्रियादिदोषदुष्ट इति शेषं सुगमं यावत्पापं कर्म क्रियत इति । तदेवं दृष्टान्तदार्शन्तिकप्रदर्शनेन पूर्वप्रतिपादितार्थस्य निगमनं कृत्वाऽधुना सर्वेषामेव प्रत्येकं प्राणिनां दुष्ट आत्मा भवति इत्येतत्प्रतिपादयितुकाम आह-यथाऽसौ वधकः परात्मनोरवसरापेक्षी तस्य गृहपतेस्तत्पुत्रस्य वाऽभ्यर्हितस्य वा राजादेस्तत्पुत्रस्य वैकमेकं - पृथक् पृथक् सर्वेष्वपि वध्येषु घातकचित्तं समादाय प्राप्तावसरोहमेनं वैरिणं मदाधिविधायिनं घातयिष्यामीत्येवं प्रतिज्ञाय दिवा वा रात्रौ वा सुप्तो वा जाग्रद्वा सर्वास्ववस्थासु सर्वेषामेव वध्यानां | प्रत्येकममित्र भूतोऽवसरापेक्षितयाऽनन्नपि मिथ्यासंस्थितो नित्यं प्रशठव्यतिपातचितदण्डो भवति, एवं रागद्वेपाकुलितो बालवद्भालो Jain Education International For Private & Personal Use Only ४ प्रत्याख्याना० अविरतस्य पापबन्धः ॥ ३६४ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764