Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
Catalog link: https://jainqq.org/explore/521007/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः ७ । char ड S COMNEO NXRRIA 09 क DEHRADUN VaiN शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये ॥ कल्पतरुनन्दनवनसत्कोऽयं नन्दतात् सुचिरम् ॥ सप्तमी शाखा (उत्तरायणम्) वि.सं. २०५८ सङ्कलनम् कीर्तित्रयी Page #2 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः ७ VE ROWSIR S9 ai शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये ॥ कल्पतरुनन्दनवनसत्कोऽयं नन्दतात् सुचिरम् ॥ सप्तमी शाखा (दक्षिणायनम्) वि.सं. २०५८ सङ्कलनम् कीर्तित्रयी Page #3 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः ॥ सप्तमी शाखा ।। (संस्कृतभाषामयं अयन-पत्रम् ।) सङ्कलनम् : कोर्तित्रयी ॥ सर्वेऽधिकारा: स्वायत्ताः ॥ प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥ वि. सं. २०५८. ई.सं. २००१ । मूल्यम् - संस्कृतसाहित्यरुचिः ॥ प्राप्तिस्थानम् : श्रीविजयनेमिसूरीश्वरजी स्वाध्यायमंदिर १२, भगतबाग, शेठ आणंदजी कल्याणजी पेढी समीप, - पालडी, अमदावाद - ३८० ००७ सम्पर्कसूत्रम् : "विजयशीलचन्द्रसूरि" Co. अतुल एच्. कापडिया, ए/९, जागृति पलेंट्स, महावीर टावर पाछळ, पालडी, अमदावाद - ३८० ००७. फोन : 079-5588879 मुद्रणम् : सचिन एन्टरप्राइझ, अमदावाद । फोन : 079-7497047 मोबाईल : 9825011414 Page #4 -------------------------------------------------------------------------- ________________ प्रास्ताविकम् ॥ प्रियवाचक ! नन्दनवनकल्पतरोः षष्ट्याः शाखाया अनु अचिरादेव सप्तमी शाखां प्रकाशयन्तो वयं विशिष्टानन्दानुभूति संवेदयामः । किन्तु किंमूलोऽयमानन्द इति यदा विचार्यते तदा स्फुरतीदम् - ___ यदा नन्दनवनकल्पतरुः प्रारब्धस्ततो वर्षद्रयपूर्वत एव पूज्यगुरुभगवन्त आचार्यवर्यश्रीविजयशीलचन्द्रसूरीश्वरा अस्माकं संस्कृतसामयिकस्य लेखन-प्रकाशनार्थं सततं प्रेरयन्ति स्मैव । किन्तु कारणद्वयेनाव नोत्सहामहे स्म वयम् । प्रथमं तावत् स्वसामर्थ्य एवाऽश्रद्धालवो वयमास्म, द्वितीयं तु यदि कथमपि धैर्यमालम्ब्य प्रारभेमहि तदा कीदृशं प्रतिभावं प्राप्स्यामः? इति शङ्काकण्टकोऽपि हृदयं विध्यति स्म। __ परन्त्वद्येदमनुभवामो यद् “वयं हि लोचनवन्तो गुरुजनास्तु दृष्टिमन्तो भवन्ति तथा वयं हि विकल्पप्रधानमानसा गुरवस्तु विचारयन्ति सङ्कल्पयन्ति च । तां दृष्टिं तांश्च सङ्कल्पान् यदि नाम वयं श्रद्दध्यामस्तदाऽस्मासु कार्यकरणसामर्थ्य जागृतं भवत्येव” इति। अथैकदा मिथो वार्तालापेऽस्माभिरत्र कार्य प्राप्तयोः प्रोत्साहन-प्रतिभावयोरानन्दं व्यक्तीकुर्वदिरेवं भणितं – “एतावती कल्पना तु नाऽऽसीद् "इति । तदा सहसैव गुरुभगवद्भिः पृष्टम् “कस्य नाऽऽसीद् ?” इति । तदा “अस्माकं नाऽऽसीद्” इति स्पष्टीकृतमस्माभिः। एवं च नो मर्यादां ज्ञातवन्तो वयम् । अत्रैव सम्बन्धे एकां सूक्तिं स्मरामः “यो व्यक्तेऽङ्गलिनिर्देशं कुर्यात् तथाऽव्यक्ते हस्तं गृहीत्वा सञ्चालयेत् स एव वस्तुतो मार्गदर्शको गुरुश्चाऽपि स एव” इति । एतादृशां गुरुभगवतां कृपाकटाक्षरेवेयती भुवं प्राप्ता वयम् । अत एतन्मूलक एवाऽयमानन्दः । तेषां कृपादृष्ट्या सदैव वयं प्लाविता भवेम इत्यभ्यर्थयामः। कार्तिकशुक्लाअष्टमी, २०५८ कीर्तित्रयी ॐकारसूरि-आराधनाभवनम् सूरत Page #5 -------------------------------------------------------------------------- ________________ ६ अनुक्रमः । कृतिः कर्ता पृष्टम् थीजिनपति-स्तुतिः स्व. प्रवर्तक-मुनियशोविजयः युगलोचन जिनवन्दनम् । ढा आचायरामाकर शासनसम्राडाचार्यश्रीमद्धिजयनेमिसूरीश्वराणी । आ.विजयशीलचन्द्रसूरिः स्तात्रम् औदासीन्याष्टकम स्व. प्रवर्तक मुनियशोविजयः । काव्यनिक आज आरसा गुणवीजाधानसूत्रम् गा धर्मपरिभावनासूत्रम् मुनिः भुवनचन्द्रः 'चिन्मयः' मुनिः भुवनचन्द्रः ‘चिन्मयः' विवेकानन्दः - यथा मया दृष्टः एम. के. नझुण्डस्वामी । Page #6 -------------------------------------------------------------------------- ________________ ४ कर्ता पृष्टम् [ অর্ধেg एस् जगन्नाथः डॉ.आचार्यरामकिशोरमिश्रः किशोरगीतम् । कर्तुमिच्छसि नाम लोक । । चरित्र | श्रीमद्विजयामृतसूरीश्वराणां - पुण्यजीवनलेश आचार्यविजयहेमचन्द्रसूरिः | आस्थाल्डः चिन्तन धारा पारामुनिरनकीर्तिविजयः साक्षिभाव मुनिधर्मकीर्तिविजयः पत्रम् मुनिधमकीर्तिविजयः Page #7 -------------------------------------------------------------------------- ________________ कृति: अनुवाद: शोधलेख: मुक्तकाव्यम् काव्यानुवाछ कथा! ६ अयोघन-उपासना मित्राय छरिकायाः प्रतिदानम प्रश्नोत्तरम् कथायां बोधः १८ S अनुक्रमः ● पृष्ठम् कर्ता मुनिधर्मकीर्तिविजय: डॉ. आचार्य रामकिशोरमिश्रः !!!! मुनिरत्नकीर्तिविजय: विजयशीलचन्द्रसूरि विजयशीलचन्द्रसूरिः सा. युगन्धरा श्री: विजयशीलचन्द्रसूरिः ७८ ७९ ८० ८९ ८२ ८४ Page #8 -------------------------------------------------------------------------- ________________ LU कतिः कर्ता पृष्टम - सूफी कथा मुनिरनकोतिविजयः । वणिजः शाट्यम सभाषितकथा मुनिकल्याणकीर्तिविजयः एम. के. नझुण्डस्वामी एको निबन्धः मुनिरत्रकीर्तिविजयः रङमञ्चः स्वामिश्रीबह्मानन्देन्द्रसरस्वती अहो! दुर्धर्षा दैवलीला मी-नर्म ONGar Page #9 -------------------------------------------------------------------------- ________________ पत्रम्..... देवनारायण शर्मा श्यामाचरणविद्यापीठसंस्कृतविद्यालयः गुरुधाम