Book Title: Acharangasutram Sutrakrutangsutram Cha
Author(s): Sagaranandsuri, Anandsagarsuri, Jambuvijay
Publisher: Motilal Banarasidas
View full book text ________________
84
सूत्रकृताङ्गं
छकाकृतिषु तथा पाचयन्ति । तथा बालहत्याह-कदम्बपुष्पाकृतिता नरकपाला वैतरण
हृदयं पाटयन्ति तथा तद्गतं 'कालेज ति हृदयान्तर्वति मांसखण्डं तथा 'फुप्फुसे ति उदरान्तर्वीन्यचविशेषरूपाणि तथा ४५नरकषिशीलाङ्का- 'वल्कलान्' वर्धान् आकर्षयन्ति, नानाविधैरुपायैरशरणानां नारकाणां तीवां वेदनामुत्पादयन्तीति । अपिच तथा अन्वर्थाभि-18 | भक्ष्यध्य. चार्याय
धाना रौद्राख्या नरकपाला रौद्रकर्माणो नानाविधेष्वसिशक्त्यादिषु प्रहरणेषु नारकानशुभकर्मोदयवर्तिनः प्रोतयन्तीति । तथा- उद्देशः१ त्तियुत
उपरुद्राख्याः परमाधार्मिका नारकाणामङ्गप्रत्यङ्गानि शिरोबाहरुकादीनि तथा करचरणांश्च 'भञ्जन्ति' मोटयन्ति पापकर्माणः ॥१२५॥
कल्पनीभिः 'कल्पयन्ति' पाटयन्ति, तन्नास्त्येव दुःखोत्पादनं यत्चे न कुर्वन्तीति । अपिच-तथा कालाख्या नरकपालासुरा 'मीरासु' दीर्घचुल्लीषु तथा शुण्ठकेषु तथा कन्दुकेषु प्रचण्डकेषु तीव्रतापेषु नारकान् पचन्ति, तथा 'कुम्भीषु' उष्ट्रिकाकृतिषु तथा 'लोहिषु' आयसकवल्लिषु नारकान् व्यवस्थाप्य जीवन्मत्स्यानिव पचन्ति । अपिच-महाकालाख्या नरकपालाः पापकर्मनिरता नारकान्नानाविधैरुपायैः कदर्थयन्ति, तद्यथा-'काकिणीमांसकानि' श्लक्ष्णमांसखण्डानि 'कल्पयन्ति' नारकान् कुर्वन्ति, तथा 'सीहपुच्छाणि'त्ति पृष्ठीवर्धास्तांश्छिन्दन्ति, तथा ये प्राक् मासाशिनो नारका आसन् तान् स्वमांसानि खादयन्तीति । अपिचअसिनामानो नरकपाला अशुभकर्मोदयवर्तिनो नारकानेवं कदर्थयन्ति, तद्यथा-हस्तपादोरुबाहुशिरःपार्थादीन्यङ्गप्रत्यङ्गानि छिन्दन्ति 'प्रकामम्' अत्यर्थ खण्डयन्ति, तुशब्दोऽपरदुःखोत्पादनविशेषणार्थ इति । तथा-असिप्रधानाः पत्रधनुर्नामानो
13॥१२५।। नरकपाला असिपत्रवनं बीभत्सं कृता तत्र छायार्थिनः समागतान् नारकान् वराकान् अस्यादिभिः पाटयन्ति, तथा कर्णौष्ठनासिकाकरचरणदशनस्तनस्फैिगूरुवाहूनां छेदनभेदनशातनादीनि विकुर्वितवाताहतचलिततरुपातितासिपत्रादिना कुर्वन्तीति, तदु
१किंच प्र. । २ कण्ठोष्ठ० प्र० । ३ पतौ स्फिजौ कटि प्रोयौ हैमः । क्तम्-"छिन्नपादभुजस्कन्धाश्छिन्नकोष्ठनासिकाः । भिन्नतालशिरोमेण्टा, भिन्नाक्षिहृदयोदराः ॥ १ ॥" किश्चान्यत्कुम्भिनामानो नरकपाला नारकानरकेषु व्यवस्थितान् निम्नन्ति, तथा पाचयन्ति, केति दर्शयति-'कुम्भीषु' उष्ट्रिकाकृतिषु तथा 'पचनेषु' कडिल्लकाकृतिषु तथा 'लौहीषु' आयसभाजनविशेषेषु कन्दुलोहिकुम्भीषु कन्दुकानामिव अयोमयीषु कुम्भीषु| कोष्ठिकाकृतिषु एवमादिभाजनविशेषेषु पाचयन्ति । तथा-वालुकाख्याः परमाधार्मिका नारकानत्राणांस्तप्तवालुकाभृतभाजने चणकानिव तडतडित्ति स्फुटतः 'भजंति' भृजन्ति-पचन्ति, क? इत्याह-कदम्बपुष्पाकृतिवालुका कदम्बवालुका तस्याः पृष्ठम्उपरितलं तसिन् पातयिखा अम्बरतले च लोलयन्तीति । किश्चान्यत्-वैतरणीनामानो नरकपाला वैतरणी नदी विकुर्वन्ति,
