________________
173
तथा 'वाचा' हितमितभाषी तथा कायेन निरुद्धदुष्प्रणिहितसर्वकायचेष्टो दृष्टिपूतपादचारी सन् परमार्थतचक्षुष्मान् भवतीति S॥ १३ ॥ अपिच-हुरवधारणे, स एव प्राप्तकर्मविवरोज्नीदृशय खेदज्ञो भव्यमनुष्याणां चक्षुः-सदसत्पदार्थाविर्भावनाप्रभूतो
वर्तते, किंभूतोऽसौ ?, यः 'काङ्कायाः' भोगेच्छाया अन्तको विषयतृष्णायाः पर्यन्तवर्ती । किमन्तवर्तीति विवक्षितमर्थ साधयति ?, साधयत्येवेत्यमुमर्थ दृष्टान्तेन साधयमाह-'अन्तेन' पर्यन्तेन 'क्षुरो' नापितोपकरणं तदन्तेन वहति, तथा चक्रमपि| रथाङ्गमन्तेनैव मार्गे प्रवर्तते, इदमुक्तं भवति-यथा क्षुरादीनां पर्यन्त एवार्थक्रियाकारी एवं विषयकषायात्मकमोहनीयान्त एवापसदसंसारक्षयकारीति ॥ १४ ॥ अमुमेवार्थमाविर्भावयबाह-'अन्तान्' पर्यन्तान् विषयकषायतृष्णायास्तत्परिकर्मणार्थमुद्यानादीनामाहारस्य वाऽन्तप्रान्तादीनि 'धीराः' महासत्त्वा विषयसुखनिःस्पृहाः 'सेवन्ते' अभ्यस्यन्ति, तेन चान्तप्रान्ताभ्यसनेन 'अन्तकराः' संसारस्य तत्कारणस्य वा कर्मणः क्षयकारिणो भवन्ति, 'इहेति मनुष्यलोके आर्यक्षेत्रे वा, न केवलं त एव तीर्थरादयः अन्येऽपीह मानुष्यलोके स्थान प्राप्ताः सम्यग्दर्शनज्ञानचारित्रात्मक धर्ममाराध्य 'नराः' मनुष्याः कर्मभूमिगर्भव्युत्क्रान्तिजसंख्ये| यवर्पायुपः सन्तः सदनुष्ठानसामग्रीमवाप्य 'निष्ठितार्था' उपरतसर्वद्वन्द्वा भवन्ति ॥१५॥ इदमेवाह-निष्ठितार्थाः' कृतकृत्या ॥ भवन्ति, केचन प्रचुरकर्मतया सत्यामपि सम्यक्खादिकायां सामय्यां न तद्भव एव मोक्षमास्कन्दन्ति अपितु सौधर्मायाः पश्चो
(शानु)त्तरविमानावसाना देवा भवन्तीति, एतल्लोकोत्तरीये प्रवचने श्रुतम्-आगमः एवंभूतः सुधर्मस्वामी वा जम्यूखामिनमुद्दि
श्यैवमाह-यथा मर्यंतल्लोकोत्तरीये भगवत्यर्हत्पुपलब्धं, तद्यथा-अवाप्तसम्यक्लादिसामग्रीकः सिध्यति वैमानिको वा भवतीति । सूचक. ४ मनुष्यगतावेवैतमान्यत्रेति दर्शयितुमाह-'सुयं में' इत्यादि पश्चाई, तच्च मया तीर्थकरान्तिके 'श्रुतम्' अवगतं, गणधरः स्वशिसूत्रकृताङ्गं याणामकेपामिदमाह-यथा मनुष्य एवाशेषकर्मक्षयात्सिद्भिगतिभाग्भवति नामनुष्य इति, एतेन यच्छाक्यैरभिहितं, तद्यथा- १५आदा. शीलाका- देव एवाशेषकर्मप्रहाणं कृखा मोक्षभाग्भवति, तदपास्तं भवति, न ह्यमनुष्येषु गतित्रयवर्तिषु सच्चारित्रपरिणामाभावाद्यथा मनु-१३
नीयाध्य चार्यायवृ- प्याणां तथा मोक्षावाप्तिरिति ॥ १६ ॥ इदमेव स्वनामग्राहमाहत्तियुतं
अंतं करंति दुक्खाणं, इहमेगेसि आहियं । आघायं पुण एगेसिं, दुल्लभेऽयं समुस्सए ॥ १७ ॥ ॥२५९॥ इओ विद्धंसमाणस्स, पुणो संबोहि दुल्लभा । दुल्लहाओ तहच्चाओ, जे धम्मटुं वियागरे ॥ १८ ॥