पो. बौसी जि. बांका (बिहार) ८१३१०४ मान्यमहोदयाः ! भक्तिप्रवणप्रणामाः। अयनपत्रमिदं मन्ये शरदभ्रवृन्दमिव द्रवीभूयैकत्र निस्यन्दितं, मुनिमनोभिरिव, सज्जनगुणैरिव, हरिणलोचनप्रभाभिरिव, मुक्ताफलांशुभिरिव निर्मितं काव्यम् । नन्दनवनकल्पतरुः । Page #10 -------------------------------------------------------------------------- ________________ पत्रम्.... डॉ. सच्चिदानंद पाठक निर्देशक उत्तर-प्रदेश-संस्कृत-संस्थानम् आदरणीय महोदयाः ! भवत्प्रेषितं नन्दनवनकल्पतरुरिति नामकं अयनपत्रं प्राप्तम् । अत्र संगुफितं गलज्जलिकाकथा-नाट्यवस्त्वादिकं दर्श दर्शं पाठं पाठं च नितरां मनो मोमुद्यते । एतदर्थं साधुवादं वितरामि। आशास्महे यद् भवतां स्नेहसौजन्यसूचकम् अयनपत्रमवश्यं प्रेषिष्यते । Page #11 -------------------------------------------------------------------------- ________________ पत्रम्..... अरैयर श्रीराम शर्मा मेलुकोटे नन्दनवनकल्पतरोः षष्ठी शाखा वरिष्ठचित्रकथा । लब्धा मयेति तोषात् कीर्तित्रय्याः करोमि संश्लाघाम् ।।१ उपकाराय च भवेत् असंस्कृतविदां नृणाम् । श्रद्धया सुगमाभ्यासात् नन्दनवनकल्पतरुः ॥२ सम्पादका लेखकश्च स्वार्थाय न लिखन्ति च। अन्तर्गुडायितं वाक्यं बहिर्वक्त्राद् विनिस्सृतम् ॥३ शुद्धप्राकृत-शुद्धसंस्कृतगवी: दोग्धुं न वा रक्षितुं ये नेच्छन्ति किमेभिरन्तकसमैः वाङ्मूलनाशोत्सुकैः । ये वै नन्दनकल्पवृक्षसमितं पश्यन्ति भोः संस्कृतं । ते वै नन्दननन्दना भुवमिमां कुर्वन्ति भोः सत्फलाम् ।।४ मम बाला: नन्दनवनकल्पतरुं प्राप्यं चित्रसन्तुष्टाः । अक्षरपठनात् भाषां क्रमशो जानन्ति सुलभरीत्यैवम् ।।५ भारतमपि विश्वमिदं क्रन्दनवनवत् कदापि मा मा भूत् । नन्दनवनवत् भवतात् दैवी सम्पदमवाप्य सर्वजनैः ॥५ युद्धं युद्धं युद्धं मानवसमाजसौख्य-सुविरुद्धम् । नश्यतु नश्यतु नश्यतु पश्यतु लोकः सुखाय सौहार्दम् ॥६ मुनिजन तप:प्रभावैः कविजनसूक्तिप्रकाशसद्भावैः । विश्वं पूर्णं भवतात् कदापि मा मा बमास्त्रभाशश्ब्दैः ॥७ Page #12 -------------------------------------------------------------------------- ________________ पत्राम्..... एच्. वि. नागराजराव् clo, 9th cross, Navilu Raste Kuvempunagar, Mysore-570023 नन्दनवनकल्पतरूं मितिरहितानन्ददं प्रीत्या। मह्यं प्रेषितवत्यै कीर्तित्रय्यै नमो वच्मि ॥१ नन्दनवनकल्पतरूं गैंबाणीलेखपत्रसम्पन्नः । कुरुतां भारतवर्षं नितान्तमाप्तहर्षमाकल्पम् ॥