Book Title: Acharangasutram Sutrakrutangsutram Cha
Author(s): Sagaranandsuri, Anandsagarsuri, Jambuvijay
Publisher: Motilal Banarasidas
View full book text ________________
aeseseseseseses
eeseeseseResea
eese
163. ए उ, रातिणिएणावि समवएणं । सम्मं तयं थिरतो णाभिगच्छे, णिजंतए वावि अपारए से ॥७॥ विउट्टितेणं समयाणुसिटे, डहरेण वुड्डेण उ चोइए य । अञ्चट्रियाए घडदासिए वा, अगारिणं वा समयाणुसिट्टे ॥ ८॥ यो हि निर्विष्णसंसारतया प्रव्रज्यामभि उद्यतो नित्यं गुरुकुलवासतः 'स्थानतश्च' स्थानमाश्रित्य तथा शयनत आसनतः, एकश्चकारः समुच्चये द्वितीयोऽनुक्तसमुच्चयार्थः चकाराद्गमनमाश्रित्यागमनं च तथा तपश्चरणादौ पराक्रमतच, (सु) साधोः-उद्यु-15 कविहारिणो ये समाचारास्तैः समायुक्तः सुसाधुयुक्तः, सुसाधुर्हि यत्र स्थानं-कायोत्सर्गादिकं विधत्ते तत्र सम्यक् प्रत्युपेक्षणादिकां क्रियां करोति, कायोत्सर्ग च मेरुरिव निष्प्रकरणः शरीरनिःस्पृहो विधत्ते, तथा शयनं च कुर्वन् प्रत्युपेक्ष्य संस्तारकं तद्धवं
कायं चोदितकाले गुरुभिरनुज्ञातः स्वपेत् , तत्रापि जाग्रदिव नात्यन्तं निःसह इति । एवमासनादिष्वपि तिष्ठता पूर्ववत्संकुचित६ गात्रेण स्वाध्यायध्यानपरायणेन सुसाधुना भवितव्यमिति, तदेवमादिसुसाधुक्रियायुक्तो गुरुकुलनिवासी सुसाधुर्भवतीति स्थितम् ।
अपिच-गुरुकुलवामे निवसन पञ्चसु समितिवीर्यासमित्यादिषु प्रविचाररूपासु तथा तिसृषु च गुप्तिषु प्रविचाराप्रविचाररूपासु | | आगता-उत्पन्ना प्रज्ञा यस्यासावागतप्रज्ञा-संजातकर्तव्याकर्तव्यविवेकः स्वतो भवति, परस्यापि च 'व्याकुर्वन् कथयन् पृथक्
पृथग्गुरोः प्रसादात्परिज्ञातस्वरूपः समितिगुप्तीनां यथावस्थितस्वरूपप्रतिपालनं तत्फलं च 'वदेत्' प्रतिपादयेदिति ॥५॥र्यामूत्रकृताङ्गं | समित्याद्युपेतेन यद्विधेयं तद्दर्शयितुमाह-'शब्दान्' वेणुवीणादिकान् मधुरान् श्रुतिपेशलान् 'श्रुत्वा' समाकाथवा 'भैर- १४ग्रन्थाशीलाङ्का- वान्' भयावहान् कर्णकटूनाकर्ण्य शब्दान् आश्रवति तान् शोभनखेनाशोभनखेन वा गृहातीत्याश्रवो नाश्रवोऽनाश्रवः, तेष्वनुकू- ध्ययनं. चायीयवृ
लेपु प्रतिकूलेषु श्रवणपथमुपगतेषु शब्देष्वनाश्रवो-मध्यस्थो रागद्वेषरहितो भूखा परि-समन्ताद् व्रजेत् परिव्रजेत्-संयमानुष्ठायी त्तियुतं
या भवेत् , तथा 'निद्रां च' निद्राप्रमादं च 'भिक्षुः सत्साधुः प्रमादाङ्गखान्न कुर्यात् , एतदुक्तं भवति-शब्दाश्रवनिरोधेन विषय॥२४४॥
प्रमादो निषिद्धो निद्रानिरोधेन च निद्राप्रमादः, चशब्दादन्यमपि प्रमादं विकथाकषायादिकं न विदध्यात् । तदेवं गुरुकुलवासात् । | स्थानशयनासनसमितिगुप्तिष्वागतप्रज्ञः प्रतिषिद्धसर्वप्रमादः सन् गुरोरुपदेशादेव कथंकथमपि विचिकित्सां-चित्तविप्लुतिरूपां [वितीर्णः-अतिक्रान्तो भवति, यदिवा मद्भगृहीतोऽयं पञ्चमहातभारोऽतिदुर्वहः कथं कथमप्यन्तं गच्छेद् ?, इत्येवंभूतां
