________________
सूत्र. १५
सूत्रकृताङ्गं
शीलाङ्काचायय
नियुतं
॥ ९१ ॥
61
परस्परोपकाररहितं दर्शनमापन्ना अयःशलाकाकल्पाः, ते च गोशालकमतानुसारिण आजीविका दिगम्बरा वा त एवं वक्ष्यमाणं परि - समन्ताद्भापन्ते । तं भिक्षुकं साध्वाचारं साधु - शोभनं परोपकारपूर्वकं जीवितुं शीलमस्य स साधुजीविनमिति, 'ये' ते अपुष्टधर्माण 'एवं' वक्ष्यमाणं 'परिभाषन्ते' साध्वाचारनिन्दां विदधति त एवंभूता 'अन्तके' पर्यन्ते दूरे 'समाधेः' | मोक्षाख्यात्सम्यग्ध्यानात्सदनुष्ठानात् वा वर्तन्त इति ।। ८ ।। यत्ते प्रभापन्ते तदर्शयितुमाह
संबद्धसमकप्पा उ, अन्नमन्नेसु मुच्छिया । पिंडवायं गिलाणस्स, जं सारेह दलाह य ॥ ९ ॥ एवं तुभे सरागत्था, अन्नमन्नमणुव्वसा । नटुसप्पहसन्भावा, संसारस्स अपारगा ॥ १० ॥
सम् - एकीभावेन परस्परोपकार्योपकारितया च 'बद्धा:' पुत्रकलत्रादिस्नेहपाशैः सम्बद्धा–गृहस्थास्तैः समः - तुल्यः कल्पो व्यवहारोऽनुष्ठानं येषान्ते सम्बद्ध समकल्पा– गृहस्थानुष्ठानतुल्यानुष्ठाना इत्यर्थः तथाहि यथा गृहस्था परस्परोपकारेण माता पुत्रे पुत्रोऽपि मात्रादावित्येवं 'मूच्छिता' अध्युपपन्नाः, एवं भवन्तोऽपि 'अन्योऽन्यं' परस्परतः शिष्याचार्याद्युपकारक्रियाकल्पनया मूच्छिताः, तथाहि - गृहस्थानामयं न्यायो यदुत - परस्मै दानादिनोपकार इति, न तु यतीनां कथमन्योऽन्यं मूच्छिता इति दर्शयति- 'पिण्डपातं' भैक्ष्यं 'ग्लानस्य' अपरस्य रोगिणः साधोः यद् - यस्मात् 'सारेह' त्ति अन्वेषयत, तथा 'दलाह यत्ति ग्लानयोग्यमाहारमन्विप्य तदुपकारार्थं ददध्वं चशब्दादाचार्यादेः वैयावृत्यकरणाद्युपकारेण वर्तध्वं ततो गृहस्थसमकल्पा
१ अन्वेषयन्ते प्र०
| इति ।। ९ ।। साम्प्रतमुपसंहारव्याजेन दोषदर्शनायाह - ' एवं ' परस्परोपकारादिना यूयं गृहस्था इव सरागस्था: - सह रागेण | वर्तत इति सरागः - स्वभावस्तस्मिन् तिष्ठन्तीति ते तथा, 'अन्योऽन्यं' परस्परतो वशमुपागताः- परस्परायत्ताः, यतयो हि नि:सङ्गतया न कस्यचिदायत्ता भवन्ति, यतो गृहस्थानामयं न्याय इति, तथा नष्टः-अपगतः सत्पथः- सद्भावः- सन्मार्गः परमार्थो | येभ्यस्ते तथा । एवम्भूताश्च यूयं 'संसारस्य' चतुर्गतिभ्रमणलक्षणस्य 'अपारगा' अतीरगामिन इति ॥ १० ॥ अयं तावत्पूर्वपक्षः, अस्य च दूषणायाह
