________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः
॥२८६॥
191
यदिवा सर्वव्यापिन आत्मन त्रैलोक्योदरविवरवर्तिपदार्थात्मनो ये केचन धर्माः प्रादुष्यन्ति ते पृथकर्तुं न शक्यन्ते, यथा तद्गण्डं शरीरविकारभूतं तदपृथग्भूतं तद्विनाशे च शरीरमेवावतिष्ठते, एवमेव सर्वेऽपि धर्माः पुरुषादिकाः पुरुषकारणिकाः पुरुषविकाररूपा वा न पुरुषात्पृथग्भवितुमर्हन्ति तद्विकारापगमे चात्मानमेवाश्रित्यावतिष्ठन्ते न तस्माद्वहिर्भवन्तीति, शास्त्रे च दृष्टान्तप्राचुर्यमविरुद्धं, यदिवाऽस्मिन्नर्थे बहवो दृष्टान्ताः संभवन्तीश्वरकर्तृत्ववादस्यात्माद्वैतवादस्य च सुप्रसिद्धत्वा दृष्टान्त बहुत्वमित्याह - 'से जहा'इत्यादि, तद् यथा नामारतिः - चित्तोद्वेगलक्षणा 'स्यादू' भवेत्, सा च शरीरजाता इत्यादि गण्डवभेया, दान्तिकेऽप्येवमेव, सर्वे धर्माः पुरुषादिकाः पुरुषप्रभवा इत्यादि पूर्ववन्नेयं । तथा तद् यथा नाम वल्मीकं - पृथ्वीविकाररूपं स्यात्, तच्च पृथिव्यां | जातं पृथिवीसंबद्धं पृथिव्यभिसमन्वागतं पृथिवीमेवाभि[सं] भूय तिष्ठति, एवमेव यदेतच्चेतनाचेतनरूपं तत्सर्वमीश्वरकारणिकमात्मविवर्तरूपं वा नात्मनः पृथग्भवितुमर्हति पृथिव्या वल्मीकवत् । तथा तत् यथा नाम वृक्षोऽशोकादिकः स्यात् स च पृथवीजात इत्यादि दृष्टान्तदान्तिके पूर्ववदायोज्ये, तद् यथा नाम पुष्करिणी स्यात् - तडागरूपा भवेत्, साऽपि पृथिव्यामेव जातेत्यादि प्राग्वच्चर्च्यः, तथा तद् यथा नाम पुष्कलं - प्रचुरमुदकपुष्कलम् - उदकप्राचुर्यं तच्च तद्धर्मत्वादुदकमेव यावदुदकमेवाभिभूय तिष्ठत्येवं दार्शन्तिकेऽप्यायोज्यं, तथा तद् यथा नामोदकबुद्बुदः स्याद्, अत्रापि दृष्टान्तदार्शन्तिके, न तस्मादवयविनः | पृथग्भूत इति सुगमम् ॥ तदेवं यदीश्वरकृतत्वेनाभ्युपगम्यते तत्सर्वं तथ्यमपरं तु मिथ्या इत्येतदाविर्भावयन्नाह - यदपि चेदं संव्यवहारतः प्रत्यक्षासन्नभूतं 'श्रमणानां' यतीनां 'निर्ग्रन्थानां' निष्किश्चनानामुद्दिष्टं तदर्थं प्रणीतं व्यञ्जितं - तेषामभिव्यक्तीकृतं द्वादशाङ्गं गणिपिटकं तद्यथा - आचार इत्यादि यावद्दृष्टिवादः, सर्वमेतन्मिथ्या अनीश्वरप्रणीतखात् स्वरुचिविरचितरध्यान
रुपवाक्यवत्, तथा नैतत्तथ्यं मिथ्येत्यनेनाभूतोद्भावनत्वमाविष्कृतमचौर चौरववत्, नैतत्तथ्यमित्यनेन तु सद्भूतार्थनिहवो यथा नास्त्यात्मेति, तथा नैतद्याथातथ्यम् - यथाऽवस्थितोऽर्थो न तथाऽवस्थितमिति भावः, अनेन सद्भूतार्थनिहवेनासद्भूतार्थारोपणमा - विष्कृतं, तद् यथा गामश्वं ब्रुवतोऽयं वा गामिति, एकार्थिकानि वैतानि शक्रेन्द्रादिवद्रष्टव्यानि । तदेवं यदेतद्वादशाङ्गं गणिपिटकं तदनीश्वरप्रणीतखान्मिथ्येति स्थितम् इदं तु पुनरीश्वरकर्तृकत्वं नामात्माद्वैतं वा सत्यं यथाऽवस्थितार्थप्रतिपादनात् । तथेदमेव तथ्यं सद्भूतार्थोद्भासनात्, तदेवं ते ईश्वरकारणिका आत्माद्वैतवादिनो वा 'एवम्' अनन्तरोक्तया नीत्या सर्व तनुभ्रुवनकरणादिकमीश्वरकारणिकं तथा सर्व चेतनमचेतनं वाऽऽत्मविवर्तस्वभावम्, आत्मन एव सर्वाकारतयोत्पत्तेरित्येवं संज्ञानं संज्ञा तामेवं कुर्वन्त्यन्येषां च ते खदर्शनानुरक्तमनसां संज्ञां संस्थापयन्ति, तथा त एव एवंभूतां संज्ञां वक्ष्यमाणेन न्यायेन नियुक्तिका - मपि सुष्ठु उप-सामीप्येन तदाग्रहितया तदभिमुखा युक्तीर्निनीषवः 'स्थापयन्ति' प्रतिष्ठापयन्ति । ते चैवंवादिनस्तमीश्वरकर्तृलवादमात्माद्वैतवाद वा नातिवर्तन्ते, तदभ्युपगमजातीयं च दुःखं -- दुःखहेतुखादुःखं नातिवर्तन्ते न त्रोटयन्ति वा अस्मिन्नर्थे - ष्टान्तमाह-यथा शकुनिः पक्षिविशेषो लावकादिकः पञ्जरं नातिवर्तते पौनःपुन्येन भ्रान्त्वा तत्रैव वर्तते, एवं तेऽप्येवंभूताभ्युपगमवादिनस्तदापादितकर्मबन्धनं नातिवर्तन्ते न वा त्रोटयन्ति । ते च स्वाग्रहाभिमानग्रहग्रस्ता नैतद्वक्ष्यमाणं विप्रतिवेदयन्तिन सम्यक् जानन्ति तद्यथा-इयं क्रिया-सदनुष्ठानरूपेयं चाक्रिया - तद्विपरीतेत्येवं खाग्रहिणो नान्यत् शोभनमशोभनं वा यावदयमनरक इत्येवं सदसद्विवेकरहितत्वान्नावधारयन्ति, एवमेव यथाकथञ्चित्ते विरूपरूपैः कर्मसमारम्भैः - नानाप्रकारैः सावधानुष्ठा| नैर्द्रव्योपार्जनोपायभूतैर्द्रव्यमुपादाय विरूपरूपान् कामभोगानुच्चावचान्समाचरन्ति भोजनाय - उपभोगार्थमित्येवमना र्यास्ते विरुद्धं | मार्ग प्रतिपन्ना विप्रतिपन्ना न सम्यग्वादिनो भवन्ति, तथाहि सर्वमीश्वरकर्तृकमित्यत्राभ्युपगमे किमसावीश्वरः स्वत एवपरान् क्रियासु प्रवर्त (य) ते उतापरेण प्रेरितः १, तत्र यद्याद्यः पैक्षस्तदा तद्वदन्येषामपि स्वत एव क्रियासु प्रवृत्तिर्भविष्यति किमन्तर्गडनेश्वर| परिकल्पनेन ?, अथासावप्यपरप्रेरितः, सोऽप्यपरेण सोऽप्यपरेणेत्येवमनवस्थालता नभोमण्डलमालिनी प्रसर्पति । किच असावीश्वरो | महापुरुषतया वीतरागतोपेतः सन्नेकान्नर कयोग्यासु क्रियासु प्रवर्तयत्यपरांस्तु स्वर्गापवर्गयोग्यास्थिति ?, अथ ते पूर्वशुभाशुभाचैरितोद| यादेव तथाविधासु क्रियासु प्रवर्तन्ते स तु निमित्तमात्रम्, तदपि न युक्तिसंगतं यतः प्राक्तनाशुभप्रवर्तनमपि तदायत्तमेव, तथा चोक्तम्- "अज्ञो जन्तु" रित्यादि, अथ तदपि प्राक्तनमन्येन प्राक्तनतरेण कारितमिति, एवमनादिहेतुपरम्परेति, एवं च सति तत एव शुभाशुभ स्थाने भविष्यतः किमीश्वरपरिकल्पनेन ?, तथा चोक्तम् - "शस्त्रौषधादिसंबन्धाच्चैत्रस्य व्रणरोहणे । असंबद्धस्य किं स्थाणोः, कारणलं न कल्प्यते ? || १ ||" इत्यादि । यच्चोक्तं- सर्व तनुभ्रुवनकरणादिकं बुद्धिमत्कारणपूर्वकं संस्थान विशेषत्वात् देवकुलादिवदिति, एतदपि न युक्तिसंगतं यत एतदपि साधनं न भवदभिप्रेतमीश्वरं साधयति, तेन सार्धं व्याप्यसिद्धेः, देवकुलादिके दृष्टान्तेऽनीश्वरस्यैव कर्तृलेनाभ्युपगमात् न च संस्थानशब्दप्रवृत्तिमात्रेण सर्वस्य बुद्धिमत्कारणपूर्वक सिध्यति, अन्यथाs| नुपपत्तिलक्षणस्य साध्यसाधनयोः प्रतिबन्धस्याभावात्, अथाविनाभावमन्तरेणैव संस्थानमात्रदर्शनात्साध्यसिद्धिः स्याद् एवं च सत्यतिप्रसङ्गः स्यात् उक्तं च- "अन्यथा कुम्भकारेण, मृद्विकारस्य कस्यचित् । घटादेः करणात्सियेद्वल्मीकस्यापि तत्कृतिः ॥ १ ॥" इत्यादि । न चेश्वरकर्तृले जगद्वैचित्र्यं सिध्यति, तस्यैकरूपत्वादित्युक्तप्रायमिति । आत्माद्वैतपक्षस्त्वत्यन्तमयुक्तिसंगतत्वा१ परासु क्रियासु प्रवर्तते उता• प्रवर्तयते उता० प्र० । २ ० स्ततः प्र० । ३ किं चा० । ४ पूर्वाशुभ •
Jain Education International
For Private Personal Use Only
१ पुण्डरीकृाध्य ० ईश्वरकारणिकः
॥२८६॥
www.jainelibrary.org