Book Title: Acharangasutram Sutrakrutangsutram Cha
Author(s): Sagaranandsuri, Anandsagarsuri, Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 424
________________ सूत्र. १५ सूत्रकृताङ्गं शीलाङ्काचायय नियुतं ॥ ९१ ॥ 61 परस्परोपकाररहितं दर्शनमापन्ना अयःशलाकाकल्पाः, ते च गोशालकमतानुसारिण आजीविका दिगम्बरा वा त एवं वक्ष्यमाणं परि - समन्ताद्भापन्ते । तं भिक्षुकं साध्वाचारं साधु - शोभनं परोपकारपूर्वकं जीवितुं शीलमस्य स साधुजीविनमिति, 'ये' ते अपुष्टधर्माण 'एवं' वक्ष्यमाणं 'परिभाषन्ते' साध्वाचारनिन्दां विदधति त एवंभूता 'अन्तके' पर्यन्ते दूरे 'समाधेः' | मोक्षाख्यात्सम्यग्ध्यानात्सदनुष्ठानात् वा वर्तन्त इति ।। ८ ।। यत्ते प्रभापन्ते तदर्शयितुमाह संबद्धसमकप्पा उ, अन्नमन्नेसु मुच्छिया । पिंडवायं गिलाणस्स, जं सारेह दलाह य ॥ ९ ॥ एवं तुभे सरागत्था, अन्नमन्नमणुव्वसा । नटुसप्पहसन्भावा, संसारस्स अपारगा ॥ १० ॥ सम् - एकीभावेन परस्परोपकार्योपकारितया च 'बद्धा:' पुत्रकलत्रादिस्नेहपाशैः सम्बद्धा–गृहस्थास्तैः समः - तुल्यः कल्पो व्यवहारोऽनुष्ठानं येषान्ते सम्बद्ध समकल्पा– गृहस्थानुष्ठानतुल्यानुष्ठाना इत्यर्थः तथाहि यथा गृहस्था परस्परोपकारेण माता पुत्रे पुत्रोऽपि मात्रादावित्येवं 'मूच्छिता' अध्युपपन्नाः, एवं भवन्तोऽपि 'अन्योऽन्यं' परस्परतः शिष्याचार्याद्युपकारक्रियाकल्पनया मूच्छिताः, तथाहि - गृहस्थानामयं न्यायो यदुत - परस्मै दानादिनोपकार इति, न तु यतीनां कथमन्योऽन्यं मूच्छिता इति दर्शयति- 'पिण्डपातं' भैक्ष्यं 'ग्लानस्य' अपरस्य रोगिणः साधोः यद् - यस्मात् 'सारेह' त्ति अन्वेषयत, तथा 'दलाह यत्ति ग्लानयोग्यमाहारमन्विप्य तदुपकारार्थं ददध्वं चशब्दादाचार्यादेः वैयावृत्यकरणाद्युपकारेण वर्तध्वं ततो गृहस्थसमकल्पा १ अन्वेषयन्ते प्र० | इति ।। ९ ।। साम्प्रतमुपसंहारव्याजेन दोषदर्शनायाह - ' एवं ' परस्परोपकारादिना यूयं गृहस्था इव सरागस्था: - सह रागेण | वर्तत इति सरागः - स्वभावस्तस्मिन् तिष्ठन्तीति ते तथा, 'अन्योऽन्यं' परस्परतो वशमुपागताः- परस्परायत्ताः, यतयो हि नि:सङ्गतया न कस्यचिदायत्ता भवन्ति, यतो गृहस्थानामयं न्याय इति, तथा नष्टः-अपगतः सत्पथः- सद्भावः- सन्मार्गः परमार्थो | येभ्यस्ते तथा । एवम्भूताश्च यूयं 'संसारस्य' चतुर्गतिभ्रमणलक्षणस्य 'अपारगा' अतीरगामिन इति ॥ १० ॥ अयं तावत्पूर्वपक्षः, अस्य च दूषणायाह अह ते परिभासेज्जा, भिक्खु मोक्खविसारए । एवं तुब्भे पभासंता, दुपक्खं चेव सेवह ॥ ११ ॥ तुम्भे भुंजह पाएसु, गिलाणो अभिहडंमि या । तं च बीओदगं भोच्चा, तमुद्दिस्सादि जं कडं ॥ १२ ॥ 