२ कीर्तित्रयीं नतोऽस्मि । नन्दनवनकल्पतरुनामकं भवत्सम्पादितमयनपत्रमतीवाऽरोचतास्मभ्यम् । विशेषतोऽस्मिन् न केवलं देववाणीरूपायाः संस्कृतभाषायाः प्राधान्यमपि तु आगमवाणीरूपाया अर्धमागधीभाषाया अप्युचितं स्थानं मानं प्राधान्यं च वर्तते । अधिकाधिकमस्मिन् पत्रे जैनशासनस्य आध्यात्मिक-वैज्ञानिकवैशिष्ट्यनिरूपका लेखाः प्रकटीभवन्तु इति सम्प्रार्थ्य विरमामि। भवतामतीवानुग्राह्योऽहम् । वैराग्यरतिविजयः। Page #13 -------------------------------------------------------------------------- ________________ पत्रम् श्रीअनिल र. द्विवेदी ३०३, ऋषि - एपार्टमेन्ट २, आनन्दकोलोनी, जामनगरम्-३६१००८ आदरणीय-कीर्तित्रयीं प्रति - नन्दनवनकल्पतरुर्नाम अयनपत्रं सुतरां रोचते मे। अहं महाविद्यालये संस्कृताध्यापकरूपेण कार्यं करोमि । तत्र अपठितसंस्कृतं पाठ्यन्नहं विद्यार्थीनीनां पठनार्थं समर्पयामि इदमयनपत्रम् । प्राप्तेऽवसरे नन्दनवनकल्पतरुस्थस्य कस्यचन विषयस्य चर्चाऽपि क्रियते । अनेन प्रकारेण पत्रमिदमुपयोगि भवति । अयि दलदरविन्दस्यन्दमानं मरन्दं, तव किमपि लिहन्तो मञ्ज गुञ्जन्तु भृङ्गा । दिशि दिशि निरपेक्षस्तावकीनं विवृण्वन् , परिमलयमन्यो बान्धवो गन्धवाहः ।। छ Page #14 -------------------------------------------------------------------------- ________________ पत्रम् ...... डॉ. रूपनारायणपाण्डेयः एस्. II / ३३० राज्यशिक्षणसंस्थानकोलोनी, मान्याः ! सादरं प्रणतयः । I तत्रभवद्भिः प्रहितं पुस्तकं 'नन्दनवनकल्पतरुः' (षष्ठी शाखा) अधिगतम् । पठित्वा प्रसीदामि । अत्र सर्वा रचना रम्यः पठनीयाश्च । वैराग्यविंशतिर्विशेषरूपेण हृदयं हरति । मनोरमाभिः कृतिभिस्तु न केवलं तत्रभवद्भिर्जेनसिद्धान्तानां प्रचार प्रसारश्च क्रियते, अपि तु संस्कृतभाषाया साहित्यमपि संवर्ध्यते । अहं मन्ये न केवलमात्मनः, स्वराष्ट्रस्य च भारतस्य अपि तु समग्रस्य जगतः कल्याणाय संस्कृतेन तन्निहिततत्त्वानामभिवर्धनं प्रकाशनं वा नितरामपेक्ष्यते । एतादृशे कर्मणि संलग्नास्तत्रभवन्तः सर्वथाऽभिनन्द्यसत्त्वाः सन्ति । X पत्रिकाया मुद्रणं प्रायशो त्रुटिरहितमस्ति । 'चिन्तयामासिवान्' 'एकत्रीभूय' (पृ.५३) इत्यादयः केचन प्रयोगाः चिन्तनीयाः सन्ति । जयतु संस्कृत संस्कृतिश्च । एलनगञ्ज:, प्रयागः उ.प्र., २११००२ Page #15 -------------------------------------------------------------------------- ________________ पत्राम्..... देवर्षिः कलानाथ: शास्त्री सी-८,पृथ्वीराज रोड, जयपुर-३०२००१ श्रीविजयशीलचन्द्रसूरीश्वरेषु सविनयाः प्रणतिततयो मे समर्प्यन्ते । नन्दनवनकल्पतरो: षष्ठीशाखामवलोक्य समजनि महान् प्रमोदः । प्रास्ताविकमत्यन्तं प्रेरकं, सर्वविधा गद्यपद्य-कथोपकथन-विनोदादिमिश्रा सामग्री सुतरां स्वागतार्हा, हृदयावर्जिका संग्रहणीया च । मया "भारती" मासपत्रिकायां (यस्याः प्रधानसम्पादकत्वमहं निर्वहामि) स्वागतवाच: प्रशस्तिकथनं चास्मै सत्कार्याय प्रकाशितमभूत । श्रीमद्भिरवलोकितं स्यादेव। अस्य महनीयस्य संस्कृतायनपत्रस्योपलक्ष्ये सर्वेषां संस्कृतसेवकानां सभाजनं, साधुवादाः कार्तझ्यं च श्रीम्च्चरणयोः समर्पणीयतां भजन्ति । श्रीमतामनुग्रहपत्रमेकं पूर्वं मया प्राप्तमासीत् तदानीमस्वास्थ्यवशात् स्वयं तस्योत्तरं प्रहेतुं समर्थोऽभूवम, अत: कार्यालयेन तदर्थं धन्यवादा: मदीयाऽसमर्थता च सूचिताऽभूत् तत्पत्रमधिगतमेव स्याद् भवतां शिष्यैः । श्रीमन्तः शतायुषो भूयासुः एवमेव च संस्कृतवाच: श्रीवृद्धिं कुर्वाणा: साहित्यसर्जनापरा: सन्तोऽन्यान् प्रेरयेयुः, प्रकटयेयुश्चाऽमूल्यं वाङ्मयमिति सर्वेषामस्माकं शुभाकाङ्क्षाः सूचयन् , भवदनुग्रहभाजनं देवर्षिः कलानाथः शास्त्री Page #16 -------------------------------------------------------------------------- ________________ Mop श्रीजिनपति स्तुतिः -श्रीमद्विजयनेमिसूरीश्वरशिष्यः (स्व.)प्रवर्तक-मुनियशोविजयः घोरक्रोधतरक्षुकामशबरं दुष्कर्मपञ्चाननं मायाजाललताप्रतानगहनं मानोग्रमत्तद्विपम् । सम्फूत्कुदमन्दलोभभुजगं रागोग्रशार्दूलकं vie, संसारो विपिनं, तदस्ति भविनां कस्त्वां विनावाऽऽश्रयः? ॥ Page #17 -------------------------------------------------------------------------- ________________ युगलोचन२४जिनवन्दनम् (१) ऋषभम् अजितं वन्दे, सम्भवम् अभिनन्दनम्। सुमति जिनववंशम्, नौमि पद्मप्रभ जिनम् ॥ (२) जिन सुपार्श्वनाथं च, वन्दे चन्द्रप्रभं जिनम् । सुविधिनाथमत्रेशम् , जिनं नमामि शीतलम् ॥ 3892 श्रीश्रेयांसमहं वन्दे, वासुपूज्यं च नौम्यहम् । श्रीविमलम् अनन्तं च, धर्मनाथं भजाम्यहम् ।। शान्तिनाथं च जैनेशम्, कुन्थुनाथं स्मराम्यहम्। अरनाथम् अहं वन्दे , मल्लिनाथं नमाम्यहम् ॥ Page #18 -------------------------------------------------------------------------- ________________ सुव्रतं नामिनाथं च. नेमिनाथ जिनप्रभुम् । पार्श्वनाथं महावीरम्, वर्धमानं च नौम्यहम् ॥ 33000000000 -0 रचयिता डॉ.आचार्यरामकिशोरमिश्रः १४/२९५, पट्टीरामपुरम् , खेकडा - २०११०१ (बागपत) उ.प्र. For Private Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ शासनसम्राडाचार्य श्रीमद्विजयने मिसूरीश्वराणां स्तोत्रम् प्रणम्य ब्रह्मरूपान् तान् निरस्तवृजिनान् जिनान् । येषां सत्कृपया मर्त्या लभन्ते परमां रमाम् ॥१॥ द्वाविंशिका सद्गुरूणां सद्गुणौघप्रदर्शिनी । रच्यते स्तोत्ररूपेयं मया गुर्वनुभावतः || २ || ( युग्मम् ) ॥ 44 स्वस्त्यालयं यं बहुभूमिपालाः आ.विजयशीलचन्द्रसूरिः स्वजन्म नत्वा हि कृतार्थयन्ति । तं नेमिसूरिं गुरुराजमुख्यं सना पनायामि प्रमोदतोऽहम् ॥१॥ ११ विष्टपेनं जिनं नत्वा नष्टकर्माष्टकं मुदा । स्वकृतद्वाविंशिकायाष्टिप्पणी तन्यते मया ॥ बहुभूमिपाला नत्वा स्वजन्म कृतार्थयन्तीति अन्वयः । 