________________
सूत्रकृताने २ श्रुतस्कन्धे शीलाकीयावृत्तिः
॥३६४ ॥
243
इति । कथमेते षड् जीवनिकायाः कर्मबन्धस्य कारणमित्याह - 'इच्चेएहि 'मित्यादि इत्येतेषु पृथिव्यादिषु पड्जीवनिकायेषु प्रतिहतंविभितं प्रत्याख्यातं - नियमितं पापं कर्म येन स तथा, पुनर्नञ्समासेनाप्रतिहतप्रत्याख्यातपापकर्मा य आत्मा-जन्तुस्तथा तद्भावखादेव नित्यं सर्वकालं प्रकर्षेण शठः प्रशठस्तथा व्यतिपाते- प्राणव्यपरोपणे चित्तं यस्य स व्यतिपातचित्तः खपरदण्ड हेतुत्वाद्दण्डः प्रशठश्वासौ व्यतिपातचित्तदण्डश्रेति कर्मधारय इति एतदेव प्रत्येकं दर्शयितुमाह- 'तंज' त्यादि, तद्यथा प्राणातिपाते | विधेये प्रशठव्यतिपातचित्तदण्डः, एवं मृषावादादत्तादानमैथुनपरिग्रहेष्वपि वाच्यं यावन्मिथ्यादर्शनशल्यमिति । तेषामि केन्द्रि| यविकलेन्द्रियादीनामनिवृत्तत्वान्मिथ्यात्खाविरतिप्रमादकषाययोगानुगतखं द्रष्टव्यं तद्भावाच्च ते कथं प्राणातिपातादिदोषवन्तो न | भवन्ति, प्राणातिपातादिदोपपत्तया चाव्यक्तविज्ञाना अपि सन्तोऽस्वमाद्यवस्थायामपि ते कर्मबन्धका एव । तदेवं व्यवस्थिते | यत्प्रागुक्तं परेण यथा-नाव्यक्तविज्ञानानामन ताममनरकानां कर्मबन्ध इत्येतत् लवते | साम्प्रतमाचार्य: स्वपक्षसिद्धये दृष्टान्तमाह-- 'तस्थ खलु भगवया' सत्रेति वाक्योपन्यासार्थमाह, खलुशब्दो वाक्यालङ्कारे, भगवता - ऐश्वर्यादिगुणोपेतेन चतुस्त्रिंशदतिशयसमन्वितेन तीर्थकृतः वधकदृष्टान्तः 'प्रज्ञप्तः' प्ररूपितः, तद्यथा नाम वधकः कश्चित्स्यादिति, कुतश्चिन्निमित्तात्कुपितः सन् कस्यचिद्वधपरिणतः कश्चित्पुरुषो भवति, यस्यासौ वधकस्तं विशेषेण दर्शयितुमाह-'गाहावइस्स वे'त्यादि, गृहस्य पतिगृहपतिस्तत्पुत्रो वा अनेन सामान्यतः प्राकृतपुरुषोऽभिहितः, तस्योपरि कुतश्चिनिमित्ताद्बधकः कश्चित्संवृत्तः, स च वधपरिणामपरितोऽपि कस्मिंश्चित्क्षणे पापकारिणमेनं घातयिष्यामीति । तथा राज्ञस्तत्पुत्रस्य वोपरि कुपित एतत्कुर्यादित्याह - 'खणं निद्दाय'
१ योग्येऽवसरे । २ अपायस्य ।
इत्यादि, क्षणम्-अवसरं 'णिद्दाय'त्ति प्राप्य लब्ध्वा वध्यस्य पुरे गृहे वा प्रवेक्ष्यामीत्येतदध्यवसायी भवति, तथा क्षणम्-अवसरं छिद्रादिकं वध्यस्य लब्ध्वा तदुत्तरकालं तं वध्यं हनिष्यामीत्येवं संप्रधारयति, एतदुक्तं भवति-गृहपतेः सामान्यपुरुषस्य राज्ञो वा | विशिष्टतमस्य कस्यचिद्वधपरिणतोऽप्यात्मनोऽवसरं लब्ध्वाऽपरकार्यक्षणे सति तथा वध्यस्य च छिद्रमपेक्षमाणस्तदवसरापेक्षी कंचित्कालमुदास्ते, स च तत्रैौदासीन्यं कुर्वाणोऽपरकार्यं प्रति व्यग्रचेताः संस्तस्मिन्नवसरे वधं प्रत्यस्पष्टविज्ञानो भवति, स चैवंभूतोऽपि यथा तं वध्यं प्रति नित्यमेव प्रशठव्यतिपातचित्तदण्डो भवति, एवमविद्यमानैरपि प्रव्यक्तैर शुभ योगैरे केन्द्रिय विकलेन्द्रियादयोऽस्प|ष्टविज्ञाना अपि मिथ्यात्वाविरतिप्रमादकषाय योगानुगतत्वात्प्राणातिपातादिदोषवन्तो भवन्तीति न च तेऽवसरमपेक्षमाणा उदासीना अप्यवैरिण इति, एवमस्पष्टविज्ञाना अप्यवैरिणो न भवन्तीति, अत्र च वध्यवधकयोः क्षणापेक्षया चत्वारो भङ्गाः, तद्यथावध्यस्थानवसरो १ वधकस्य च २ उभयोर्वाऽनवसरो ३ द्वयोरप्यवसर इति ४ । नागार्जुनीयास्तु पठन्ति - 'अप्पण्णो अक्खणयाए तस्स वा पुरिसस्स छिद्दं अलभमाणे णो वहेइ, तं जया मे खणो भविस्सर तस्स पुरिसस्स छिदं लभिस्सामि तथा मे स पुरिसे अवस्सं वयवे भविस्सह, एवं मणो पहारेमाणे ति सूत्रं निगदसिद्धम् । साम्प्रतमाचार्य एवं स्वाभिप्रेतमर्थं परप्रश्नपूर्वकमाविर्भावयन्नाह' से किं नु हु' इत्यादि, आचार्यः खतो हि निर्णीतार्थोऽसूयया परं पृच्छति - किमिति परप्रश्ने, नुरिति वितर्के दुशब्दो वाक्यालङ्कारे, किमसौ वधकपुरुषोऽवसरापेक्षी 'छिद्रम्' अवसरं 'प्रधारयन' पर्यालोचयन्नहर्निशं सुप्तो जाग्रदवस्थो वा 'तस्य' गृहपते राज्ञो वा वध्यस्यामित्रभूतो मिध्यासंस्थितो नित्यं प्रशठव्यतिपातचित्तदण्डो भवत्याहोखिन्नेति ?, एवं पृष्टः परः समतया
१ कचित्कारण कोपाद्वयपरिणतोऽप्या० प्र० । २ परचित्तस्था याऽसूया - यथार्थेऽयथार्थतोद्भावनरूपा तथा हेतुभूतया । माध्यस्थ्यमवलम्बमानो यथावस्थितमेव व्यागृणीयात्, तद्यथा- हन्ताचार्य ! भवत्यसावमित्रभूत इतीत्यादि । तदेवं दृष्टान्तं प्रद | दार्शन्तिकं दर्शयितुमाह-यथाऽसौ वधक इत्यादिना दृष्टान्तमनूद्य दार्शन्तिकमर्थं दर्शयितुमाह- 'एवमेवे 'त्यादि, एवमेवेति यथासौ वधकोऽवसरापेक्षितया वध्यस्य व्यापत्तिमकुर्वाणोऽप्यमित्रभूतो भवत्येवमेवासावपि बालवद्वालोऽस्पष्टविज्ञानो भवत्येव, निवृत्तेरभावाद्येोग्यतया सर्वेषां प्राणिनां व्यापादको भवति यावन्मिथ्यादर्शनशल्योपेतो भवति, इदमुक्तं भवति - यद्यप्युत्थानादिकं विनयं कुतश्चिन्निमित्तादसौ विधत्ते तथाऽप्युदायिन्नृपव्यापादकवदन्तर्दुष्ट एवेति नित्यं प्रशठव्यतिपातचित्तदण्डश्च यथा परशुरामः कृतवीर्यं व्यापाद्यापि तदुत्तरकालं सप्तवारं निःक्षत्रां पृथिवीं चकार, आह हि - " अपकारसमेन कर्मणा न नरस्तुष्टिमुपैति शक्तिमान् । अधिकां कुरुतेऽरियातनां द्विषतां मूलमशेषमुद्धरेत् ॥ १ ॥" इत्येवमसावमित्रभूतो मिथ्याविनीतश्च भवतीति । साम्प्रतमुपसंहरन् प्राक् प्रतिपादितमर्थमनुवदन्नाह - 'एवं खलु भगवया' इत्यादि, यथाऽसौ वधकः स्वपरावसरापेक्षी सन्न तावद् घातयत्यथ चा निवृत्तत्वाद्दोषदुष्ट एव, एवमसावप्यकेन्द्रियादिको स्पष्टविज्ञानोऽपि तथाभूत एवाविरताप्रतिहत प्रत्याख्याता सत्क्रियादिदोषदुष्ट इति शेषं सुगमं यावत्पापं कर्म क्रियत इति । तदेवं दृष्टान्तदार्शन्तिकप्रदर्शनेन पूर्वप्रतिपादितार्थस्य निगमनं कृत्वाऽधुना सर्वेषामेव प्रत्येकं प्राणिनां दुष्ट आत्मा भवति इत्येतत्प्रतिपादयितुकाम आह-यथाऽसौ वधकः परात्मनोरवसरापेक्षी तस्य गृहपतेस्तत्पुत्रस्य वाऽभ्यर्हितस्य वा राजादेस्तत्पुत्रस्य वैकमेकं - पृथक् पृथक् सर्वेष्वपि वध्येषु घातकचित्तं समादाय प्राप्तावसरोहमेनं वैरिणं मदाधिविधायिनं घातयिष्यामीत्येवं प्रतिज्ञाय दिवा वा रात्रौ वा सुप्तो वा जाग्रद्वा सर्वास्ववस्थासु सर्वेषामेव वध्यानां | प्रत्येकममित्र भूतोऽवसरापेक्षितयाऽनन्नपि मिथ्यासंस्थितो नित्यं प्रशठव्यतिपातचितदण्डो भवति, एवं रागद्वेपाकुलितो बालवद्भालो
Jain Education International
For Private & Personal Use Only
४ प्रत्याख्याना०
अविरतस्य पापबन्धः
॥ ३६४ ॥
www.jainelibrary.org