________________
सूत्रकृताङ्गं शीलाङ्का'वार्गीय - चितं
॥ ९५ ॥
सूत्रकृताङ्ग शीलाडाचायपत्र निपुर्त
॥९६॥
64
| कुतश्चिजातिस्मरणादिप्रत्ययादाविर्भूतसम्यग्दर्शनानां मौनीन्द्र भावसंयमप्रतिपच्या अपगतज्ञानावरणीयादिकर्मणां भरतादी| नामिव मोक्षावाप्तिः न तु शीतोदकपरिभोगादिति ॥ १ ॥ किञ्चान्यत् - केचन कुतीर्थिकाः साधुप्रतारणार्थमेवमूचुः, यदिवा स्वत्रयः शीतलविहारिण एतद् वक्ष्यमाणमुक्तवन्तः, तद्यथा-नमीराजा विदेहो नाम जनपदस्तत्र भवा वैदेहाः - तन्निवासिनो | लोकास्तेऽस्य सन्तीति वैदेही, स एवम्भूतो नमी राजा अशनादिकमभुक्त्वा सिद्धिमुपगतः तथा रामगुप्तश्च राजर्षिराहारादिकं 'भुक्त्वैव' भुञ्जान एव सिद्धिं प्राप्त इति, तथा बाहुकः शीतोदकादिपरिभोगं कृत्वा तथा नारायणो नाम महर्षिः परिणतोदकादिपरिभोगात्सिद्ध इति ॥ २ ॥ अपिच --
आसिले देविले चेव, दीवायण महारिसी । पारासरे दगं भोच्चा, वीयाणि हरियाणि य ॥ ३ ॥ एते पुत्रं महापुरिसा, आहिता इह संमता । भोच्चा बीओदगं सिद्धा, इति मेयमणुस्सु ॥ ४ ॥ आसिलो नाम महर्षिस्तथा देविलो द्वैपायनश्च तथा पराशराख्य इत्येवमादयः शीतोदकभी जहरितादिपरिभोगादेव सिद्धा इति श्रूयते ॥ ३ ॥ एतदेव दर्शयितुमाह-एते पूर्वोक्ता नम्यादयो महर्षयः 'पूर्वमिति पूर्वस्मिन्काले त्रेताद्वापरादौ 'महापुरुषा' इति प्रधानपुरुषा आ - समन्तात् ख्याताः आख्याताः - प्रख्याता राजर्षित्वेन प्रसिद्धिमुपगता इहापि आर्हते प्रवचने ऋषिभाषितादौ केचन 'सम्मता' अभिनेता इत्येवं कुतीर्थिकाः स्वयूथ्या वा प्रोचुः, तद्यथा - एते सर्वेऽपि बीजोदकादिकं भुक्त्वा | सिद्धा इत्येतन्मया भारतादौ पुराणे श्रुतम् ॥ ४ ॥ एतदुपसंहारद्वारेण परिहरन्नाह
1
तत्थ मंदा विसीअंति, वाहच्छिन्ना व गद्दभा । पिट्ठतो परिसप्पति, पिट्ठसप्पी य संभमे ॥ ५ ॥ इहमेगे उभासंति, सातं सातेण विज्जती । जे तत्थ आरियं मग्गं, परमं च समाहिए (यं ॥ ६ ॥ ‘तत्र' तस्मिन् कुश्रुत्युपसर्गोदये 'मन्दा' अशा नानाविधोपायसाध्यं सिद्धिगमनमवधार्य विषीदन्ति संयमानुष्ठाने, न पुनरेतद्विदन्त्यज्ञाः, तद्यथा - येषां सिद्धिगमनमभूत् तेषां कुतश्चिन्निमित्तात् जातजातिस्मरणादिप्रत्ययानामवाप्तसम्यग्ज्ञानचारित्राणा| मेव वल्कलचीरिप्रभृतीनामिव सिद्धिगमनमभूत्, न पुनः कदाचिदपि सर्वविरतिपरिणामभावलिङ्गमन्तरेण शीतोदकवीजाद्युपभोगेन जीवोपमर्दप्रायेण कर्मक्षयोऽवाप्यते, विषीदने दृष्टान्तमाह- वहनं वाहो - भारोद्वहनं तेन छिन्नाः -कर्पिताखुटिता रासभा इव विपीदन्ति, यथा - रासभा गमनपथ एव प्रोज्झितभारा निपतन्ति, एवं तेऽपि प्रोस्य संयमभारं शीतलविहारिणो भवन्ति, दृष्टान्तान्तरमाह-यथा 'पृष्ठसर्पिणो' भग्नगतयोऽयादिसम्भ्रमे सत्युद्भ्रान्तनयनाः समाकुलाः प्रनष्टजनस्य 'पृष्ठतः ' पश्चात्प रिसर्पन्ति नाग्रगामिनो भवन्ति, अपि तु