SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग शीलाङ्काचार्ययवृ चियुतं ॥२६० ॥ सूत्रकृताङ्ग शीलाङ्का चाय तियुतं ॥२६१ ॥ 174 निरूपणकारणतश्चक्षुर्भूता हिताहितप्राप्तिपरिहारं कुर्वन्तः सकललोकलोचनभूतास्तथागताः सर्वज्ञा भवन्तीति ||२०|| किञ्चान्यत्अणुत्तरे य ठाणे से, कासवेण पवेदिते । जं किच्चा णिव्वुडा एगे, निट्टं पावंति पंडिया ॥ २१ ॥ पंडिए वीरियं लहुं, निग्धायाय पवत्तगं । धुणे पुढकडं कम्मं, णवं वाऽवि ण कुवती ॥ २२ ॥ कुवती महावीरे, अणुपुवकडं रयं । रयसा संमुहीभूता, कम्मं हेच्चाण जं मयं ॥ २३ ॥ जं मयं सवसाहूणं, तं मयं सलगत्तणं । साहइताण तं तिन्ना, देवा वा अभविंसु ते ॥ २४ ॥ अभविं पुराधी (वी)रा, आगमिस्सावि सुवता । दुन्निबोहस्स मग्गस्स, अंतं पाउकरा तिने ॥२५॥ तिमि । इति पनरसमं जंमइयं नामज्झयणं समत्तं ॥ ( गाथा ६४३ ) न विद्यते उत्तरं - प्रधानं यस्मादनुत्तरं स्थानं तच्च तत्संयमाख्यं 'काश्यपेन' काश्यपगोत्रेण श्रीमन्महावीरवर्धमानखामिना 'प्रवेदितम्' आख्यातं, तस्य चानुत्तरत्वमा विर्भावयन्नाह - 'यद्' अनुत्तरं संयमस्थानं 'एके' महासत्त्वाः सदनुष्ठायिनः 'कृत्वा' अनुपालय 'निर्वृताः' निर्वाणमनुप्राप्ताः, निर्वृताञ्च सन्तः संसारचक्रवालस्य 'निष्ठा' पर्यवसानं 'पण्डिताः पापाडीनाः प्राप्नुवन्ति, तदेवंभूतं संयमस्थानं काश्यपेन प्रवेदितं यदनुष्ठायिनः सन्तः सिद्धिं प्राप्नुवन्तीति तात्पर्यार्थः ॥ २१ ॥ अपिच- 'पण्डि तः' सदसद्विवेकज्ञो 'वीर्य' कर्मोद्दलनसमर्थं सत्संयमवीर्य तपोवीर्य वा 'लब्ध्या' अवाप्य, तदेव वीर्य विशिनष्टि-निःशेषकर्मणो 'निर्घाताय ' निर्जरणाय प्रवर्तकं पण्डितवीर्य, तच्च बहुभवशतदुर्लभं कथञ्चित्कर्म विवरादवाप्य 'धुनीयाद्' अपनयेत् पूर्वभवेष्वने| केषु यत्कृतम् उपात्तं कर्माष्टप्रकारं तत्पण्डितवीर्येण धुनीयात् 'नवं च' अभिनवं चाश्रवनिरोधान करोत्यसाविति ॥ २२ ॥ | किश्च - 'महावीरः' कर्मविदारणसहिष्णुः सन्नानुपूर्व्येण मिध्याखाविरतिप्रमादकपाययोगैर्यत्कृतं रजोऽपरजन्तुभिस्तदसौ 'न करोति' न विघते, यतस्तत्प्राक्तनोपात्तरजसैवोपादीयते स च तत्प्राक्तनं कर्मावष्टभ्य सत्संयमात्संमुखीभूतः, तदभिमुखीभूतव यन्मतमष्टप्रकारं कर्म तत्सर्व 'हित्वा' त्यक्ता मोक्षस्य सत्संयमस्य वा सम्मुखीभूतोऽसाविति ॥ २३ ॥ अन्यच्च - 'जम्मय' - मित्यादि, सर्वसाधूनां यत् 'मतम्' अभिप्रेतं तदेतत्सत्संयमस्थानं, तद्विशिनष्टि- शल्यं-पापानुष्ठानं तज्जनितं वा कर्म तत्कर्तयति - छिनत्ति यत्तच्छल्यकर्तनं तच्च सदनुष्ठानं उद्युक्तविहारिणः 'साधयित्वा' सम्यगाराध्य बहवः संसारकान्तारं तीर्णाः, अपरे तु सर्वकर्मक्षयाभावात् देवा अभूवन्, ते चाप्तसम्यक्त्वाः सच्चारित्रिणो वैमानिकत्वमवापुः प्राप्नुवन्ति प्राप्स्यन्ति चेति ॥ २४ ॥ सर्वोपसंहारार्थमाह- 'पुरा' पूर्वस्मिन्ननादिके काले बहवो 'महावीराः' कर्मविदारणसहिष्णवः 'अभूवन्' भूताः, तथा वर्तमाने च काले कर्मभूमौ तथाभूता भवन्ति तथाऽऽगामिनि चानन्ते काले तथाभूताः सत्संयमानुष्ठायिनो भविष्यन्ति, ये किं कृतवन्तः कुर्वन्ति करिष्यन्ति चेत्याह-यस्य दुर्निबोधस्य- अतीव दुष्प्रापस्य ( मार्गस्य ) ज्ञानदर्शन चारित्राख्यस्य 'अन्तं' परमकाष्टामवाप्य तस्यैव | मार्गस्य 'प्रादुः' प्राकाश्यं तत्करणशीलाः प्रादुष्कराः स्वतः सन्मार्गानुष्ठायिनोऽन्येषां च प्रादुर्भावकाः सन्तः संसारार्णवं तीर्णास्तरन्ति तरिष्यन्ति चेति । गतोऽनुगमः, साम्प्रतं नयाः, ते च प्राग्वत् द्रष्टव्याः । इतिरध्ययनपरिसमाप्तौ ब्रवीमीति पूर्ववत् ॥ २५ ॥ इति आदानीयाख्यं पञ्चदशाध्ययनं समाप्तम् ॥ अथ षोडशं श्रीगाथाध्ययनं प्रारभ्यते ॥ 301010 उक्तं पञ्चदशमध्ययनं, साम्प्रतं षोडशमारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तरोक्तेषु पश्चदशस्वप्यध्ययनेषु येऽर्था अभिहिता विधिप्रतिषेधद्वारेण तान् तथैवाचरन् साधुर्भवतीत्येतदनेनाध्ययनेनोपदिश्यते, ते चामी अर्थाः, तद्यथा - प्रथमाध्ययने स्वसमयपरसमयपरिज्ञानेन सम्यक्त्वगुणावस्थितो भवति द्वितीयाध्ययने ज्ञानादिभिः कर्मविदारणहेतुभिरष्टप्रकारं कर्म विदारयन् साधुर्भवति तथा तृतीयाध्ययने यथाऽनुकूलप्रतिकूलोपसर्गान् सम्यक् सहमानः साधुर्भवति चतुर्थे तु स्त्रीपरीषहस्य दुर्जयत्वात्तज्जयकारीति पञ्चमे तु नरकवेदनाभ्यः समुद्विजमानस्तत्प्रायोग्यकर्मणो विरतः सन्साधुत्वमवाप्नुयात् षष्ठे तु यथा श्रीवीरवर्धमानस्वामिना | कर्मक्षयोद्यतेन चतुर्ज्ञानिनाऽपि संयमं प्रति प्रयत्नः कृतस्तथाऽन्येनापि छद्मस्थेन विधेय इति सप्तमे तु कुशीलदोषान् ज्ञात्वा तत्परि| हारोद्यतेन सुशीलावस्थितेन भाव्यम् अष्टमे तु बालवीर्यपरिहारेण पण्डितवीर्योद्यतेन सदा मोक्षाभिलाषिणा भाव्यं नवमे तु यथोक्तं | क्षान्त्यादिकं धर्ममनुचरन् संसारान्मुच्यत इति दशमे तु संपूर्णसमाधियुक्तः सुगतिभाग्भवति एकादशे तु सम्यग्दर्शनज्ञानचारित्राख्यं सन्मार्ग प्रतिपन्नोऽशेषक्लेशप्रहाणं विधत्ते द्वादशे तु तीर्थिकदर्शनानि सम्यग्गुणदोषविचारणतो विजानन्न तेषु श्रद्धानं विधत्ते त्रयोदशे तु शिष्यगुणदोषविज्ञः सद्गुणेषु वर्तमानः कल्याणभाग्भवति चतुर्दशे तु प्रशस्तभावग्रन्थभावितात्मा बिस्रो| तसिकारहितो भवति पञ्चदशे तु यथावदायतचारित्रो भवति भिक्षुस्तदुपदिश्यत इति । तदेवमनन्तरोक्तेषु पञ्चदशस्त्रध्ययनेषु Jain Education International For Private Personal Use Only १५ आदानीयाध्य० ॥२६०॥ १६ गाथाध्ययनं. ॥२६१॥ www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy