Book Title: Acharangasutram Sutrakrutangsutram Cha
Author(s): Sagaranandsuri, Anandsagarsuri, Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 505
________________ सूत्रकृता शीलाङ्काचार्ययवृतियुतं ॥२१२॥ सूत्रकृताङ्ग शीलाङ्काचाय चियुत ॥२१३॥ 142 तज्ज्ञानज्ञेय विज्ञान शून्यैर्विज्ञायते कथम् ? ॥ १ ॥ " न च तस्य सम्यक् तदुपायपरिज्ञानाभावात्संभवः, संभवाभावश्चेतरेतराश्रयत्वात्, तथाहि-न विशिष्टपरिज्ञानमृते तदवाप्युपायपरिज्ञानमुपायमन्तरेण च नोपेयस्य विशिष्टपरिज्ञानस्यावाप्तिरिति, न च ज्ञानं ज्ञेयस्य स्वरूपं परिच्छेत्तुमलं, तथाहि यत्किमप्युपलभ्यते तस्यार्वाग्मध्यपरभागैर्भाव्यं तत्रार्वाग्भागस्यैवोपलब्धिर्नेतरयोः, तेनैव व्यवहितत्वात्, अर्वाग्भागस्यापि भागत्रय कल्पनात्तत्सर्वारातीयभागपरिकल्पनया परमाणुपर्यवसानता, परमाणोश्च स्वभावविप्रकृष्टलादर्वाग्दर्शनिनां नोपलब्धिरिति, तदेवं सर्वज्ञस्याभावादसर्वज्ञस्य च यथावस्थितवस्तुस्वरूपापरिच्छेदात्सर्ववादिनां च परस्परविरोधेन प| दार्थ स्वरूपाभ्युपगमात् यथोत्तर परिज्ञानिनां प्रमादवतां बहुतरदोषसंभवादज्ञानमेव श्रेयः, तथाहि - यद्यज्ञानवान् कथञ्चित्पादेन शिरसि हन्यात् तथापि चित्तशुद्धेर्न तथाविधदोषानुषङ्गी स्यादित्येवमज्ञानिन एवंवादिनः सन्तोऽसंबद्धाः, न चैवंविधां चितवितिं विदीर्णा इति । तत्रैवंवादिनस्ते अज्ञानिका 'अकोविदा' अनिपुणाः सम्यकपरिज्ञान विकला इत्यवगन्तव्याः, तथाहि यत्तैरभिहितं 'ज्ञानवादिनः परस्पर विरुद्धार्थवादितया न यथार्थवादिन' इति, तद्भवत्वसर्वज्ञप्रणीतागमाभ्युपगमवादिनामयथार्थवादिखं, न चाभ्युपगमवादा एवं बाधायै प्रकल्प्यन्ते, सर्वज्ञप्रणीतागमाभ्युपगमनादिनां तु न कचित्परस्परतो विरोधः, सर्वज्ञत्वान्यथानुपपत्तेरिति, तथाहि - प्रक्षीणाशेषावरणतया रागद्वेषमोहानामनृतकारणानामभावाच तद्वाक्यमयथार्थमित्येवं तत्प्रणीतागमवतां न | विरोधवादिखमिति । ननु च स्यादेतद् यदि सर्वज्ञः कश्चित्स्यात्, न चासौ संभवतीत्युक्तं प्राक्, सत्यमुक्तमयुक्तं तूक्तं तथाहियत्तावदुक्तं 'न चासौ विद्यमानोऽप्युपलक्ष्यतेऽग्दर्शिनेति' तदयुक्तं यतो यद्यपि परचेतोवृत्तीनां दुरन्वयत्वात्सरागा वीतरागा इव चेष्टन्ते वीतरागाः सरागा इवेत्यतः प्रत्यक्षेणानुपलब्धिः, तथापि संभवानुमानस्य सद्भावात्तद्वाधकप्रमाणाभावाच्च तदस्तित्वमनिवार्य, संभवानुमानं खिदं - व्याकरणादिनां शास्त्राभ्यासेन संस्क्रियमाणायाः प्रज्ञाया ज्ञानातिशयो ज्ञेयावगमं प्रत्युपलब्धः, तदत्र कवितथाभूताभ्यासवशात्सर्वज्ञोऽपि स्यादिति, न च तदभावसाधकं प्रमाणमस्ति, तथाहि न तावदवग्दर्शिप्रत्यक्षेण सर्वज्ञाभावः साधयितुं शक्यः, तस्य हि तज्ज्ञानज्ञेय विज्ञानशून्यवाद, अशून्यखाभ्युपगमे च सर्वज्ञत्वापत्तिरिति । नाप्यनुमानेन तदव्यभिचारिलिङ्गाभावादिति । नाप्युपमानेन सर्वज्ञाभावः साध्यते, तस्य सादृश्यवलेन प्रवृत्तेः न च सर्वज्ञाभावे साध्ये तादृग्विधं साह| श्यमस्ति येनासौ सिध्यतीति । नाप्यर्थापश्या, तस्याः प्रत्यक्षादिप्रमाणपूर्वकत्वेन प्रवृत्तेः, प्रत्यक्षादीनां च तत्साधकत्वेनाप्रवर्तनात् तस्या अप्यप्रवृत्तिः । नाप्यागमेन, तस्य सर्वज्ञसाधकत्वेनापि दर्शनात् नापि प्रमाणपञ्चकाभावरूपेणाभावेन सर्वज्ञाभावः