तत्रैवाम्यादिसम्भ्रमे विनश्यन्ति, एवं तेऽपि शीतलविहारिणो मोक्षं प्रति प्रवृत्ता अपि तु न मोक्षगतयो भवन्ति अपि तु तस्मिन्नेव संसारे अनन्तमपि कालं यावदासत इति || ५ || मतान्तरं निराकर्तुं पूर्वपक्षयितुमाह'इहे 'ति मोक्षगमन विचारप्रस्तावे 'एके' शाक्यादयः खयूथ्या वा लोचादिनोपतप्ताः, तुशब्दः पूर्वस्मात् शीतोदकादिपरिभो गाद्विशेषमाह, 'भाषन्ते' बुवते मन्यन्ते वा कचित्पाठः, किं तदित्याह - 'सात' सुखं 'सातेन' सुखेनैव 'विद्यते' भवतीति, तथा च वक्तारो भवन्ति - "सर्वाणि सत्त्वानि सुखे रतानि सर्वाणि दुःखाच्च समुद्विजन्ते । तस्मात्सुखार्थी सुखमेव दद्यात् सु| खप्रदाता लभते सुखानि ॥ १ ॥ " युक्तिरप्येवमेत्र स्थिता, यतः कारणानुरूपं कार्यमुत्पद्यते, तद्यथा - शालिबीजाच्छाल्यङ्कुरो जायते न यवाङ्कुर इत्येवमित्यात् सुखान्मुक्तिसुखमुपजायते, न तु लोचादिरूपात् दुःखादिति, तथा ह्यागमोऽप्येवमेव व्यवस्थितः - " मणुष्णं भोयणं भोच्चा, मणुण्णं सगणासणं । मणुण्णंसि अगारंसि, मणुष्णं झायए मुणी || १ ||" तथा "मृद्धी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापरा । द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्रान्ते शाक्यपुत्रेण दृष्टः ॥ १ ॥ " इत्यतो मनोज्ञाहारविहारादेवि त्तस्वास्थ्यं ततः समाधिरुत्पद्यते समाधेश्च मुक्त्यवाप्तिः, अतः स्थितमेतद्- सुखेनैव सुखावाप्तिः न पुनः कदा चनापि लोचादिना कायक्लेशेन सुखावाप्तिरिति स्थितं, इत्येवं व्यामूढमतयो ये केचन शाक्यादयः 'तत्र' तस्मिन्मोक्षविचार - प्रस्तावे समुपस्थिते आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यो मार्गो जैनेन्द्रशासनप्रतिपादितो मोक्षमार्गस्तं ये परिहरन्ति तथा च'परमं च समाधिं' ज्ञानदर्शनचारित्रात्मकं ये त्यजन्ति तेऽज्ञाः संसारान्तर्वर्तिनः सदा भवन्ति, तथाहि — यत्तैरभिहितंकारणानुरूपं कार्यमिति, तन्नायमेकान्तो, यतः शृङ्गाच्छरो जायते गोमयाद्वृश्चिको गोलोमाविलोमादिभ्यो दूर्वेति, यदपि मनोज्ञाहारादिकमुपन्यस्तं सुखकारणत्वेन तदपि विशुचिकादिसंभवाव्यभिचारीति, अपिच - इदं वैषयिकं सुखं दुःखप्रतीकारहेतुत्वात् सुखाभासतया सुखमेव न भवति, तदुक्तम् - " दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः । उत्कीर्णवर्णपदपतिरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात् ॥ १ ॥ " इति, कुतस्तत्परमानन्दरूपस्यात्यन्तिकै कान्तिकस्य मोक्षसुखस्य कारणं भवति यदपि च लोचभूशयन भिक्षाटनपरपरिभवक्षुत्पिपासादंशमशकादिकं दुःखकारणत्वेन भवतो१ मनोज्ञं भोजनं शुक्ला मनोज्ञ दायनासने । मनोज्ञेऽगारे मनोक्षं ध्यायेन्मुनिः ॥ १ ॥
Jain Education International
For Private Personal Use Only
३ उपसर्गाध्य
उद्देश: ४
॥ ९५ ॥
३ उपस
गोध्य०
उद्देशः ४
॥ ९६ ॥
www.jainelibrary.org