सा च पूयरुधिरकेशास्थिवाहिनी महाभयानका कलकलायमानजलश्रोता तस्यां चक्षारोष्णजलायामतीव बीभत्सदर्शनायां नारकान् 18 प्रवाहयन्तीति ॥ तथा खरखराख्यास्तु परमाधार्मिका नारकानेवं कदर्थयन्ति, तद्यथा-क्रकचपातैर्मध्यं मध्येन स्तम्भमिव 18 सूत्रपातानुसारेण कल्पयन्ति-पाटयन्ति, तथा परशुभिश्च तानेव नारकान् 'परस्परम्' अन्योऽन्यं तक्षयन्ति सर्वशो देहावयवाप
नयनेन तनून् कारयन्ति, तथा 'शामली' वज्रमयभीषणकण्टकाकुला खरखरै आरटतो नारकानारोहयन्ति पुनरारूढानाकर्षयन्तीति । अपिच-महाघोषाभिधाना भवनपत्यसुराधमविशेषाः परमाधार्मिका व्याधा इव परपीडोत्पादनेनैवातुलं हर्षमुद्वहन्तः क्रीडया नानाविधैरुपायै रकान् कदर्थयन्ति, तांश्च भीतान् प्रपलायमानान् मृगानिव 'समन्ततः सामस्त्येन 'तत्रैव' पीडो. त्पादनस्थाने 'निरुम्भन्ति' प्रतिबन्धन्ति 'पशून्' बस्तादिकान् यथा पशुवधे समुपस्थिते नश्यतस्तद्वधकाः प्रतिवनन्त्येवं तत्र
नरकावासे नारकानिति ॥ गतो नामनिष्पमनिक्षेपः, अधुना सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्सूत्रकृताङ्गं पुच्छिस्सऽहं केवलियं महेसिं, कहं भितावा णरगा पुरत्था ।
५नरकविशीलाङ्काअजाणओ मे मुणि ब्रूहि जाणं, कहिं नु बाला नरयं उविति ? ॥१॥
भत्यध्य. चार्यायवृ
उद्देशः १ एवं मए पुढे महाणुभावे, इणमोऽब्बवी कासवे आसुपन्ने ।
पवेदइस्सं दुहमदग्गं, आदीणियं दुक्कडियं पुरत्था ॥२॥ ॥१२६॥
जम्बूस्वामिना सुधर्मखामी पृष्टः, तद्यथा-भगवन् ! किंभूता नरकाः ? कैर्वा कर्मभिरसुमतां तेषूत्पादः कीरश्यो वा तत्रत्या वेदना ? इत्येवं पृष्टः सुधर्मस्वाम्याह-यदेतद्भवताऽहं पृष्टस्तदेतद् 'केवलिनम् अतीतानागतवर्तमानसूक्ष्मव्यवहितपदार्थवेदिनं 'महर्षिम्' उग्रतपवरणकारिणमनुकूलप्रतिकूलोपसर्गसहिष्णुं श्रीमन्महावीरवर्धमानखामिनं पुरस्तात्पूर्व पृष्टवानहममि, यथा | 'कथं किम्भूता अभितापान्विता 'नरका' नरकावासा भवन्तीत्येतदजानतो 'मे' मम हे मुने 'जानन्' सर्वमेव केवलज्ञानेनावगच्छन् 'ब्रूहि कथय, 'कथं नु' केन प्रकारेण किमनुष्ठायिनो नुरिति वितर्के 'बाला' अक्षा हिताहितप्राप्तिपरिहारविवेकरहितास्तेषु नरकेधूप-सामीप्येन तद्योग्यकर्मोपादानतया 'यान्ति' गच्छन्ति किम्भूताच तत्र गताना वेदना प्रादुष्प्यन्तीत्येतच्चाई 'पृष्टवानिति ॥१॥ तथा 'एवम् अनन्तरोक्तं मया विनेयेनोपगम्य पृष्टो महाश्चतुस्त्रिंशदतिशयरूपोऽनुभावो-माहात्म्यं यस्य
॥१२६॥ स तथा, प्रश्नोत्तरकालं च 'इदं वक्ष्यमाणं, मो इति वाक्यालङ्कारे, केवलालोकेन परिज्ञाय मत्प्रश्ननिर्वचनम् 'अब्रवीत् उक्त१.नुभागो.प्र.।
Relesedeseseseeeeeeeeeeeeeeeeeeeeeeel
त्तियुतं
हा सास्तेषु नरकेधूप सामीप्येच तपश्वम् अनन्तरोक्कं समय क्यिालङ्कार, केवलाली
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764