________________
सूत्रकृताङ्ग शीलाङ्काचार्ययतियुतं
॥२५७॥
सूत्रकृताङ्ग शीलाङ्काचायतियुतं
॥२५८॥
172
इथिओ जेण सेवंति, आइमोक्खा हु ते जणा । ते जणा बंधणुम्मुक्का, नावकखंति जीवियं ॥ ९ ॥ जीवितं पिटूओ किच्चा, अंतं पार्वति कम्मुणं । कम्मुणा संमुहीभूता, जे मग्गमणुसासई ॥ १० ॥ सास पुढो पाणी, वसुमं पूयणासु (स) ते । अणासए जते दंते, दढे आरयमेहुणे ॥ ११ ॥ णीवारे व ण लीएजा, छिन्नसोए अणाविले । अणाइले सया दंते, संधिं पत्ते अणेलिसं ॥ १२ ॥ ये महासत्त्वाः कटुविपाकोऽयं स्त्रीप्रसङ्ग इत्येवमवधारण [त]या स्त्रियः सुगतिमार्गार्गिलाः संसारवीथीभूताः सर्वाविनयराजधान्यः कपटजालशताकुला महामोहनशक्तयो 'न सेवन्ते' न तत्प्रसङ्गमभिलपन्ति त एवंभूता जना इतरजनातीताः साधव आदीप्रथमं मोक्षः- अशेषद्वन्द्वोपरमरूपो येषां ते आदिमोक्षाः, हुरवधारणे, आदिमोक्षा एव तेऽवगन्तव्याः, इदमुक्तं भवतिसर्वाविनयास्पदभूतः स्त्रीप्रसङ्गो यैः परित्यक्तस्त एवादिमोक्षा:- प्रधानभूतमोक्षाख्यपुरुषार्थोद्यताः, आदिशब्दस्य प्रधानवाचिखात्, न केवलमुद्यतास्ते जनाः स्त्रीपाशबन्धनोन्मुक्ततयाऽशेषकर्मबन्धनोन्मुक्ताः सन्तों 'नावकाङ्क्षन्ति' नाभिलपन्ति असंयमजीवितम् अपरमपि परिग्रहादिकं नाभिलपन्ते यदिवा परित्यक्तविषयेच्छाः सदनुष्ठानपरायणा मोक्षैकताना 'जीवितं ' दीर्घकालजीवितं | नाभिकाङ्क्षन्तीति ॥ ९ ॥ किंचान्यत्- 'जीवितम्' असंयमजीवितं 'पृष्ठतः कृत्वा' अनादृत्य प्राणधारणलक्षणं वा जीवितमनादृत्य सदनुष्ठानपरायणाः 'कर्मणां ' ज्ञानावरणादीनाम् 'अन्तं' पर्यवसानं प्राप्नुवन्ति, अथवा 'कर्मणा' सदनुष्ठानेन जीवितनिरपेक्षाः संसारोदन्वतोऽन्तं सर्वद्वन्द्वोपरमरूपं मोक्षाख्यमाप्नुवन्ति, सर्वदुःखविमोक्षलक्षणं मोक्षमप्राप्ता अपि कर्मणा - विशिष्टानुष्ठानेन मोक्षस्य संमुखीभूता- घाति चतुष्टयक्षय क्रियया उत्पन्नदिव्यज्ञानाः शाश्वतपदस्याभिमुखीभूताः क एवंभूता इत्याहये विपच्यमानतीर्थकु नामकर्माणः समासादितदिव्यज्ञाना 'मार्ग' मोक्षमार्ग ज्ञानदर्शनचारित्ररूपम् 'अनुशासन्ति' सवहिताय प्राणिनां प्रतिपादयन्ति स्वतश्चानुतिष्ठन्तीति ॥ १० ॥ अनुशासनप्रकारमधिकृत्याह- अनुशास्यन्ते सन्मार्गेऽवतार्थन्ते सदसद्विवे | कतः प्राणिनो येन तदनुशासनं - धर्मदेशनया सन्मार्गावतारणं तत्पृथक् पृथक् भव्याभव्यादिषु प्राणिषु क्षित्युदकवत् स्वाशयवशादनेकवा भवति, यद्यपि च अभव्येषु तदनुशासनं न सम्यक् परिणमति तथापि सर्वोपायज्ञस्यापि न सर्वज्ञस्य दोष:, तेषामेव | स्वभावपरिणतिरियं यया तद्वाक्यममृतभूतमेकान्तपथ्यं समस्तद्वन्द्वोपघातकारि न यथावत् परिणमति, तथा चोक्तम्- " सद्धर्मघीजवपनानघकौशलस्य, यल्लोकबान्धव । तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु, सूर्याशवो