________________
सूत्रकृताङ्गं
शीलाङ्काचाय
तियुर्त
॥ ९४ ॥
63
दृष्टय आक्रोशादिकं शरणमाश्रयन्ते, न च ते इदमाकलय्य प्रत्याक्रोष्टव्याः, तद्यथा - " अको सहणणमारणधम्म भंसाण बालसुलभाणं । लाभं मन्नइ धीरो जहुत्तराणं अभावमि ।। १ ।। " ।। १८ ।। किञ्चान्यत्
बहुगुणप्पगप्पा, कुजा अत्तसमाहिए । जेणऽन्ने णो विरुज्झेज्जा, तेण तं तं समायरे ॥ १९ ॥ इमं च धम्ममादाय, कासवेण पवेइयं । कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिए ॥ २० ॥ संखाय पेसलं धम्मं,, दिट्टिमं परिनिव्वुडे । उवसग्गे नियामित्ता, आमोक्खाए परिवएजाऽसि ॥ २१ ॥ तिमि । इति ततीय अज्झयणस्स तईओ उद्देसो समत्तो ॥ ( गाथाग्रं० २३४ )
'बहवो गुणाः स्वपश्वसिद्धिपरदोपोद्भावनादयो माध्यस्थ्यादयो वा प्रकल्पन्ते - प्रादुर्भवन्त्यात्मनि येष्वनुष्ठानेषु तानि बहु| गुणप्रकल्पानि - प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनादीनि माध्यस्थ्यवचनप्रकाराणि वा अनुष्ठानानि साधुर्वादकाले अन्यदा वा 'कुर्यात्' विदध्यात् स एव विशिष्यते - आत्मनः 'समाधिः' चित्तस्वास्थ्यं यस्य स भवत्यात्मसमाधिकः, एतदुक्तं भवतियेन येनोपन्यस्तेन हेतुदृष्टान्तादिना आत्मसमाधिः- स्वपक्षसिद्धिलक्षणो माध्यस्थ्यवचनादिना वा परानुपघातलक्षणः समुत्पद्यते तत् तत् कुर्यादिति, तथा येनानुष्ठितेन वा भाषितेन वा अन्यतीर्थिको धर्मश्रवणादौ वाऽन्यः प्रवृत्तो 'न विरुध्येत' न विरोधं १ आकोश हननमरणधर्मभ्रंशानां बालसुलभानां ( मध्ये ) । लाभं मन्यते धीरो यथोत्तराणामभावे ॥ १ ॥
"
| गच्छेत्, तेन पराविरोधकारणेन तत्तदविरुद्धमनुष्ठानं वचनं वा 'समाचरेत्' कुर्यादिति ।। १९ ।। तदेवं परमतं निराकृत्योपसं| हारद्वारेण स्वमतस्थापनायाह - 'इम' मिति वक्ष्यमाणं दुर्गतिधारणाद्धर्मम् 'आदाय' उपादाय गृहीला 'काश्यपेन' श्रीमन्म| हावीरवर्द्धमानखामिनोत्पन्नदिव्यज्ञानेन सदेवमनुजायां पर्पदि प्रकर्षेण - यथावस्थितार्थनिरूपणद्वारेण वेदितं प्रवेदितं चशब्दा| त्परमतं च निराकृत्य, भिक्षणशीलो भिक्षुः 'ग्लानस्य' अपटोरपरस्य भिक्षोर्वैयावृत्यादिकं कुर्यात् कथं कुर्याद् ?, एतदेव विशि | नष्टि - खतोऽप्यग्लानतया यथाशक्ति 'समाहित' समाधिं प्राप्त इति इदमुक्तं भवति यथा यथाऽऽत्मनः समाधिरुत्पद्यते न तत्करणेन अपाटवसंभवात् योगा विषीदन्तीति, तथा यथा तस्य च ग्लानस्य समाधिरुत्पद्यते तथा पिण्डपातादिकं विधेयमिति ॥ २० ॥ किं कृत्वैतद्विधेयमिति दर्शयितुमाह - 'संखाये' त्यादि, संख्याय - ज्ञात्वा कं ?- 'धर्म' सर्वज्ञप्रणीतं श्रुतचारित्राख्यभेदभिन्नं 'पेशलम्' इति सुश्लिष्टं प्राणिनामहिंसादिप्रवृत्त्या प्रीतिकारणं, किम्भूतमिति दर्शयति-दर्शनं दृष्टिः सद्भूतपदार्थगता | सम्यग्दर्शनमित्यर्थः सा विद्यते यस्यासौ दृष्टिमान् यथावस्थित पदार्थ परिच्छेदवानित्यर्थः, तथा 'परिनिर्वृतो' रागद्वेष विरहाच्छान्तीभूतस्तदेवं धर्मं पेशलं परिसंख्याय दृष्टिमान् परिनिर्वृत उपसर्गाननुकूल प्रतिकूलान्नियम्य - संयम्य सोढा, नोपसर्गैरुपसर्गितोऽ| समञ्जसं विदध्यादित्येवम् 'आमोक्षाय' अशेषकर्मक्षयप्राप्तिं यावत् परि - समन्तात् व्रजेत् – संयमानुष्ठानोद्युक्तो भवेत् परित्रजेदू, इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ २१ ॥ उपसर्गपरिज्ञायास्तृतीयोद्देशकः समाप्तः ॥ ३ ॥
PIKLA
अथ तृतीयोपसर्गाध्ययने चतुर्थोद्देशकस्य प्रारम्भः ॥
---
उक्तस्तृतीयोदेशकः, साम्प्रतं चतुर्थः समारभ्यते - अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके अनुकूल प्रतिकूलोपसर्गाः प्रतिपादिताः, तैश्च कदाचित्साधुः शीलात् प्रन्यान्येत - तस्य च स्खलितशीलस्य प्रज्ञापनाऽनेन प्रतिपाद्यते इति, अनेन सम्बन्धेनायातस्यास्योदेशकस्यादिमं सूत्रम् -
आहंसु महापुरिसा, पुत्रिं तत्ततवोधणा । उदएण सिद्धिमावन्ना, तत्थ मंदो विसीयति ॥ १ ॥ अभुंजिया नमी विदेही, रामगुत्ते य भुंजिआ । बाहुए उदगं भोच्चा, तहा नारायणे रिसी ॥ २ ॥
Jain Education International
केचन अविदितपरमार्था 'आहुः' उक्तवंतः, किं तदित्याह - यथा 'महापुरुषाः ' प्रधानपुरुषा वल्कलचीरितारागणर्षिप्रभृतयः 'पूर्व' पूर्वस्मिन् काले तप्तम् - अनुष्ठितं तप एव धनं येषां ते तप्ततपोधनाः पञ्चाग्यादितपोविशेषेण निष्टतदेहाः, त एवम्भूताः शीतोदकपरिभोगेन, उपलक्षणार्थत्वात् कन्दमूलफलाद्युपभोगेन च 'सिद्धिमापन्नाः' सिद्धिं गताः, 'तत्र' एवम्भूतार्थ| समाकर्णने तदर्थसद्भावावेशात् 'मन्दः' अज्ञोऽस्नानादित्याजितः प्रासुकोदकपरिभोगभनः संयमानुष्ठाने विषीदति, यदिवा तत्रैव शीतोदकपरिभोगे विषीदति लगति निमज्जतीतियावत् न त्वसौ वराक एवमवधारयति, यथा-तेषां तापसादिवतानुष्ठायिनां
For Private Personal Use Only
३ उपस गध्य०
उद्देशः ३
1138 11
www.jainelibrary.org