Book Title: Acharangasutram Sutrakrutangsutram Cha
Author(s): Sagaranandsuri, Anandsagarsuri, Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 536
________________ 173 तथा 'वाचा' हितमितभाषी तथा कायेन निरुद्धदुष्प्रणिहितसर्वकायचेष्टो दृष्टिपूतपादचारी सन् परमार्थतचक्षुष्मान् भवतीति S॥ १३ ॥ अपिच-हुरवधारणे, स एव प्राप्तकर्मविवरोज्नीदृशय खेदज्ञो भव्यमनुष्याणां चक्षुः-सदसत्पदार्थाविर्भावनाप्रभूतो वर्तते, किंभूतोऽसौ ?, यः 'काङ्कायाः' भोगेच्छाया अन्तको विषयतृष्णायाः पर्यन्तवर्ती । किमन्तवर्तीति विवक्षितमर्थ साधयति ?, साधयत्येवेत्यमुमर्थ दृष्टान्तेन साधयमाह-'अन्तेन' पर्यन्तेन 'क्षुरो' नापितोपकरणं तदन्तेन वहति, तथा चक्रमपि| रथाङ्गमन्तेनैव मार्गे प्रवर्तते, इदमुक्तं भवति-यथा क्षुरादीनां पर्यन्त एवार्थक्रियाकारी एवं विषयकषायात्मकमोहनीयान्त एवापसदसंसारक्षयकारीति ॥ १४ ॥ अमुमेवार्थमाविर्भावयबाह-'अन्तान्' पर्यन्तान् विषयकषायतृष्णायास्तत्परिकर्मणार्थमुद्यानादीनामाहारस्य वाऽन्तप्रान्तादीनि 'धीराः' महासत्त्वा विषयसुखनिःस्पृहाः 'सेवन्ते' अभ्यस्यन्ति, तेन चान्तप्रान्ताभ्यसनेन 'अन्तकराः' संसारस्य तत्कारणस्य वा कर्मणः क्षयकारिणो भवन्ति, 'इहेति मनुष्यलोके आर्यक्षेत्रे वा, न केवलं त एव तीर्थरादयः अन्येऽपीह मानुष्यलोके स्थान प्राप्ताः सम्यग्दर्शनज्ञानचारित्रात्मक धर्ममाराध्य 'नराः' मनुष्याः कर्मभूमिगर्भव्युत्क्रान्तिजसंख्ये| यवर्पायुपः सन्तः सदनुष्ठानसामग्रीमवाप्य 'निष्ठितार्था' उपरतसर्वद्वन्द्वा भवन्ति ॥१५॥ इदमेवाह-निष्ठितार्थाः' कृतकृत्या ॥ भवन्ति, केचन प्रचुरकर्मतया सत्यामपि सम्यक्खादिकायां सामय्यां न तद्भव एव मोक्षमास्कन्दन्ति अपितु सौधर्मायाः पश्चो (शानु)त्तरविमानावसाना देवा भवन्तीति, एतल्लोकोत्तरीये प्रवचने श्रुतम्-आगमः एवंभूतः सुधर्मस्वामी वा जम्यूखामिनमुद्दि श्यैवमाह-यथा मर्यंतल्लोकोत्तरीये भगवत्यर्हत्पुपलब्धं, तद्यथा-अवाप्तसम्यक्लादिसामग्रीकः सिध्यति वैमानिको वा भवतीति । सूचक. ४ मनुष्यगतावेवैतमान्यत्रेति दर्शयितुमाह-'सुयं में' इत्यादि पश्चाई, तच्च मया तीर्थकरान्तिके 'श्रुतम्' अवगतं, गणधरः स्वशिसूत्रकृताङ्गं याणामकेपामिदमाह-यथा मनुष्य एवाशेषकर्मक्षयात्सिद्भिगतिभाग्भवति नामनुष्य इति, एतेन यच्छाक्यैरभिहितं, तद्यथा- १५आदा. शीलाका- देव एवाशेषकर्मप्रहाणं कृखा मोक्षभाग्भवति, तदपास्तं भवति, न ह्यमनुष्येषु गतित्रयवर्तिषु सच्चारित्रपरिणामाभावाद्यथा मनु-१३ नीयाध्य चार्यायवृ- प्याणां तथा मोक्षावाप्तिरिति ॥ १६ ॥ इदमेव स्वनामग्राहमाहत्तियुतं अंतं करंति दुक्खाणं, इहमेगेसि आहियं । आघायं पुण एगेसिं, दुल्लभेऽयं समुस्सए ॥ १७ ॥ ॥२५९॥ इओ विद्धंसमाणस्स, पुणो संबोहि दुल्लभा । दुल्लहाओ तहच्चाओ, जे धम्मटुं वियागरे ॥ १८ ॥ जे धम्म सुद्धमक्खंति, पडिपुन्नमणेलिसं।अणेलिसस्स जं ठाणं, तस्स जम्मकहा कओ ? ॥१९॥ कओ कयाइ मेधावी, उप्पज्जति तहागया। तहागया अप्पडिन्ना, चक्खू लोगस्सणुत्तरा ॥