मधुकरीचरणावदाताः ।। १ ।। " किंभूतोऽसावनुशासक इत्याह-वसु-द्रव्यं स च मोक्षं प्रति प्रवृत्तस्य संयमः तद्विद्यते यस्यासौ वसुमान्, पूजनं-देवादिकृतमशोकादिकमास्वादयति उपयुक्त इति पूजनाखादकः, ननु चाधाकर्मणो देवादिकृतस्य समवसरणादेरुप भोगात्कथमसौ | सत्संयमवानित्याशङ्कयाह-न विद्यते आशय :- पूजाभिप्रायो यस्यासावनाशयः, यदिवा द्रव्यतो विद्यमानेऽपि समवसरणादिके भावतोऽनावादकोऽसौ तद्गतगार्थ्याभावात्, सत्यप्युपभोगे 'यतः' प्रयतः सत्संयमवानेवासावेकान्तेन संयमपरायणखात् कुतो ? यत इन्द्रियनोइन्द्रियाभ्यां दान्तः, एतद्गुणोऽपि कथमित्याह- दृढः संयमे, आरतम् - उपरतमपगतं मैथुनं यस्य स आरतमैथुन :- अपगतेच्छामदनकामः, इच्छामदन कामाभावाच्च संयमे दृढोऽसौ भवति, आयतचारित्रत्वाश्च दान्तोऽसौ भवति, इन्द्रियनोइन्द्रियदमाच प्रयतः, प्रयत्नवस्वाश्च देवादिपूजनानास्वादकः, तदनास्वादनाच्च सत्यपि द्रव्यतः परिभोगे सत्संयमवानेवासाविति ॥ ११ ॥ अथ किमित्यसा परतमैथुन इत्याशङ्कयाह - नीवारः- सूकरादीनां पशूनां वध्यस्थानप्रवेशन भूतो भक्ष्यविशेषस्तत्कल्पमेतन्मैथुनं यथा हि असौ पशुर्नीवारेण प्रलोभ्य वध्यस्थानमभिनीय नानाप्रकारा वेदनाः प्राप्यते एवम सावप्यसुमान् नीवारकल्पेनानेन स्त्रीप्रसङ्गेन वशीकृतो बहुप्रकारा यातनाः प्राप्नोति, अतो नीवारप्रायमेतन्मैथुनमवगम्य स तस्मिन् ज्ञाततत्वो 'न लीयेत' न स्त्रीप्रसङ्गं कुर्यात्, किंभूतः सन्नित्याह- छिन्नानि - अपनीतानि स्रोतांसि - संसारावतरणद्वाराणि यथाविषयमिन्द्रियप्रवर्तनानि प्राणातिपातादीनि वा आश्रवद्वाराणि येन स छिन्नस्रोताः, तथा 'अनाविल:' अकलुषो रागद्वेषासंपृक्ततया मलरहितोऽनाकुलो वा विषयाप्रवृत्तेः स्वस्थचेता एवंभूतश्वानाविलोडनाकुलो वा 'सदा' सर्वकालमिन्द्रियनोइन्द्रियाभ्यां दान्तो भवति, ईदृग्विषश्च कर्मविवरलक्षणं भावसंधिम् 'अनीदृशम्' अनन्यतुल्यं प्राप्तो भवतीति ॥ १२ ॥ किञ्च -
अलिसस्स खेयन्ने, ण विरुज्झिज्ज केणइ । मणसा वयसा चैव, कायसा चैव चक्खुमं ॥ १३ ॥ से हु चक्खू मणुस्साणं, जे कंखाए य अंतए । अंतेण खुरो वहती, चक्कं अंतेण लोट्टती ॥ १४ ॥ अंताणि धीरा सेवंति, तेण अंतकरा इह । इह माणुस्सए ठाणे, धम्ममाराहिउं परा ॥ १५ ॥ गिट्टियट्टा व देवा वा, उत्तरीए इयं सुयं । सुयं च मेयमेगेसिं, अमणुस्सेसु णो तहा ॥ १६ ॥ 'अनीदृश: ' अनन्यसदृशः संयमो मौनीन्द्रधर्मो वा तस्य तस्मिन् वा 'खेदज्ञो' निपुणः, अनीदृशखेदज्ञश्च केनचित्सार्धं न विरोधं कुर्वीत, सर्वेषु प्राणिषु मैत्रीं भावयेदित्यर्थः, योगत्रिककरणत्रिकेणेति दर्शयति- 'मनसा' अन्तःकरणेन प्रशान्तमनाः,
Jain Education International
For Private Personal Use Only
१५ आदानीयाध्य०
॥२५७॥
१५आदानीयाध्य०
॥२५८॥
www.jainelibrary.org