विचिकित्सां गुरुप्रसादाद्वितीों भवति, अथवा यां काश्चिच्चित्तविप्लति देशसर्वगतां तां कृत्स्ना गुर्वन्तिके वसन् वितीर्णो भवति & अन्येषामपि तदपनयनसमर्थः स्यादिति ॥६॥ किश्चान्यत्-स गुर्वन्तिके निवसन् कचित् प्रमादस्खलितः सन् वयापर्या18 याभ्यां क्षुल्लकेन-लघुना 'चोदितः' प्रमादाचरणं प्रति निषिद्धः, तथा 'वृद्धेन वा वयोऽधिकेन श्रुताधिकेन वा 'अनुशा
सित:' अभिहितः, तद्यथा-भवद्विधानामिदमीदृक् प्रमादाचरणमासेवितुमयुक्तं, तथा 'रत्नाधिकेन वा' प्रव्रज्यापर्यायाधिकेन । श्रुताधिकेन वा समवयसा वा 'अनुशासितः' प्रमादस्खलिताचरणं प्रति चोदितः कुप्यति यथा अहमप्यनेन द्रमकप्रायेणोत्त- ॥२४४॥ मकुलप्रसूतः सर्वजनसंमत इत्येवं चोदित इत्येवमनुशास्थमानो न मिथ्यादुष्कृतं ददाति न सम्यगुत्थानेनोत्तिष्ठति नापि तदनुशा-19 | सनं सम्यक् स्थिरतः-अपुनःकरणतयाऽभिगच्छेत्-प्रतिपद्येत, चोदितश्च प्रतिचोदयेद, असम्यक् प्रतिपद्यमानश्चासौ संसारस्रोतसा 'नीयमान' उह्यमानोऽनुशास्यमानः कुपितोऽसौ न संसारार्णवस्य पारगो भवति । यदिवाऽऽचार्यादिना सदुपदेशदानतः प्रमादस्खलितनिवर्तनतो मोक्षं प्रति नीयमानोऽप्यसौ संसारसमुद्रस्य तदकरणतोऽपारग एव भवतीति ॥७॥ साम्प्रतं खपक्षचोदनानन्तरत:(रं)स्वपरचोदनामधिकृत्याह-विरुद्धोत्थानेनोत्थितो व्युत्थितः-परतीर्थिको गृहस्थो वा मिथ्यादृष्टिस्तेन प्रमादस्खलिते चोदितः | वसमयेन, तद्यथा-नवंविधमनुष्ठानं भवतामागमे व्यवस्थितं येनाभिप्रवृत्तोऽसि, यदिवा व्युत्थितः-संयमाष्टस्तेनापरः साधुः स्खलितः सन् खसमयेन-अर्हत्प्रणीतागमानुसारेणानुशासितो मूलोत्तरगुणाचरणे स्खलितः सन् 'चोदित' आगमंप्रदाभिहितः, तद्यथा-नैतत्चरितगमनादिकं भवतामनुज्ञातमिति, तथा अन्येन वा मिथ्यादृष्ट्यादिना 'क्षुल्लकेन' लघुतरेण वयसा वृद्धेन वा कुत्सिताचारप्रवृत्तचोदितः, तुशब्दात्समानवयसा वा तथा अतीवाकार्यकरणं प्रति उत्थिता अल्मुत्थिताः, यदिवा-दासीखेन अत्यन्तमुत्थिता दास्या अपि दासीति, तामेव विशिनष्टि-'घटदास्या' जलवाहिन्यापि चोदितो न क्रोधं कुयात् , एतदुक्तं भवति-अत्युत्थितयाऽतिकुपितयापि चोदितः स्वहितं मन्यमानः सुसाधुने कुप्येत्, किं पुनरन्येनेति ?, तथा 'अगारिणां' गृहस्थानां यः 'समय: अनुष्ठानं तत्समयेनानुशासितो, गृहस्थानामपि एतन्न युज्यते कर्तुं यदारब्धं भवतेत्येवमात्मावमेनापि चोदितो ममैवैतच्छ्रेय इत्येवं | मन्यमानो मनागपि न मनो दूषयेदिति ॥ ८॥ एतदेवाह
ण तेसु कुज्झे ण य पवहेजा. ण यावि किंची फरुसं वदेजा। तहा करिस्संति पडिस्सणेजा, सेयं खु मेयं ण पमाय कुज्जा ॥९॥ वणंसि मूढस्स जहा अमूढा, मग्गाणुसासंति हितं पयाणं । तेणेव (तेणावि) मज्झं इणमेव सेयं, जं मे बुहा समणुसासयंति॥१०॥ अह तेण मूढेण
eemero
SassassiaSSSSSS99909808990008092002999999
ececececemercedestroenesaeleserest
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764