________________
सूत्रकृताङ्ग शीलाङ्काचार्ययष्ट
त्रियुतं
॥९२॥
सूत्रकृताङ्ग
शीलाङ्काचाययवृ
तियुतं
॥ ९३ ॥
62
भवन्तोऽपि सद्विवेकरहिताः वयं किल निष्किञ्चना इत्येवं निष्परिग्रहतया पड़जीवनिकायरक्षणभूतं भिक्षापात्रादिकमपि संयमोपकरणं परिहृतवन्तः, तदभावाच्चावश्यंभावी अशुद्धाहारपरिभोग इत्येवं द्रव्यक्षेत्र कालभावानपेक्षणेन नातिकण्डयितं श्रेयो भवतीति भावः ॥ १३ ॥ अपि च- 'तरवेन' परमार्थेन मौनीन्द्राभिप्रायेण यथावस्थितार्थप्ररूपणया ते गोशालकमतानुसारिण आजीवि कादयः बोटिका वा 'अनुशासिताः' तदभ्युपगमदोपदर्शनद्वारेण शिक्षां ग्राहिताः, केन ? - 'अप्रतिज्ञेन' नास्य मयेदमसदपि | समर्थनीयमित्येवं प्रतिज्ञा विद्यते इत्यप्रतिज्ञो-रागद्वेपरहितः साधुस्तेन 'जानता' हेयोपादेयपदार्थ परिच्छेद केनेत्यर्थः, कथमनु| शासिता इत्याह-योऽयं भवद्भिरभ्युपगतो मार्गो यथा यतीनां निष्किञ्चनतयोपकरणाभावात् परस्परत उपकार्योपकारकभाव इत्येष 'न नियतो' न निश्चितो न युक्तिसङ्गतः, अतो येयं वाग् यथा ये पिण्डपातं ग्लानस्याssनीय ददति ते गृहस्थकल्पा इत्येषा 'असमीक्ष्याभिहिता' अपर्यालोच्योक्ता, तथा 'कृतिः' करणमपि भवदीयमसमीक्षितमेव, यथा चापर्यालोचितकरणता भवति भवदनुष्ठानस्य तथा नातिकण्डूयितं श्रेय इत्यनेन प्राग्लेशतः प्रतिपादितं पुनरपि सदृष्टान्तं तदेव प्रतिपादयति ॥ १४ ॥ यथाप्रतिज्ञातमाह
एरिसा जावई एसा, अग्गवेणु व करिसिता । गिहिणो अभिहडं सेयं, भुंजिउं ण उ भिक्खुणं ॥१५॥ धम्मपन्नवणा जा सा, सारंभा ण विसोहिआ। ण उ एयाहिं दिट्ठीहिं, पुत्रमासिं पग्गप्पिअं ॥ १६ ॥ येयमीदृक्षा वाक् यथा यतिना ग्लानस्थानीय न देयमित्येषा अग्रे वेणुवद-वंशवत् कर्पिता तन्वी युक्त्यक्षमलान् दुबलेत्यर्थः, | तामेव वाचम् दर्शयति- 'गृहिणी' गृहस्थानां यदभ्याहृतं तद्यतेर्भोक्तुं 'श्रेयः' श्रेयस्करं न तु भिक्षूणां सम्बन्धीति, अग्रे तनुखं चास्या वाच एवं द्रष्टव्यं यथा गृहस्थाभ्याहृतं जीवोपमर्देन भवति यतीनां तुङ्गमादिदोषरहितमिति ॥ १५ ॥ किञ्च - धर्मस्य प्रज्ञापना- देशना यथा-यतीनां दानादिनोपकर्तव्यमित्येवम्भूता या सा 'सारम्भाणां' गृहस्थानां विशोधिका, यतयस्तु स्वानुष्ठानेनैव विशुध्यन्ति, न तु तेषां दानाधिकारोऽस्तीत्येतत् दूषयितुं प्रक्रमते - 'न तु' नैवैताभिर्यथा गृहस्थेनैव पिण्डदानादिना यते ग्लोनाद्यवस्थायामुपकर्तव्यं नतु यतिभिरेव परस्परमित्येवम्भूताभिः युष्मदीयाभिः 'दृष्टिभिः' धर्मप्रज्ञापनाभिः 'पूर्वम्' आदौ सर्वज्ञैः 'प्रकल्पितं ' प्ररूपितं प्रख्यापितमासीदिति, यतो न हि सर्वज्ञा एवम्भूतं परिफल्गुप्रायमर्थं प्ररूपयन्ति यथा - असंय - तैरेपणाद्यनुपयुक्तैर्लाना देवैयावृत्यं विधेयं न तूपयुक्तेन संयतेनेति, अपिच भवद्भिरपि ग्लानोपकारोऽभ्युपगत एव, गृहस्थप्रेरणादनुमोदनाच्च ततो भवन्तस्तत्कारिणस्तत्प्रद्वेषिणश्चेत्यापन्नमिति ।। १६ ।। अपिच