'णिज्बहुलं०' (सि. ३-४-४२) इति णिज्, 'त्र्यन्त्यस्वरादेः' (सि. ७- ४ - ४३ ) इत्यन्त्यस्वरलोपे प्रयोगः । सना- नित्यम् । पनायामि- स्तवीमीत्यर्थः । 'पनि' - स्तुतौ (भ्वा.आ.) धातुः । वृत्तमुपजातिः ॥१॥ 44 क्रोधाग्निनामानि बलाहको यो दर्पाद्रिणा गोत्रभिदेव किञ्च । मोहद्विपेनाऽपि च पुण्डरीको वन्दे मुदा तं गुरुनेमिसूरिम् ॥२॥ ११ बलाहको-मेघः। ‘अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः' इत्यमरवचनात् । गोत्रभिदिन्द्रः । मोह एव द्विपो हस्ती, तेन । उल्लेखालङ्कारोऽत्र । तदुक्तम् - बहुभिर्बहुधोल्लेखादेकस्योल्लेख इष्यते । वृत्तमिन्द्रवज्रा ॥ ४ Page #20 -------------------------------------------------------------------------- ________________ “ " निरीहताद्यैः सुगुणैर्गरीयान् वैरङ्गिकाणां निकरे वरीयान् । राद्धान्तवेत्ता जितशम्बरारिर्जेजीयतां सद्गुरुनेमिसूरिः ॥३॥ " प्रकृष्टो गुरुर्गरीयान् । 'गुणाङ्गाद्वेष्ठेयसू' (सि. ७-३-९) इति 'ईयसू' प्रत्यय: । 'प्रिय-स्थिर - स्फिरोरुगुरु ०' (सि. ७-४-३८) इति गरादेशे रूपम् । एवमूरु- शब्दस्य वरीयान् । विरागं नित्यमर्हतीति वैरङ्गिकः । 'विरागाद्विरङ्गश्च' (सि. ६-४- १८३ ) इतीकणि विरङ्गादेशे च रूपम् । राद्धान्तः सिद्धान्तस्तं वेत्तीति राद्धान्तवेत्ता । शम्बरारिः कामदेवः । 'शम्बरारिर्मनसिज: ' इत्यमर: । जिधातोर्यङ्प्रत्ययान्तं रूपं जेजीयतामिति । पुनः पुनर्जयत्वित्यर्थः । वृत्तमुपजातिः ॥३॥ 4 येषां यशः क्षीरनिधिं मथित्वा लब्ध्वा च नानागुणमौक्तिकानि । वित्ताः सवित्ताश्च भवन्ति भव्या वित्ताः ख्याता इत्यर्थः । सवित्ताः इन्द्रवज्रा ||४|| स्तान् नेमिसूरीन् प्रणमामि भक्त्या ॥ ४ ॥ ११ "L = वित्तं धनं-प्रकरणाद् गुणरूपं तद्वन्तो भवन्तीत्यर्थः । अनेकसद्ग्रन्थवरप्रणेता जिनेन्द्रतीर्थस्य च योऽस्ति नेता । प्रेक्षापरास्तत्रिदिवेशसूरि र्भूयात् स भूत्यै गुरुनेमिसूरिः ॥५॥ ११ प्रेक्षया-बुद्ध्या परास्त:-पराभूतः त्रिदिवेशानाममराणां सूरिगुरुः - बृहस्पतिर्येन सः । उपजातिः ॥५॥ 44 वृषालिसम्पूजितसद्वृषस्य प्रपोषको यश्च जिताक्षरक्षाः । मनीषिमुख्यं गतमोहमायं नंनंमि तं नेमिगुरुं सुभक्त्या ॥६॥ ५ Page #21 -------------------------------------------------------------------------- ________________ वृषा-इन्द्रः, 'वासवो वृत्रहा वृषे'त्यमरात् । वृष्णां आलि:-श्रेणिः, तया सम्पूजितो वृषालिसम्पूजितः, स चाऽसौ सद्वषः-सद्धर्मश्चेति वृषालिसम्पूजितसदृषः, इन्द्राणां चतुःषष्ट्या सेवितो जिनधर्म इत्यर्थः । तस्य प्रपोषक: प्रभावकः । अक्षाण्येव रक्षांसि अक्षरक्षांसि, जितानि अक्षरक्षांसि येन सः । गते मोहमाये यस्य सः, तम् । नंनंमीति - भृशं नमामीत्यर्थः । नम्-धातोर्यङ्लुपि रूपम् । उपजातिः ॥६।। मिष्टामभीष्टां सुपदैविशिष्टा माकर्ण्य यद्बोधगिरं मनोज्ञाम् । 'सुधाकरोऽयं भुवमागतः कि-' मित्थं कृतीशाः खलु तर्कयन्ति ॥७॥ तस्मै नमः पूज्यतमक्रमाय निस्तमिथ्यात्वतमोभ्रमाय । युगप्रधानत्वधरोपमाय श्रीनेमिसूरीशगुरुत्तमाय ॥८॥(युगलम्)" , ७-८-इति वृत्तद्वयमुपजातौ । युगलं च ॥७-८॥ दुर्वादिदुहेतुभटौघवक्षो विघट्टने बाणति यस्य वाणी । सिद्धान्तशुद्धा विबुधैश्च बोध्या तं नेमिसूरिं गुरुमानमामि ॥९॥" दुर्वाधुपन्यस्तदुहेतवो दुर्वादिदुहेतवस्त एव भटास्तेषामोघस्तस्य वक्षोविघट्टने-भेदने यस्य वाणी बाणतिबाणवदाचरतीति क्विप् 'कर्तुः क्विप् गल्भ-क्लीब-होडात्तु डित्' (सि. ३-४-२५) अन्त्यस्वरलोपे च बाणतीति । उपजाति: ॥९॥ भयानके संसृतिसागरेऽस्मिन् क्रोधादिदुर्दोषकमत्स्यपस्त्ये । निमज्जतामावृतसदृशां हि । निस्तारणे सत्तरिसन्निभो यः ॥१०॥" Page #22 -------------------------------------------------------------------------- ________________ ↓ ↓ कृपासुपानीयप्रपाभचित्तं सदा सदाचारपवित्रचित्तम् । चावन्द्मि तं शान्तिरमद्य भूरि सूरीन्द्रवन्द्यं गुरुनेमिसूरिम् ॥११॥ (युग्मम्) १, संसृतिः संसारः । क्रोधादीति - दुर्दोषा एव दुर्दोषकाः स्वार्थे कः । त एव मत्स्यास्तेषां पस्त्ये सदने इत्यर्थः । आवृता-आच्छन्ना सद्वृग् सम्यग्दृष्टिर्येषां तेषाम् । सत्तरिः सत्प्रवहणमित्यर्थः ॥१०॥ वावन्द्मि इत्यत्र यङ्लुप् । शान्ति राति ददातीति शान्तिरस्तम् । 'आतो डोऽह्वा-वा-म:' (सि. ५-१७६) इति ड-प्रत्ययः ॥ युग्ममिदम् । उभयत्रोपजातिः ॥ ११ ॥ " कदम्बगिर्यादिप्रभूततीर्थकदम्बकस्योद्धृतिकारकेभ्यः । श्रीनेमिसूरीश्वरसद्गुरुभ्यो नमो नमः सन्मतिदायकेभ्यः ॥१२॥ " • कदम्बगिर्यादीति । कदम्बकस्य - समूहस्येत्यर्थः । 'निकुरम्बं कदम्बक' मित्यमरात् । उपजातिः ॥१२॥ ↓↓ प्रभावसत्प्रौढिमडिण्डिमेन निःशेषकाष्ठा मुखरीकृता यैः । अवन्तु वो भीष्मभवावटात्ते श्रीनेमिसूरीशगुरुप्रकाण्डाः ॥ १३ ॥ प्रभावेति । प्रौढस्य भावः प्रौढिम-प्रौढता, सत् प्रौढिम - सत्प्रौढिम, प्रभावस्य सत्प्रौढिम प्रभावसत्प्रौढिम, तदेव डिण्डिमं-वाद्यविशेषस्तेन, प्रौढप्रभावरूपडिण्डिमेनेति भावः । काष्ठा-दिशः । मुखरीकृताशब्दमयीकृता इत्यर्थः । भीष्मो -भयानको भवः - संसारः, स एवाऽवटो गर्तस्तस्मात् । उपजातिः ||१३|| 6 योऽहर्निशं शुद्धसुधर्मबोधी शंसन्ति यं राट्पुरुषा महान्तः । सद्ब्रह्म येनाऽद्भुतमादृतं च यस्मै समर्था नहि दोषमल्लाः ॥१४॥११ Page #23 -------------------------------------------------------------------------- ________________ .. अन्तर्हितो वादिगणश्च यस्माद दिष्टं च यस्याऽतिविशिष्टमेव । वसत्यसीमश्च शमोऽपि यस्मिन् तं नेमिसूरिं गुरुमीड्यमीडे ॥१५॥" राजन्त इति राज:-भूपालाः, तेषां पुरुषा:-राट्पुरुषाः, यद्वा राज:-भूपालास्त एव पुरुषा:-राट्पुरुषाः । यस्मै इति । 