________________
सूत्रकृता
शीलाङ्काचार्ययवृतियुतं
॥२१२॥
सूत्रकृताङ्ग शीलाङ्काचाय
चियुत
॥२१३॥
142
तज्ज्ञानज्ञेय विज्ञान शून्यैर्विज्ञायते कथम् ? ॥ १ ॥ " न च तस्य सम्यक् तदुपायपरिज्ञानाभावात्संभवः, संभवाभावश्चेतरेतराश्रयत्वात्, तथाहि-न विशिष्टपरिज्ञानमृते तदवाप्युपायपरिज्ञानमुपायमन्तरेण च नोपेयस्य विशिष्टपरिज्ञानस्यावाप्तिरिति, न च ज्ञानं ज्ञेयस्य स्वरूपं परिच्छेत्तुमलं, तथाहि यत्किमप्युपलभ्यते तस्यार्वाग्मध्यपरभागैर्भाव्यं तत्रार्वाग्भागस्यैवोपलब्धिर्नेतरयोः, तेनैव व्यवहितत्वात्, अर्वाग्भागस्यापि भागत्रय कल्पनात्तत्सर्वारातीयभागपरिकल्पनया परमाणुपर्यवसानता, परमाणोश्च स्वभावविप्रकृष्टलादर्वाग्दर्शनिनां नोपलब्धिरिति, तदेवं सर्वज्ञस्याभावादसर्वज्ञस्य च यथावस्थितवस्तुस्वरूपापरिच्छेदात्सर्ववादिनां च परस्परविरोधेन प| दार्थ स्वरूपाभ्युपगमात् यथोत्तर परिज्ञानिनां प्रमादवतां बहुतरदोषसंभवादज्ञानमेव श्रेयः, तथाहि - यद्यज्ञानवान् कथञ्चित्पादेन शिरसि हन्यात् तथापि चित्तशुद्धेर्न तथाविधदोषानुषङ्गी स्यादित्येवमज्ञानिन एवंवादिनः सन्तोऽसंबद्धाः, न चैवंविधां चितवितिं विदीर्णा इति । तत्रैवंवादिनस्ते अज्ञानिका 'अकोविदा' अनिपुणाः सम्यकपरिज्ञान विकला इत्यवगन्तव्याः, तथाहि यत्तैरभिहितं 'ज्ञानवादिनः परस्पर विरुद्धार्थवादितया न यथार्थवादिन' इति, तद्भवत्वसर्वज्ञप्रणीतागमाभ्युपगमवादिनामयथार्थवादिखं, न चाभ्युपगमवादा एवं बाधायै प्रकल्प्यन्ते, सर्वज्ञप्रणीतागमाभ्युपगमनादिनां तु न कचित्परस्परतो विरोधः, सर्वज्ञत्वान्यथानुपपत्तेरिति, तथाहि - प्रक्षीणाशेषावरणतया रागद्वेषमोहानामनृतकारणानामभावाच तद्वाक्यमयथार्थमित्येवं तत्प्रणीतागमवतां न | विरोधवादिखमिति । ननु च स्यादेतद् यदि सर्वज्ञः कश्चित्स्यात्, न चासौ संभवतीत्युक्तं प्राक्, सत्यमुक्तमयुक्तं तूक्तं तथाहियत्तावदुक्तं 'न चासौ विद्यमानोऽप्युपलक्ष्यतेऽग्दर्शिनेति' तदयुक्तं यतो यद्यपि परचेतोवृत्तीनां दुरन्वयत्वात्सरागा वीतरागा इव चेष्टन्ते वीतरागाः सरागा इवेत्यतः प्रत्यक्षेणानुपलब्धिः, तथापि संभवानुमानस्य सद्भावात्तद्वाधकप्रमाणाभावाच्च तदस्तित्वमनिवार्य, संभवानुमानं खिदं - व्याकरणादिनां शास्त्राभ्यासेन संस्क्रियमाणायाः प्रज्ञाया ज्ञानातिशयो ज्ञेयावगमं प्रत्युपलब्धः, तदत्र कवितथाभूताभ्यासवशात्सर्वज्ञोऽपि स्यादिति, न च तदभावसाधकं प्रमाणमस्ति, तथाहि न तावदवग्दर्शिप्रत्यक्षेण सर्वज्ञाभावः साधयितुं शक्यः, तस्य हि तज्ज्ञानज्ञेय विज्ञानशून्यवाद, अशून्यखाभ्युपगमे च सर्वज्ञत्वापत्तिरिति । नाप्यनुमानेन तदव्यभिचारिलिङ्गाभावादिति । नाप्युपमानेन सर्वज्ञाभावः साध्यते, तस्य सादृश्यवलेन प्रवृत्तेः न च सर्वज्ञाभावे साध्ये तादृग्विधं साह| श्यमस्ति येनासौ सिध्यतीति । नाप्यर्थापश्या, तस्याः प्रत्यक्षादिप्रमाणपूर्वकत्वेन प्रवृत्तेः, प्रत्यक्षादीनां च तत्साधकत्वेनाप्रवर्तनात् तस्या अप्यप्रवृत्तिः । नाप्यागमेन, तस्य सर्वज्ञसाधकत्वेनापि दर्शनात् नापि प्रमाणपञ्चकाभावरूपेणाभावेन सर्वज्ञाभावः सिध्यति, तथाहि - सर्वत्र सर्वदा न संभवति तद्ग्राहकं