Book Title: Acharangasutram Sutrakrutangsutram Cha
Author(s): Sagaranandsuri, Anandsagarsuri, Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 554
________________ सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥२८६॥ 191 यदिवा सर्वव्यापिन आत्मन त्रैलोक्योदरविवरवर्तिपदार्थात्मनो ये केचन धर्माः प्रादुष्यन्ति ते पृथकर्तुं न शक्यन्ते, यथा तद्गण्डं शरीरविकारभूतं तदपृथग्भूतं तद्विनाशे च शरीरमेवावतिष्ठते, एवमेव सर्वेऽपि धर्माः पुरुषादिकाः पुरुषकारणिकाः पुरुषविकाररूपा वा न पुरुषात्पृथग्भवितुमर्हन्ति तद्विकारापगमे चात्मानमेवाश्रित्यावतिष्ठन्ते न तस्माद्वहिर्भवन्तीति, शास्त्रे च दृष्टान्तप्राचुर्यमविरुद्धं, यदिवाऽस्मिन्नर्थे बहवो दृष्टान्ताः संभवन्तीश्वरकर्तृत्ववादस्यात्माद्वैतवादस्य च सुप्रसिद्धत्वा दृष्टान्त बहुत्वमित्याह - 'से जहा'इत्यादि, तद् यथा नामारतिः - चित्तोद्वेगलक्षणा 'स्यादू' भवेत्, सा च शरीरजाता इत्यादि गण्डवभेया, दान्तिकेऽप्येवमेव, सर्वे धर्माः पुरुषादिकाः पुरुषप्रभवा इत्यादि पूर्ववन्नेयं । तथा तद् यथा नाम वल्मीकं - पृथ्वीविकाररूपं स्यात्, तच्च पृथिव्यां | जातं पृथिवीसंबद्धं पृथिव्यभिसमन्वागतं पृथिवीमेवाभि[सं] भूय तिष्ठति, एवमेव यदेतच्चेतनाचेतनरूपं तत्सर्वमीश्वरकारणिकमात्मविवर्तरूपं वा नात्मनः पृथग्भवितुमर्हति पृथिव्या वल्मीकवत् । तथा तत् यथा नाम वृक्षोऽशोकादिकः स्यात् स च पृथवीजात इत्यादि दृष्टान्तदान्तिके पूर्ववदायोज्ये, तद् यथा नाम पुष्करिणी स्यात् - तडागरूपा भवेत्, साऽपि पृथिव्यामेव जातेत्यादि प्राग्वच्चर्च्यः, तथा तद् यथा नाम पुष्कलं - प्रचुरमुदकपुष्कलम् - उदकप्राचुर्यं तच्च तद्धर्मत्वादुदकमेव यावदुदकमेवाभिभूय तिष्ठत्येवं दार्शन्तिकेऽप्यायोज्यं, तथा तद् यथा नामोदकबुद्बुदः स्याद्, अत्रापि दृष्टान्तदार्शन्तिके, न तस्मादवयविनः | पृथग्भूत इति सुगमम् ॥ तदेवं यदीश्वरकृतत्वेनाभ्युपगम्यते तत्सर्वं तथ्यमपरं तु मिथ्या इत्येतदाविर्भावयन्नाह - यदपि चेदं संव्यवहारतः प्रत्यक्षासन्नभूतं 'श्रमणानां' यतीनां 'निर्ग्रन्थानां' निष्किश्चनानामुद्दिष्टं तदर्थं प्रणीतं व्यञ्जितं - तेषामभिव्यक्तीकृतं द्वादशाङ्गं गणिपिटकं तद्यथा - आचार इत्यादि यावद्दृष्टिवादः, सर्वमेतन्मिथ्या अनीश्वरप्रणीतखात् स्वरुचिविरचितरध्यान रुपवाक्यवत्, तथा नैतत्तथ्यं मिथ्येत्यनेनाभूतोद्भावनत्वमाविष्कृतमचौर चौरववत्, नैतत्तथ्यमित्यनेन तु सद्भूतार्थनिहवो यथा नास्त्यात्मेति, तथा नैतद्याथातथ्यम् - यथाऽवस्थितोऽर्थो न तथाऽवस्थितमिति भावः, अनेन सद्भूतार्थनिहवेनासद्भूतार्थारोपणमा - विष्कृतं, तद् यथा गामश्वं ब्रुवतोऽयं वा गामिति, एकार्थिकानि वैतानि शक्रेन्द्रादिवद्रष्टव्यानि । तदेवं यदेतद्वादशाङ्गं गणिपिटकं तदनीश्वरप्रणीतखान्मिथ्येति स्थितम् इदं तु पुनरीश्वरकर्तृकत्वं नामात्माद्वैतं वा सत्यं यथाऽवस्थितार्थप्रतिपादनात् । तथेदमेव तथ्यं सद्भूतार्थोद्भासनात्, तदेवं ते ईश्वरकारणिका आत्माद्वैतवादिनो वा 'एवम्' अनन्तरोक्तया नीत्या सर्व तनुभ्रुवनकरणादिकमीश्वरकारणिकं तथा सर्व चेतनमचेतनं वाऽऽत्मविवर्तस्वभावम्, आत्मन एव सर्वाकारतयोत्पत्तेरित्येवं संज्ञानं संज्ञा तामेवं कुर्वन्त्यन्येषां च ते खदर्शनानुरक्तमनसां संज्ञां संस्थापयन्ति, तथा त एव