'अथ' अनन्तरं 'तान्' एवं प्रतिकूलत्वेनोपस्थितान् भिक्षुः 'परिभाषेत' ब्रूयात्, किम्भूतः १ - 'मोक्षविशारदो' मोक्षमार्गस्य -- सम्यग्ज्ञानदर्शनचारित्ररूपस्य प्ररूपकः, 'एवम्' अनन्तरोक्तं यूयं प्रभाषमाणाः सन्तः दुष्टः पक्षो दुष्पक्ष :-असत्प्रतिज्ञाभ्युपगमस्तमेव सेवध्वं यूयं यदिवा - रागद्वेषात्मकं पक्षद्वयं सेवध्वं यूयं तथाहि - सदोपस्याप्यात्मीयपक्षस्य समर्थनाद्रागो, निष्कलङ्कस्याप्यस्मादभ्युपगमस्य दूपणाद्वेषः, अर्थ (थवै ) व पक्षद्वयं सेवध्वं यूयं तद्यथा - वक्ष्यमाणनीत्या वीजोद कोद्दिष्टकृत भोजिखान| हस्थाः यतिलिङ्गाभ्युपगमात्किल प्रत्रजिताश्वेत्येवं पक्षद्वयासेवनं भवतामिति, यदिवा -- खतोऽसदनुष्ठानमपरञ्च सदनुष्ठायिनां नि| न्दनमितिभावः ।। ११ ।। आजीविकादीनां परतीर्थिकानां दिगम्बराणां चासदाचारनिरूपणायाह - किल वयमपरिग्रहतया निकिञ्चना एवमभ्युपगमं कृत्वा यूयं भुङ्ग्ध्वं 'पात्रेषु' कांस्यपात्र्यादिषु गृहस्थभाजनेषु तत्परिभोगाश्च तत्परिग्रहोऽवश्यंभावी, तथाऽऽहारादिषु मूर्च्छा कुरुध्वमित्यतः कथं निष्परिग्रहाभ्युपगमो भवतामकलङ्क इति, अन्यच्च 'ग्लानस्य' भिक्षाटनं कर्तुमसमर्थस्य यदपरैर्गृहस्थैरभ्याहतं कार्यते भवद्भिः यतेरानयनाधिकाराभावाद् गृहस्थानयने च यो दोषसद्भावः स भवतामवश्यंभाधीति, तमेव दर्शयति — यच्च गृहस्थैजोदकाद्युपमर्देनापादितमाहारं भुक्त्वा तं ग्लानमुद्दिश्योद्देशकादि ' यत्कृतं ' यनिष्पादितं तदवश्यं युष्मत् परिभोगायावतिष्ठते । तदेवं गृहस्थगृहे तद्भाजनादिषु भुञ्जानास्तथा ग्लानस्य च गृहस्थैरेव वैयावृत्यं कारयन्तो यूयमवश्यं बीजोदकादिभोजिन उद्देशिकादिकृतभोजिनश्रेति ॥ १२ ॥ किञ्चान्यत् लित्ता तिवाभितावेणं, उज्झिआ असमाहिया । नातिकंडूइयं सेयं, अरुयस्सावरज्झती ॥ १३ ॥ तत्तेण अणुसिट्टा ते, अपडिनेण जाणया । ण एस णियए मग्गे, असमिक्खा वती किती ॥१४॥ योऽयं षड्जीवनिकायविराधनयोद्दिष्टभोजिवेनाभिगृहीतमिध्यादृष्टितया च साधुपरिभाषणेन च तीव्रोऽभितापः — कर्मबन्धरूपस्तेनोपलिशा :- संवेष्टितास्तथा 'उज्झिय'त्ति सद्विवेकशून्या भिक्षापात्रादित्यागात्परगृह भोजित योद्देशकादिभोजिखात् तथा 'असमाहिता' शुभाध्यवसायरहिताः सत्साधुप्रद्वेषिखात्, साम्प्रतं दृष्टान्तद्वारेण पुनरपि तदोषाभिधित्सयाऽऽह - यथा ' अरुषः ' व्रणस्यातिकण्डूयितं - नखैर्विलेखनं न श्रेयो न शोभनं भवति, अपि खपराध्यति — तत्कण्डूयनं व्रणस्य दोषमावहति, एवं १ प्रसङ्गापादनं, तैः संबन्धमात्रस्य परिग्रहत्वाभ्युपगमात्, अन्यथा निर्मूच्छे धर्मोपकरणधरणापत्तेः Jain Education International For Private Personal Use Only ३. उपस र्गाध्य० उद्देशः ३ ॥ ९१ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764