जे धम्म सुद्धमक्खंति, पडिपुन्नमणेलिसं।अणेलिसस्स जं ठाणं, तस्स जम्मकहा कओ ? ॥१९॥ कओ कयाइ मेधावी, उप्पज्जति तहागया। तहागया अप्पडिन्ना, चक्खू लोगस्सणुत्तरा ॥२०॥ न ह्यमनुष्या अशेपदुःखानामन्तं कुर्वन्ति, तथाविधसामग्र्यभावात् , यथैकेषां वादिनामाख्यातं, तद्यथा-देवा एवोत्तरोत्तरं स्थानमास्कन्दन्तोऽशेषक्लेशप्रहाणं कुर्वन्ति, न तथेह-आहेते प्रवचने इति । इदमन्यत् पुनरेकेषां गणधरादीनां स्वशिष्याणां वा गणधरादिभिराख्यातं, तद्यथा-युगसमिलादिन्यायावाप्तकथञ्चित्कर्म विवरात् योऽयं शरीरसमुच्छ्रेयः सोऽकृतधर्मोपायैरसुमद्भिर्महास
॥२५९॥ मुद्रप्रभ्रष्टरत्नवत्पुनर्दुर्लभो भवति, तथा चोक्तम्-"ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लता
इष्टितो यधारणविधेर्भवतीत्यस्याप्रतो योजनैवकारस्य, तथा चासंभवव्यवच्छेदायैवकारोऽत्र, अन्यथा वुद्धस्यापि मनुष्यत्वादनिर्मोक्षप्रसङ्गः । २ शरीरमेव पुद्ग| लसंघात खात्सनुच्छ्यः 'उस्सय समुस्सए वा' इति वचनात् समुच्छ्य एव वा देहवाचकः शरीरशब्दस्तु विशेषणं । विलसितप्रतिमम् ॥१॥" इत्यादि ॥१७॥ अपिच-'इत: अमुष्मात् मनुष्यभवात्सद्धर्मतो वा विध्वंसमानस्याकृतपुण्यस्य पुनरसिन् संसारे पर्यटतो 'बोधिः सम्यग्दर्शनावाप्तिः सुदुर्लभा उत्कृष्टतः अपार्धपुद्गलपरावर्तकालेने यतो भवति, तथा 'दुर्लभा' | दुरापा तथाभूता-सम्यग्दर्शनप्राप्तियोग्या 'अर्चा' लेश्याऽन्तःकरणपरिणतिरकृतधर्मणामिति, यदिवाऽर्चा- मनुष्यशरीरं तदप्यकृतधर्मवीजानामार्यक्षेत्रसुकुलोत्पत्तिसकलेन्द्रियसामग्र्यादिरूपं दुर्लभं भवति, जन्तूनां ये धर्मरूपमर्थ व्याकुर्वन्ति, ये धर्मप्रतिपत्तियोग्या इत्यर्थः, तेषां तथाभूतार्चा सुदुर्लभा भवतीति ॥१८॥ किश्चान्यत्-ये महापुरुषा वीतरागाः करतलामलकवत्सकलजगद्रष्टारः त एवंभूताः परहितैकरताः 'शुद्धम् अवदातं सर्वोपाधिविशुद्धं धर्मम् 'आख्यान्ति' प्रतिपादयन्ति स्वतः समाचरन्ति च 'प्रतिपूर्णम्' आयतचारित्रसद्भावात्संपूर्ण यथाख्यातचारित्ररूपं वा 'अनीदृशम् अनन्यसदृशं धर्मम् आख्यान्ति अनुतिष्ठन्ति(च)। तदेवम् 'अनीदृशस्य' अनन्यसदृशस्य ज्ञानचारित्रोपेतस्य यत् स्थानं-सर्वद्वन्द्वोपरमरूपं तदवाप्तस्य तस्य कुतो जन्मकथा?, जातो मृतो वेत्येवंरूपा कथा स्वप्नान्तरेऽपि तस्य कर्मबीजाभावात् कुतो विद्यत ? इति, तथोक्तम्- "दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति | नाकुरः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः॥१॥" इत्यादि ।॥ १९॥ किंचान्यत्-कर्मबीजाभावात् 'कुतः' कमा-10 कदाचिदपि 'मेधाविनो' ज्ञानात्मकाः तथा अपुनरावृत्त्या गतास्तथा गताः पुनरसिन् संसारेऽशुचिनिगर्भाधाने समुत्पद्यन्ते, न कश्चित्कदाचित्कर्मोपादानाभावादुत्पद्यन्त इत्यर्थः, तथा 'तथागताः' तीर्थकुद्गणधरादयो न विद्यते प्रतिज्ञा-निदानबन्ध| नरूपा येषां तेऽप्रतिज्ञा-अनिदाना निराशंसाः सत्त्वहितकरणोद्यता अनुत्तरज्ञानवादनुत्तरा 'लोकस्य' जन्तुगणस्य सदसदर्थ
१ वान्तसम्यक्वधर्मस्यैतावताऽवश्यं सम्यक्त्रस्य पुनः प्राप्तेः ।
एeeeeecedeseeeeeeeeerseasesekseimeroececee
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org