सवाहिं अणुजुत्तीहिं, अचयंता जवित्तए । ततो वायं णिराकिच्चा, ते भुज्जो पगभिया ॥ १७ ॥ रागदोसाभिभूयप्पा, मिच्छत्तेण अभिदुता । आउस्से सरणं जंति, टंकणा इव पवयं ॥ १८ ॥
ते गोशालकमतानुसारिणो दिगम्बरा वा सर्वाभिरर्थानुगताभिर्युक्तिभिः सर्वैरेव हेतुदृष्टान्तैः प्रमाणभूतैरशक्नुवन्तः खपक्ष आत्मानं 'यापयितुम्' संस्थापयितुम् 'ततः' तस्माद्युक्तिभिः प्रतिपादयितुम् सामर्थ्याभावाद् 'वादं निराकृत्य' सम्यहेतुदृष्टान्तैर्यो वादो- जल्पस्तं परित्यज्य ते तीर्थिका 'भूयः' पुनरपि वादपरित्यागे सत्यपि 'प्रगलिभता' धृष्टतां गता इदमूचुः, तद्यथा-"पुराणं मानवो धर्मः, साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः ॥ १ ॥ " अन्यच किमनया | बहिरङ्गया युक्त्यानुमानादिकयात्र धर्मपरीक्षणे विधेये कर्तव्यमस्ति यतः प्रत्यक्ष एव बहुजनसंमतत्वेन राजाद्याश्रयणाच्चायमेवास्मदभिप्रेतो धर्मः श्रेयान्नापर इत्येवं विवदन्ते, ते मिदमुत्तरम् न ह्यत्र ज्ञानादिसाररहितेन बहुनाऽपि प्रयोजनमस्तीति, उक्तं च - " ऐरंडकडरासी जहा य गोसीसचंदनपलस्स । मोल्छे न होज सरिसो कित्तियमेत्तो गणितो ॥ १ ॥ " तेहवि गणणातिरेगो जह रासी सो न चंदनसरिच्छो । तह निविण्णाणमहाजणोवि सोज्झे विसंवयति ॥ २ ॥ ऐको सचक्खुगो जह अंधलयाणं सएहिं बहुएहिं । होइ वरं दट्ठवो गहु ते बहुगा अपेच्छंता ॥ ३ ॥ एवं बहुगावि मूढा ण पमाणं जे गई ण याणंति । संसा| रगमणगुविलं णिउणस्स य बंधमोक्खस्स || ४ || " इत्यादि ।। १७ ।। अपिच-रागश्च प्रीतिलक्षणो द्वेषश्च तद्विपरीतलक्षणस्ताभ्यामभिभूत आत्मा येषां परतीर्थिकानां ते तथा, 'मिध्यात्वेन' विपर्यस्तावबोधेनातत्वाध्यवसायरूपेण 'अभिदुता' व्याप्ताः सद्युक्तिभिर्वादं कर्तुमसमर्थाः क्रोधानुगा 'आक्रोश' असभ्यवचन रूपांस्तथा दण्डमुष्टयादिभिश्च हननव्यापारं 'यान्ति' आश्रयन्ते । अस्मिन्नेवार्थे प्रतिपाद्ये दृष्टान्तमाह-यथा 'टङ्कणा' म्लेच्छविशेषा दुर्जया यदा परेण बलिना खानीकादिनाऽभिदू| यन्ते तदा ते नानाविधैरप्यायुधैर्योद्धुमसमर्थाः सन्तः पर्वतं शरणमाश्रयन्ति, एवं तेऽपि कुतीर्थिका वादपराजिताः क्रोधाद्युपहत
Jain Education International
१ एरण्डकाष्ठराशिर्यथा च गोशीर्ष चन्दनपलस्य । मूल्येन न भवेत् सदृशः कियन्मात्रो गण्यमानः ॥ १ ॥ २ तथापि गणनातिरेको यथा राशिः स न चन्दनसदृशः । तथा निर्विज्ञानमहाजनोऽपि मूल्ये विसंवदते ॥ २ ॥ ३ एकः सचक्षुष्को यथा अन्धानां शतैर्बहुभिर्भवति वरं द्रष्टव्यो नैव बहुका अप्रेक्षमाणाः ॥ ३ ॥ ८ एवं बहुका अपि मूढ़ा न प्रमाणं ये गतिं न जानन्ति । संसारगमनवकां निपुणयोर्वन्धमोक्ष योध ॥ ४ ॥
For Private Personal Use Only
३ उपस
र्गाध्य०
उद्देशः ३
॥ ९२ ॥
३ उपस गोध्य०
उद्देशः ३
.1193 11
www.jainelibrary.org