अह ते परिभासेज्जा, भिक्खु मोक्खविसारए । एवं तुब्भे पभासंता, दुपक्खं चेव सेवह ॥ ११ ॥ तुम्भे भुंजह पाएसु, गिलाणो अभिहडंमि या । तं च बीओदगं भोच्चा, तमुद्दिस्सादि जं कडं ॥ १२ ॥ 'अथ' अनन्तरं 'तान्' एवं प्रतिकूलत्वेनोपस्थितान् भिक्षुः 'परिभाषेत' ब्रूयात्, किम्भूतः १ - 'मोक्षविशारदो' मोक्षमार्गस्य -- सम्यग्ज्ञानदर्शनचारित्ररूपस्य प्ररूपकः, 'एवम्' अनन्तरोक्तं यूयं प्रभाषमाणाः सन्तः दुष्टः पक्षो दुष्पक्ष :-असत्प्रतिज्ञाभ्युपगमस्तमेव सेवध्वं यूयं यदिवा - रागद्वेषात्मकं पक्षद्वयं सेवध्वं यूयं तथाहि - सदोपस्याप्यात्मीयपक्षस्य समर्थनाद्रागो, निष्कलङ्कस्याप्यस्मादभ्युपगमस्य दूपणाद्वेषः, अर्थ (थवै ) व पक्षद्वयं सेवध्वं यूयं तद्यथा - वक्ष्यमाणनीत्या वीजोद कोद्दिष्टकृत भोजिखान| हस्थाः यतिलिङ्गाभ्युपगमात्किल प्रत्रजिताश्वेत्येवं पक्षद्वयासेवनं भवतामिति, यदिवा -- खतोऽसदनुष्ठानमपरञ्च सदनुष्ठायिनां नि| न्दनमितिभावः ।। ११ ।। आजीविकादीनां परतीर्थिकानां दिगम्बराणां चासदाचारनिरूपणायाह - किल वयमपरिग्रहतया निकिञ्चना एवमभ्युपगमं कृत्वा यूयं भुङ्ग्ध्वं 'पात्रेषु' कांस्यपात्र्यादिषु गृहस्थभाजनेषु तत्परिभोगाश्च तत्परिग्रहोऽवश्यंभावी, तथाऽऽहारादिषु मूर्च्छा कुरुध्वमित्यतः कथं निष्परिग्रहाभ्युपगमो भवतामकलङ्क इति, अन्यच्च 'ग्लानस्य' भिक्षाटनं कर्तुमसमर्थस्य यदपरैर्गृहस्थैरभ्याहतं कार्यते भवद्भिः यतेरानयनाधिकाराभावाद् गृहस्थानयने च यो दोषसद्भावः स भवतामवश्यंभाधीति, तमेव दर्शयति — यच्च गृहस्थैजोदकाद्युपमर्देनापादितमाहारं भुक्त्वा तं ग्लानमुद्दिश्योद्देशकादि ' यत्कृतं ' यनिष्पादितं तदवश्यं युष्मत् परिभोगायावतिष्ठते । तदेवं गृहस्थगृहे तद्भाजनादिषु भुञ्जानास्तथा ग्लानस्य च गृहस्थैरेव वैयावृत्यं कारयन्तो यूयमवश्यं बीजोदकादिभोजिन उद्देशिकादिकृतभोजिनश्रेति ॥ १२ ॥ किञ्चान्यत्
लित्ता तिवाभितावेणं, उज्झिआ असमाहिया । नातिकंडूइयं सेयं, अरुयस्सावरज्झती ॥ १३ ॥ तत्तेण अणुसिट्टा ते, अपडिनेण जाणया । ण एस णियए मग्गे, असमिक्खा वती किती ॥१४॥
योऽयं षड्जीवनिकायविराधनयोद्दिष्टभोजिवेनाभिगृहीतमिध्यादृष्टितया च साधुपरिभाषणेन च तीव्रोऽभितापः — कर्मबन्धरूपस्तेनोपलिशा :- संवेष्टितास्तथा 'उज्झिय'त्ति सद्विवेकशून्या भिक्षापात्रादित्यागात्परगृह भोजित योद्देशकादिभोजिखात् तथा 'असमाहिता' शुभाध्यवसायरहिताः सत्साधुप्रद्वेषिखात्, साम्प्रतं दृष्टान्तद्वारेण पुनरपि तदोषाभिधित्सयाऽऽह - यथा ' अरुषः ' व्रणस्यातिकण्डूयितं - नखैर्विलेखनं न श्रेयो न शोभनं भवति, अपि खपराध्यति — तत्कण्डूयनं व्रणस्य दोषमावहति, एवं १ प्रसङ्गापादनं, तैः संबन्धमात्रस्य परिग्रहत्वाभ्युपगमात्, अन्यथा निर्मूच्छे धर्मोपकरणधरणापत्तेः
Jain Education International
For Private Personal Use Only
३. उपस
र्गाध्य०
उद्देशः ३
॥ ९१ ॥
www.jainelibrary.org