सिध्यति, तथाहि - सर्वत्र सर्वदा न संभवति तद्ग्राहकं प्रमाणमित्येतदवग्दर्शिनो वक्तुं न युज्यते, तेन हि देशकालविप्रकृष्टानां पुरुषाणां यद्विज्ञानं तस्य ग्रहीतुमशक्यत्वात्, तद्ग्रहणे वा तस्यैव सर्वज्ञत्वापत्तेः न चार्वाग्दर्शिनां ज्ञानं निवर्तमानं सर्वज्ञाभावं सोधयति, तस्याव्यापकत्वात् न चाव्यापकव्यावृत्या पदार्थव्यावृत्तिर्युक्तेति, न च वस्त्वन्तरविज्ञानैरूपोऽभावः सर्वज्ञाभावसाध नायालं, वस्त्वन्तर सर्वज्ञयोरेकज्ञानसंसर्गप्रतिबन्धाभावात् । तदेवं बाधकप्रमाणाभावात्संभवानुमानस्य च प्रतिपादितत्वादस्ति सर्वज्ञः, तत्प्रणीतागमाभ्युपगमाच्च मतभेददोषो दूरापास्त इति, तथाहि - तत्प्रणीतागमाभ्युपगमवादिनामेकवाक्यतया शरीरमात्रव्यापी संसार्यात्माऽस्ति तत्रैव तद्गुणोपलब्धेरिति, इतरेतराश्रयदोपश्चात्र नावतरत्येव यतोऽभ्यस्यमानायाः प्रज्ञाया ज्ञानातिशयः १ शाश्राभ्यासे करणला तृतीया यद्वाऽभ्यासाभ्यस्ययोरैक्यं । २ बुद्धितारतम्योपलब्धेर्विश्रान्तिसिद्धिः । ३ भावयति प्र० । ४ घटलाने हि पटाभावप्रतीतिर्यथा । ५ यता नियमाभावात् । स्वात्मन्यपि दृष्टा, न च दृष्टेऽनुपपन्नं नामेति । यदप्यभिहितं तद्यथा 'न च ज्ञानं ज्ञेयस्य स्वरूपं परिच्छेत्तुमलं सर्वत्रार्वाग्भागेन व्यवधानात्, सर्वारातीयभागस्य च परमाणुरूपतयाऽतीन्द्रियत्वा' दिति, एतदपि वान्मात्रमेव, यतः सर्वज्ञज्ञानस्य देशकालस्वभावव्यवहितानामपि ग्रहणान्नास्ति व्यवधानसंभवः, अर्वाग्दर्शिज्ञानंस्याप्यवयवद्वारेणावयविनि प्रवृत्तेर्नास्ति व्यवधानं, न सवयवी स्वावयवैर्व्यवधीयत इति युक्तिसंगतम्, अपिच - अज्ञानमेव श्रेय इत्यत्राज्ञानमिति किमयं पर्युदास आहोखित्प्रसज्यप्रतिषेधः १, तत्र यदि ज्ञानादन्यदज्ञानमिति ततः पर्युदासवृत्या ज्ञानान्तरमेव समाश्रितं स्यात् नाज्ञानवाद इति, अथ ज्ञानं न भवतीत्यज्ञानं तुच्छो नीरूपो ज्ञानाभावः स च सर्वसामर्थ्यरहित इति कथं श्रेयानिति १ । अपिच-अज्ञानं श्रेय इति प्रसज्यप्रतिषेधेन ज्ञानं श्रेयो न भवतीति क्रियाप्रतिषेध एव कृतः स्याद् एतच्चाध्यक्षबाधितं यतः सम्यग्ज्ञानादर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियार्थी न विसं | वाद्यत इति । किंच अज्ञानप्रमादवद्भिः पादेन शिरःस्पर्शनेऽपि खल्पदोषतां परिज्ञायैवाज्ञानं श्रेय इत्यभ्युपगम्यते, एवं च सति प्रत्यक्ष एव स्यादभ्युपगमविरोधो, नानुमानं प्रमाणमिति । तथा तदेवं सर्वथा ते अज्ञानवादिनः 'अकोविदा' धर्मोपदेशं प्रत्यनिपुणाः स्वतोऽकोविदेभ्य एव स्वशिष्येभ्य 'आहुः' कथितवन्तः, छान्दसत्वाच्चैकवचनं सूत्रे कृतमिति । शाक्या अपि प्रायशोऽ|ज्ञानिकाः, अविज्ञोपचितं कर्म बन्धं न यातीत्येवं यतस्तेऽभ्युपगमयन्ति, तथा ये च बालमत्त सुप्तादयोsस्पष्टविज्ञाना अन्धका इत्येवमभ्युपगमं कुर्वन्ति, ते सर्वेऽप्यकोविदा द्रष्टव्या इति । तथाऽज्ञानपक्षसमाश्रयणाच्चाननुविचिन्त्य भापणान्मृषा ते सदा वद • विवक्षितं निषेध्यं ज्ञानमत्र, तथा चान्यस्यापि ज्ञानत्वे न क्षतिः । २ किरियं अकिरियमित्याद्यगाथायामेकवचनस्य समाधानमिदमाभाति । Jain Education International For Private Personal Use Only १२ समवसरणाध्य० ॥२१२॥ १२ समव सरणाध्य० ॥२९३॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764