प्रमाणमित्येतदवग्दर्शिनो वक्तुं न युज्यते, तेन हि देशकालविप्रकृष्टानां पुरुषाणां यद्विज्ञानं तस्य ग्रहीतुमशक्यत्वात्, तद्ग्रहणे वा तस्यैव सर्वज्ञत्वापत्तेः न चार्वाग्दर्शिनां ज्ञानं निवर्तमानं सर्वज्ञाभावं सोधयति, तस्याव्यापकत्वात् न चाव्यापकव्यावृत्या पदार्थव्यावृत्तिर्युक्तेति, न च वस्त्वन्तरविज्ञानैरूपोऽभावः सर्वज्ञाभावसाध नायालं, वस्त्वन्तर सर्वज्ञयोरेकज्ञानसंसर्गप्रतिबन्धाभावात् । तदेवं बाधकप्रमाणाभावात्संभवानुमानस्य च प्रतिपादितत्वादस्ति सर्वज्ञः, तत्प्रणीतागमाभ्युपगमाच्च मतभेददोषो दूरापास्त इति, तथाहि - तत्प्रणीतागमाभ्युपगमवादिनामेकवाक्यतया शरीरमात्रव्यापी संसार्यात्माऽस्ति तत्रैव तद्गुणोपलब्धेरिति, इतरेतराश्रयदोपश्चात्र नावतरत्येव यतोऽभ्यस्यमानायाः प्रज्ञाया ज्ञानातिशयः
१ शाश्राभ्यासे करणला तृतीया यद्वाऽभ्यासाभ्यस्ययोरैक्यं । २ बुद्धितारतम्योपलब्धेर्विश्रान्तिसिद्धिः । ३ भावयति प्र० । ४ घटलाने हि पटाभावप्रतीतिर्यथा । ५ यता नियमाभावात् ।
स्वात्मन्यपि दृष्टा, न च दृष्टेऽनुपपन्नं नामेति । यदप्यभिहितं तद्यथा 'न च ज्ञानं ज्ञेयस्य स्वरूपं परिच्छेत्तुमलं सर्वत्रार्वाग्भागेन व्यवधानात्, सर्वारातीयभागस्य च परमाणुरूपतयाऽतीन्द्रियत्वा' दिति, एतदपि वान्मात्रमेव, यतः सर्वज्ञज्ञानस्य देशकालस्वभावव्यवहितानामपि ग्रहणान्नास्ति व्यवधानसंभवः, अर्वाग्दर्शिज्ञानंस्याप्यवयवद्वारेणावयविनि प्रवृत्तेर्नास्ति व्यवधानं, न सवयवी स्वावयवैर्व्यवधीयत इति युक्तिसंगतम्, अपिच - अज्ञानमेव श्रेय इत्यत्राज्ञानमिति किमयं पर्युदास आहोखित्प्रसज्यप्रतिषेधः १, तत्र यदि ज्ञानादन्यदज्ञानमिति ततः पर्युदासवृत्या ज्ञानान्तरमेव समाश्रितं स्यात् नाज्ञानवाद इति, अथ ज्ञानं न भवतीत्यज्ञानं तुच्छो नीरूपो ज्ञानाभावः स च सर्वसामर्थ्यरहित इति कथं श्रेयानिति १ । अपिच-अज्ञानं श्रेय इति प्रसज्यप्रतिषेधेन ज्ञानं श्रेयो न भवतीति क्रियाप्रतिषेध एव कृतः स्याद् एतच्चाध्यक्षबाधितं यतः सम्यग्ज्ञानादर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियार्थी न विसं | वाद्यत इति । किंच अज्ञानप्रमादवद्भिः पादेन शिरःस्पर्शनेऽपि खल्पदोषतां परिज्ञायैवाज्ञानं श्रेय इत्यभ्युपगम्यते, एवं च सति प्रत्यक्ष एव स्यादभ्युपगमविरोधो, नानुमानं प्रमाणमिति । तथा तदेवं सर्वथा ते अज्ञानवादिनः 'अकोविदा' धर्मोपदेशं प्रत्यनिपुणाः स्वतोऽकोविदेभ्य एव स्वशिष्येभ्य 'आहुः' कथितवन्तः, छान्दसत्वाच्चैकवचनं सूत्रे कृतमिति । शाक्या अपि प्रायशोऽ|ज्ञानिकाः, अविज्ञोपचितं कर्म बन्धं न यातीत्येवं यतस्तेऽभ्युपगमयन्ति, तथा ये च बालमत्त सुप्तादयोsस्पष्टविज्ञाना अन्धका इत्येवमभ्युपगमं कुर्वन्ति, ते सर्वेऽप्यकोविदा द्रष्टव्या इति । तथाऽज्ञानपक्षसमाश्रयणाच्चाननुविचिन्त्य भापणान्मृषा ते सदा वद
• विवक्षितं निषेध्यं ज्ञानमत्र, तथा चान्यस्यापि ज्ञानत्वे न क्षतिः । २ किरियं अकिरियमित्याद्यगाथायामेकवचनस्य समाधानमिदमाभाति ।
Jain Education International
For Private Personal Use Only
१२ समवसरणाध्य०
॥२१२॥
१२ समव
सरणाध्य०
॥२९३॥
www.jainelibrary.org