एवंभूतां संज्ञां वक्ष्यमाणेन न्यायेन नियुक्तिका - मपि सुष्ठु उप-सामीप्येन तदाग्रहितया तदभिमुखा युक्तीर्निनीषवः 'स्थापयन्ति' प्रतिष्ठापयन्ति । ते चैवंवादिनस्तमीश्वरकर्तृलवादमात्माद्वैतवाद वा नातिवर्तन्ते, तदभ्युपगमजातीयं च दुःखं -- दुःखहेतुखादुःखं नातिवर्तन्ते न त्रोटयन्ति वा अस्मिन्नर्थे - ष्टान्तमाह-यथा शकुनिः पक्षिविशेषो लावकादिकः पञ्जरं नातिवर्तते पौनःपुन्येन भ्रान्त्वा तत्रैव वर्तते, एवं तेऽप्येवंभूताभ्युपगमवादिनस्तदापादितकर्मबन्धनं नातिवर्तन्ते न वा त्रोटयन्ति । ते च स्वाग्रहाभिमानग्रहग्रस्ता नैतद्वक्ष्यमाणं विप्रतिवेदयन्तिन सम्यक् जानन्ति तद्यथा-इयं क्रिया-सदनुष्ठानरूपेयं चाक्रिया - तद्विपरीतेत्येवं खाग्रहिणो नान्यत् शोभनमशोभनं वा यावदयमनरक इत्येवं सदसद्विवेकरहितत्वान्नावधारयन्ति, एवमेव यथाकथञ्चित्ते विरूपरूपैः कर्मसमारम्भैः - नानाप्रकारैः सावधानुष्ठा| नैर्द्रव्योपार्जनोपायभूतैर्द्रव्यमुपादाय विरूपरूपान् कामभोगानुच्चावचान्समाचरन्ति भोजनाय - उपभोगार्थमित्येवमना र्यास्ते विरुद्धं | मार्ग प्रतिपन्ना विप्रतिपन्ना न सम्यग्वादिनो भवन्ति, तथाहि सर्वमीश्वरकर्तृकमित्यत्राभ्युपगमे किमसावीश्वरः स्वत एवपरान् क्रियासु प्रवर्त (य) ते उतापरेण प्रेरितः १, तत्र यद्याद्यः पैक्षस्तदा तद्वदन्येषामपि स्वत एव क्रियासु प्रवृत्तिर्भविष्यति किमन्तर्गडनेश्वर| परिकल्पनेन ?, अथासावप्यपरप्रेरितः, सोऽप्यपरेण सोऽप्यपरेणेत्येवमनवस्थालता नभोमण्डलमालिनी प्रसर्पति । किच असावीश्वरो | महापुरुषतया वीतरागतोपेतः सन्नेकान्नर कयोग्यासु क्रियासु प्रवर्तयत्यपरांस्तु स्वर्गापवर्गयोग्यास्थिति ?, अथ ते पूर्वशुभाशुभाचैरितोद| यादेव तथाविधासु क्रियासु प्रवर्तन्ते स तु निमित्तमात्रम्, तदपि न युक्तिसंगतं यतः प्राक्तनाशुभप्रवर्तनमपि तदायत्तमेव, तथा चोक्तम्- "अज्ञो जन्तु" रित्यादि, अथ तदपि प्राक्तनमन्येन प्राक्तनतरेण कारितमिति, एवमनादिहेतुपरम्परेति, एवं च सति तत एव शुभाशुभ स्थाने भविष्यतः किमीश्वरपरिकल्पनेन ?, तथा चोक्तम् - "शस्त्रौषधादिसंबन्धाच्चैत्रस्य व्रणरोहणे । असंबद्धस्य किं स्थाणोः, कारणलं न कल्प्यते ? || १ ||" इत्यादि । यच्चोक्तं- सर्व तनुभ्रुवनकरणादिकं बुद्धिमत्कारणपूर्वकं संस्थान विशेषत्वात् देवकुलादिवदिति, एतदपि न युक्तिसंगतं यत एतदपि साधनं न भवदभिप्रेतमीश्वरं साधयति, तेन सार्धं व्याप्यसिद्धेः, देवकुलादिके दृष्टान्तेऽनीश्वरस्यैव कर्तृलेनाभ्युपगमात् न च संस्थानशब्दप्रवृत्तिमात्रेण सर्वस्य बुद्धिमत्कारणपूर्वक सिध्यति, अन्यथाs| नुपपत्तिलक्षणस्य साध्यसाधनयोः प्रतिबन्धस्याभावात्, अथाविनाभावमन्तरेणैव संस्थानमात्रदर्शनात्साध्यसिद्धिः स्याद् एवं च सत्यतिप्रसङ्गः स्यात् उक्तं च- "अन्यथा कुम्भकारेण, मृद्विकारस्य कस्यचित् । घटादेः करणात्सियेद्वल्मीकस्यापि तत्कृतिः ॥ १ ॥" इत्यादि । न चेश्वरकर्तृले जगद्वैचित्र्यं सिध्यति, तस्यैकरूपत्वादित्युक्तप्रायमिति । आत्माद्वैतपक्षस्त्वत्यन्तमयुक्तिसंगतत्वा१ परासु क्रियासु प्रवर्तते उता• प्रवर्तयते उता० प्र० । २ ० स्ततः प्र० । ३ किं चा० । ४ पूर्वाशुभ • Jain Education International For Private Personal Use Only १ पुण्डरीकृाध्य ० ईश्वरकारणिकः ॥२८६॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764