Book Title: Acharangasutram Sutrakrutangsutram Cha
Author(s): Sagaranandsuri, Anandsagarsuri, Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 535
________________ सूत्रकृताङ्ग शीलाङ्काचार्ययतियुतं ॥२५७॥ सूत्रकृताङ्ग शीलाङ्काचायतियुतं ॥२५८॥ 172 इथिओ जेण सेवंति, आइमोक्खा हु ते जणा । ते जणा बंधणुम्मुक्का, नावकखंति जीवियं ॥ ९ ॥ जीवितं पिटूओ किच्चा, अंतं पार्वति कम्मुणं । कम्मुणा संमुहीभूता, जे मग्गमणुसासई ॥ १० ॥ सास पुढो पाणी, वसुमं पूयणासु (स) ते । अणासए जते दंते, दढे आरयमेहुणे ॥ ११ ॥ णीवारे व ण लीएजा, छिन्नसोए अणाविले । अणाइले सया दंते, संधिं पत्ते अणेलिसं ॥ १२ ॥ ये महासत्त्वाः कटुविपाकोऽयं स्त्रीप्रसङ्ग इत्येवमवधारण [त]या स्त्रियः सुगतिमार्गार्गिलाः संसारवीथीभूताः सर्वाविनयराजधान्यः कपटजालशताकुला महामोहनशक्तयो 'न सेवन्ते' न तत्प्रसङ्गमभिलपन्ति त एवंभूता जना इतरजनातीताः साधव आदीप्रथमं मोक्षः- अशेषद्वन्द्वोपरमरूपो येषां ते आदिमोक्षाः, हुरवधारणे, आदिमोक्षा एव तेऽवगन्तव्याः, इदमुक्तं भवतिसर्वाविनयास्पदभूतः स्त्रीप्रसङ्गो यैः परित्यक्तस्त एवादिमोक्षा:- प्रधानभूतमोक्षाख्यपुरुषार्थोद्यताः, आदिशब्दस्य प्रधानवाचिखात्, न केवलमुद्यतास्ते जनाः स्त्रीपाशबन्धनोन्मुक्ततयाऽशेषकर्मबन्धनोन्मुक्ताः सन्तों 'नावकाङ्क्षन्ति' नाभिलपन्ति असंयमजीवितम् अपरमपि परिग्रहादिकं नाभिलपन्ते यदिवा परित्यक्तविषयेच्छाः सदनुष्ठानपरायणा मोक्षैकताना 'जीवितं ' दीर्घकालजीवितं | नाभिकाङ्क्षन्तीति ॥ ९ ॥ किंचान्यत्- 'जीवितम्' असंयमजीवितं 'पृष्ठतः कृत्वा' अनादृत्य प्राणधारणलक्षणं वा जीवितमनादृत्य सदनुष्ठानपरायणाः 'कर्मणां ' ज्ञानावरणादीनाम् 'अन्तं' पर्यवसानं प्राप्नुवन्ति, अथवा 'कर्मणा' सदनुष्ठानेन जीवितनिरपेक्षाः संसारोदन्वतोऽन्तं सर्वद्वन्द्वोपरमरूपं मोक्षाख्यमाप्नुवन्ति, सर्वदुःखविमोक्षलक्षणं मोक्षमप्राप्ता अपि कर्मणा - विशिष्टानुष्ठानेन मोक्षस्य संमुखीभूता- घाति चतुष्टयक्षय क्रियया उत्पन्नदिव्यज्ञानाः शाश्वतपदस्याभिमुखीभूताः क एवंभूता इत्याहये विपच्यमानतीर्थकु नामकर्माणः समासादितदिव्यज्ञाना 'मार्ग' मोक्षमार्ग ज्ञानदर्शनचारित्ररूपम् 'अनुशासन्ति' सवहिताय प्राणिनां प्रतिपादयन्ति स्वतश्चानुतिष्ठन्तीति ॥ १० ॥ अनुशासनप्रकारमधिकृत्याह- अनुशास्यन्ते सन्मार्गेऽवतार्थन्ते सदसद्विवे | कतः प्राणिनो येन तदनुशासनं - धर्मदेशनया सन्मार्गावतारणं तत्पृथक् पृथक् भव्याभव्यादिषु प्राणिषु क्षित्युदकवत् स्वाशयवशादनेकवा भवति, यद्यपि च अभव्येषु तदनुशासनं न सम्यक् परिणमति तथापि सर्वोपायज्ञस्यापि न सर्वज्ञस्य दोष:, तेषामेव | स्वभावपरिणतिरियं यया तद्वाक्यममृतभूतमेकान्तपथ्यं समस्तद्वन्द्वोपघातकारि न यथावत् परिणमति, तथा चोक्तम्- " सद्धर्मघीजवपनानघकौशलस्य, यल्लोकबान्धव । तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु, सूर्याशवो मधुकरीचरणावदाताः ।। १ ।। " किंभूतोऽसावनुशासक इत्याह-वसु-द्रव्यं स च मोक्षं प्रति प्रवृत्तस्य संयमः तद्विद्यते यस्यासौ वसुमान्, पूजनं-देवादिकृतमशोकादिकमास्वादयति उपयुक्त इति पूजनाखादकः, ननु चाधाकर्मणो देवादिकृतस्य समवसरणादेरुप भोगात्कथमसौ | सत्संयमवानित्याशङ्कयाह-न विद्यते आशय :- पूजाभिप्रायो यस्यासावनाशयः, यदिवा द्रव्यतो विद्यमानेऽपि समवसरणादिके भावतोऽनावादकोऽसौ तद्गतगार्थ्याभावात्, सत्यप्युपभोगे 'यतः' प्रयतः सत्संयमवानेवासावेकान्तेन संयमपरायणखात् कुतो ? यत इन्द्रियनोइन्द्रियाभ्यां दान्तः, एतद्गुणोऽपि कथमित्याह- दृढः संयमे, आरतम् - उपरतमपगतं मैथुनं यस्य स आरतमैथुन :- अपगतेच्छामदनकामः, इच्छामदन कामाभावाच्च संयमे दृढोऽसौ भवति, आयतचारित्रत्वाश्च दान्तोऽसौ भवति, इन्द्रियनोइन्द्रियदमाच प्रयतः, प्रयत्नवस्वाश्च देवादिपूजनानास्वादकः, तदनास्वादनाच्च सत्यपि द्रव्यतः परिभोगे सत्संयमवानेवासाविति ॥ ११ ॥ अथ किमित्यसा परतमैथुन इत्याशङ्कयाह - नीवारः- सूकरादीनां पशूनां वध्यस्थानप्रवेशन भूतो भक्ष्यविशेषस्तत्कल्पमेतन्मैथुनं यथा हि असौ पशुर्नीवारेण प्रलोभ्य वध्यस्थानमभिनीय नानाप्रकारा वेदनाः प्राप्यते एवम सावप्यसुमान् नीवारकल्पेनानेन स्त्रीप्रसङ्गेन वशीकृतो बहुप्रकारा यातनाः प्राप्नोति, अतो नीवारप्रायमेतन्मैथुनमवगम्य स तस्मिन् ज्ञाततत्वो 'न लीयेत' न स्त्रीप्रसङ्गं कुर्यात्, किंभूतः सन्नित्याह- छिन्नानि - अपनीतानि स्रोतांसि - संसारावतरणद्वाराणि यथाविषयमिन्द्रियप्रवर्तनानि प्राणातिपातादीनि वा आश्रवद्वाराणि येन स छिन्नस्रोताः, तथा 'अनाविल:' अकलुषो रागद्वेषासंपृक्ततया मलरहितोऽनाकुलो वा विषयाप्रवृत्तेः स्वस्थचेता एवंभूतश्वानाविलोडनाकुलो वा 'सदा' सर्वकालमिन्द्रियनोइन्द्रियाभ्यां दान्तो भवति, ईदृग्विषश्च कर्मविवरलक्षणं भावसंधिम् 'अनीदृशम्' अनन्यतुल्यं प्राप्तो भवतीति ॥ १२ ॥ किञ्च - अलिसस्स खेयन्ने, ण विरुज्झिज्ज केणइ । मणसा वयसा चैव, कायसा चैव चक्खुमं ॥ १३ ॥ से हु चक्खू मणुस्साणं, जे कंखाए य अंतए । अंतेण खुरो वहती, चक्कं अंतेण लोट्टती ॥ १४ ॥ अंताणि धीरा सेवंति, तेण अंतकरा इह । इह माणुस्सए ठाणे, धम्ममाराहिउं परा ॥ १५ ॥ गिट्टियट्टा व देवा वा, उत्तरीए इयं सुयं । सुयं च मेयमेगेसिं, अमणुस्सेसु णो तहा ॥ १६ ॥ 'अनीदृश: ' अनन्यसदृशः संयमो मौनीन्द्रधर्मो वा तस्य तस्मिन् वा 'खेदज्ञो' निपुणः, अनीदृशखेदज्ञश्च केनचित्सार्धं न विरोधं कुर्वीत, सर्वेषु प्राणिषु मैत्रीं भावयेदित्यर्थः, योगत्रिककरणत्रिकेणेति दर्शयति- 'मनसा' अन्तःकरणेन प्रशान्तमनाः, Jain Education International For Private Personal Use Only १५ आदानीयाध्य० ॥२५७॥ १५आदानीयाध्य० ॥२५८॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764