२०॥ न ह्यमनुष्या अशेपदुःखानामन्तं कुर्वन्ति, तथाविधसामग्र्यभावात् , यथैकेषां वादिनामाख्यातं, तद्यथा-देवा एवोत्तरोत्तरं स्थानमास्कन्दन्तोऽशेषक्लेशप्रहाणं कुर्वन्ति, न तथेह-आहेते प्रवचने इति । इदमन्यत् पुनरेकेषां गणधरादीनां स्वशिष्याणां वा गणधरादिभिराख्यातं, तद्यथा-युगसमिलादिन्यायावाप्तकथञ्चित्कर्म विवरात् योऽयं शरीरसमुच्छ्रेयः सोऽकृतधर्मोपायैरसुमद्भिर्महास ॥२५९॥ मुद्रप्रभ्रष्टरत्नवत्पुनर्दुर्लभो भवति, तथा चोक्तम्-"ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लता इष्टितो यधारणविधेर्भवतीत्यस्याप्रतो योजनैवकारस्य, तथा चासंभवव्यवच्छेदायैवकारोऽत्र, अन्यथा वुद्धस्यापि मनुष्यत्वादनिर्मोक्षप्रसङ्गः । २ शरीरमेव पुद्ग| लसंघात खात्सनुच्छ्यः 'उस्सय समुस्सए वा' इति वचनात् समुच्छ्य एव वा देहवाचकः शरीरशब्दस्तु विशेषणं । विलसितप्रतिमम् ॥१॥" इत्यादि ॥१७॥ अपिच-'इत: अमुष्मात् मनुष्यभवात्सद्धर्मतो वा विध्वंसमानस्याकृतपुण्यस्य पुनरसिन् संसारे पर्यटतो 'बोधिः सम्यग्दर्शनावाप्तिः सुदुर्लभा उत्कृष्टतः अपार्धपुद्गलपरावर्तकालेने यतो भवति, तथा 'दुर्लभा' | दुरापा तथाभूता-सम्यग्दर्शनप्राप्तियोग्या 'अर्चा' लेश्याऽन्तःकरणपरिणतिरकृतधर्मणामिति, यदिवाऽर्चा- मनुष्यशरीरं तदप्यकृतधर्मवीजानामार्यक्षेत्रसुकुलोत्पत्तिसकलेन्द्रियसामग्र्यादिरूपं दुर्लभं भवति, जन्तूनां ये धर्मरूपमर्थ व्याकुर्वन्ति, ये धर्मप्रतिपत्तियोग्या इत्यर्थः, तेषां तथाभूतार्चा सुदुर्लभा भवतीति ॥१८॥ किश्चान्यत्-ये महापुरुषा वीतरागाः करतलामलकवत्सकलजगद्रष्टारः त एवंभूताः परहितैकरताः 'शुद्धम् अवदातं सर्वोपाधिविशुद्धं धर्मम् 'आख्यान्ति' प्रतिपादयन्ति स्वतः समाचरन्ति च 'प्रतिपूर्णम्' आयतचारित्रसद्भावात्संपूर्ण यथाख्यातचारित्ररूपं वा 'अनीदृशम् अनन्यसदृशं धर्मम् आख्यान्ति अनुतिष्ठन्ति(च)। तदेवम् 'अनीदृशस्य' अनन्यसदृशस्य ज्ञानचारित्रोपेतस्य यत् स्थानं-सर्वद्वन्द्वोपरमरूपं तदवाप्तस्य तस्य कुतो जन्मकथा?, जातो मृतो वेत्येवंरूपा कथा स्वप्नान्तरेऽपि तस्य कर्मबीजाभावात् कुतो विद्यत ? इति, तथोक्तम्- "दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति | नाकुरः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः॥१॥" इत्यादि ।॥ १९॥ किंचान्यत्-कर्मबीजाभावात् 'कुतः' कमा-10 कदाचिदपि 'मेधाविनो' ज्ञानात्मकाः तथा अपुनरावृत्त्या गतास्तथा गताः पुनरसिन् संसारेऽशुचिनिगर्भाधाने समुत्पद्यन्ते, न कश्चित्कदाचित्कर्मोपादानाभावादुत्पद्यन्त इत्यर्थः, तथा 'तथागताः' तीर्थकुद्गणधरादयो न विद्यते प्रतिज्ञा-निदानबन्ध| नरूपा येषां तेऽप्रतिज्ञा-अनिदाना निराशंसाः सत्त्वहितकरणोद्यता अनुत्तरज्ञानवादनुत्तरा 'लोकस्य' जन्तुगणस्य सदसदर्थ १ वान्तसम्यक्वधर्मस्यैतावताऽवश्यं सम्यक्त्रस्य पुनः प्राप्तेः । एeeeeecedeseeeeeeeeerseasesekseimeroececee Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764