________________
%3D
विद्वये विनयं ग्राहितबन्वय" इति ॥ ३ ॥ नुपसंख्या तयाऽनुपर
१२ समयसरणाध्य०
मूत्रकृताङ्गं शीलाङ्काचार्याय त्तियुत ॥२१॥
Leesestseeeeeeeeeeeeeeo
143 न्ति । अनुविचिन्त्य भाषणं यतो ज्ञाने सति भवति, तत्पूर्वकत्वाच्च सत्यवादस्य, अतो ज्ञानानभ्युपगमादनुविचिन्त्य भाषणाभावः, | तदभावाच्च तेषां मृषावादित्वमिति ॥ २॥ साम्प्रतं वैनयिकवादं निराचिकीर्षुः प्रक्रमते-सयो हितं 'सत्यं परमार्थो यथावस्थितपदार्थनिरूपणं वा मोक्षो वा तदुपायभूतो वा संयमः सत्यं तदसत्यम् 'इति' एवं 'विचिन्तयन्तो' मन्यमानाः, एवमसत्यमपि सत्यमिति मन्यमानाः, तथाहि-सम्यग्दर्शनज्ञानचारित्राख्यो मोक्षमार्गः सत्यस्तमसत्यत्वेन चिन्तयन्तो विनयादेव मोक्ष इत्येतदसत्यमपि सत्यत्वेन मन्यमानाः, तथा असाधुमप्यविशिष्टकर्मकारिणं वन्दनादिकया विनयप्रतिपच्या साधुम् 'इति' एवम् 'उदाहरन्तः प्रतिपादयन्तो न सम्यग्यथावस्थितधर्मस्य परीक्षकाः, युक्तिविकलं विनयादेव धर्म इत्येवमभ्युपगमात्, क एते इत्येतदाह-ये 'इमे बुद्ध्या प्रत्यक्षासन्नीकृता 'जना इव' प्राकृतपुरुषा इव जना विनयेन चरन्ति वैनयिका-विनयादेव केवलात्स्व
मोक्षावाप्तिरित्येवंवादिनः 'अनेके बहवो द्वात्रिंशद्भेदभिन्नत्वात्तेषां, ते च विनयेचारिणः केनचिद्धर्मार्थिना पृष्टाः सन्तोऽपिशब्दादपृष्टा वा "भावं' परमार्थ यथार्थोपलब्धं स्वाभिप्राय वा विनयादेव वर्गमोक्षावाप्तिरित्येवं 'व्यनैषुः' विनीतवन्त:| सर्वदा सर्वस्य सर्वसिद्धये विनयं ग्राहितवन्तः, नामशब्दः संभावनायां, संभाव्यत एव विनयात्स्वकार्यसिद्धिरिति, तदुक्तम्| "तस्मात्कल्याणानां सर्वेषां भाजनं विनय" इति ॥३॥ किंचान्यत्-संख्यानं संख्या-परिच्छेदः उप-सामीप्येन S संख्या उपसंख्या- सम्यग्यथावस्थितार्थपरिज्ञानं नोपसंख्याऽनुपसंख्या तयाऽनुपसंख्यया-अपरिज्ञानेन व्यामूढमतयस्ते वैनयिकाः खाग्रह प्रस्ता इति एतद्-यथा विनयादेव केवलात्वर्गमोक्षावाप्तिरित्युदाहृतवन्तः, एतच्च ते महामोहाच्छा
१ समुच्चयार्थत्वात्तच्छन्द्रनानुविचिन्त्य भाषणपरामर्शः । २ ० कारिणः । ३ लम्भं प्र० । दिता 'उदाहु: उदाहृतवन्तः यथैवं सर्वस्य विनयप्रतिपच्या खोऽर्थः-स्वर्गमोक्षादिकः अस्माकम् 'अवभासते आविर्भवति प्राप्यते इतियावत् , अनुपसंख्योदाहृतिश्च तेषामेवमवगन्तव्या, तद्यथा-ज्ञानक्रियाभ्यां मोक्षसद्भावे सति तदपास्य विनयादेवैकसात्तदवाप्त्यभ्युपगमादिति, यदप्युक्तं 'सर्वकल्याणभाजनं तदपि सम्यग्दर्शनादिसंभवे सति विनयस्य कल्याणभाक्वं भवति नैककस्येति, तद्रहितो हि विनयोपेतः सर्वस्य प्रतया न्यत्कारमेवापादयति, ततश्च विवक्षितार्थावभासनाभावात्तेषामेवंवादिनामज्ञानावृतत्वमेवावशिष्यते, नाभिप्रेतार्थावाप्तिरित्युक्ता वैनयिकाः।। साम्प्रतमक्रियावादिदर्शनं निराचिकीर्षुः पश्चार्धमाह-लवंकर्म तस्मादपशङ्कितुम्-अपसतु शील येषां ते लवापशङ्किनो-लोकायतिकाः शाक्यादयश्च, तेषामात्मैव नास्ति कुतस्तक्रिया तज्जनितो वा कर्मबन्ध इति, उपचारमात्रेण त्वस्ति बन्धः, तद्यथा-'बद्धा मुक्ताश्च कथ्यन्ते, मुष्टिग्रन्थिकपोतकाः । न चान्ये द्रव्यतः सन्ति, मुष्टिग्रन्थिकपोतकाः ॥ १॥ तथाहि-बौद्धानामयमभ्युपगमो, यथा-'क्षणिकाः सर्वसंस्कारा' इति 'अस्थितानां [च] कुतः क्रिये' त्यक्रियावादित्वं, योऽपि स्कन्धपञ्चकाभ्युपगमस्तेषां सोऽपि संवृतिमात्रेण न परमार्थेन, यतस्तेषामयमभ्युपगमः, तद्यथा-विचार्यमाणाः पदार्था न कथञ्चिदप्यात्मानं विज्ञानेन समर्पयितुमलं, तथाहि-अवयवी तत्वान्यत्वाभ्यो विचार्यमाणो न घटा प्राञ्चति, नाप्यवयवाः परमाणुपर्यवसानतयाऽतिमूक्ष्मत्वाज्ज्ञानगोचरतां प्रतिपद्यन्ते, विज्ञानमपि ज्ञेयाभावेनामूर्तस निराकारतया न स्वरूपं बिभर्ति, तथा चोक्तम्-"यथा यथार्थाश्चिन्त्यन्ते, विविच्यन्ते तथा तथा । यद्येतत्स्वयमर्थेभ्यो, रोचते तत्र के वयम् ? ॥१॥" इति, प्रच्छबलोकायतिका हि बौद्धाः, तत्रानागतैः क्षणैः चशब्दादतीतैश्च वर्तमानक्षणस्यासंगतेन क्रिया, नापि च
१ लवावशतिनः । अप्रेऽपि अत्र गाधायां । २ तत्त्वाऽतत्त्वाभ्यां प्र० । ३ अवयवेभ्योऽभिन्नस्वेतराभ्यां । तजनितः कर्मबन्ध इति । तदेवमक्रियावादिनो नास्तिकवादिनः सर्वापलापितया लवावशङ्किन: सन्तो न क्रियामाहुः, तथा अक्रिय आत्मा येषां सर्वव्यापितया तेऽप्यक्रियावादिनः सांख्याः, तदेवं ते लोकायतिकबौद्धसांख्या अनुपसंख्यया-अपरिज्ञानेनेति-एतत् पूर्वोक्तमुदाहृतवन्तः, तथैतत्वज्ञानेनैवोदाहृतवन्तः, तद्यथा-असाकमेवमभ्युपगमेऽर्थोऽवभासते-युज्यमानको भवतीति, तदेवं श्लोक-| पूर्वाद्ध काकाक्षिगोलकन्यायेनाक्रियावादिमतेऽप्यायोज्यमिति ॥४॥ साम्प्रतमक्रियावादिनामज्ञानविजृम्भितं दर्शयितुमाह
सम्मिस्सभावं च गिरा गहीए, से मुम्मुई होइ अणाणुवाई । इमं दुपक्खं इममेगपक्खं, आहंसु छलायतणं च कम्मं ॥ ५॥ ते एवमक्खंति अबुज्झमाणा, विरूवरूवाणि अकिरियवाई। जे मायइत्ता बहवे मणूसा, भमंति संसारमणोवदग्गं ॥६॥णाइच्चो उपइ ण अत्थमेति, ण चंदिमा वड्डति हायती वा । सलिला ण संदंति ण वंति वाया, वंझो णियतो कसिणे हु लोए ॥७॥ जहाहि अंधे सह जोतिणावि, रूवाइ णो पस्सति हीणणेत्ते । संतंपि ते एवमकिरियवाई, किरियं ण पस्संति निरुद्धपन्ना ॥८॥ खकीयया गिरा-वाचा स्वाभ्युपगमेनैव 'गृहीते' तस्मिन्नर्थे नान्तरीयकतया वा समागते सति तस्याऽऽयातस्यार्थस्य गिरा प्र१ लोकायकिता बौद्धाः सांख्याः प्र० ।
elacroectioeseseseseseseneloectroeseroeseaekseeseseaeedeseseseseseneceseeeeeeee
॥२१॥
SO99999990s30000
R
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org