'शक्तार्थ-वषड्०' (सि. २-२-६८) इत्यनेन चतुर्थी । वृत्तमिन्द्रवज्रा ॥१४॥ दिष्टं-भाग्यं, 'दैवं दिष्टं भागधेय'मित्यमरः । उपजातिः । युग्मम्।।१५।। " गतप्रमादं धृतसत्यवादं पञ्चव्रतीपालनप्राप्तमोदम् । यतिव्रजैः सेवितपादपद्मं वन्दे समोदं गुरुनेमिसूरिम् ॥१६॥" (Of गतेति । प्रमादोऽष्टविधः, तदुक्तम् - पमाओ य जिणिदेहिं, भणिओ अट्ठभेयओ। अन्नाणं संसओ चेव, मिच्छोनाणं तहेव य ॥१॥ रागो दोसो मइब्भंसो, धम्मम्मि य अणादरो। जोगाणं दुप्पणिहाणं अट्ठहा वज्जियव्वओ ॥२॥ स गतो यस्मात् सः, तम् । सत्यस्य वाद:-वदनं सत्यवादः, स धृतो येन सः, तम् । पञ्चानां व्रतानां समाहार: पञ्चव्रती, समाहारे द्विगु: । तस्याः पालनेन प्राप्तो मोक्षो. येन सः, तम् । समोदं-शुद्धरीत्या पञ्चव्रतीपालकमित्यर्थः । उपजातिः ॥१६॥ ।" वैराग्यवान् सन्नपि यो जिनेन्द्रे रागी, तथाऽद्वेष्यपि कर्मणो द्विट् । जयत्वसौ सन्मुनिदेववल्मि र्गाम्भीर्यवल्मिगुरुदेवनेमिः ॥१७॥" वैराग्येति । सन्मुनय एव देवास्तेषु वल्मिरिन्द्र इवेन्द्रः । गाम्भीर्यस्य-गम्भीरताया वल्मि: समुद्रः । उपजातिः ॥१७॥ ca Page #24 -------------------------------------------------------------------------- ________________ कृता हि तीर्थोद्धृतिकैतवेन निजोद्धृतिर्येन सुपुण्यभाजा। भवप्रहेरुद्धरणं ममाऽपि करोत्वसौ सद्गुरुनेमिसूरिः ॥१८॥" भवेति । भव:-संसार:, स एव प्रहि: कूप: । 'पुंस्येवान्धुः प्रहि: कूप:' इत्यमरः । उपजातिः ।।१८।। " यदीयसद्बोधवरप्रदीपः श्रीमज्जिनाज्ञावरतैलपूर्णः। प्रदर्शको वस्तुयथार्थतत्त्वं नमामि तं नेमिगुरुं सुसत्त्वम् ॥१९॥" प्रदर्शक इति । प्रदर्शयतीति प्रदर्शक: । उपजाति: ॥१९॥ " अष्टौ येषां प्रवचनपटवोऽरिष्टदाः सूरिशिष्या मान्या नूनं प्रवचनजननीवर्मणः साधुरक्षे । ते जीयासुः प्रवचननिक्षाघृष्टहेमाभप्रज्ञा नेम्याचार्याः सदयहृदयकाः सज्जनवातधुर्याः ॥२०॥। () अष्टाविति । अरिष्टं-मङ्गलं ददतीत्यरिष्टदाः । प्रवचनजननीति । प्रवचनस्य जनन्यः प्रवचनजनन्य:प्रवचनमातरः इति भावः । ता अष्टविधा: - इरिया भासेसणादाणे, उच्चारे समिईसु अ । मणगुत्ति वयगुत्ति कायगुत्ती तहेव य ॥१॥ तासां वर्मणो देहाः । प्रवचननिकषेति। प्रवचनं जैनागमस्तदेव निकष:-कषः (कसोटी-इति भाषायां) तेन आ-समन्ताद् घृष्टा, अत एव हेमाभा-स्वर्णाभा निर्मला प्रज्ञा येषां ते इत्यर्थः । नेमिनामान आचार्या नेम्याचार्याः । वृत्तं चित्रलेखा ॥२०॥ Page #25 -------------------------------------------------------------------------- ________________ 44 किं साक्षाद् धिषणोऽस्त्यखण्डधिषणी नाकादवातीर्णवान् किं वा काव्यपटुः कविः स्वयमयं पातालतोऽत्रेयिवान् । किं वा पौंस्नवतीयमागतवती साक्षात् क्षितौ भारती त्येवं भव्यमनस्सु सञ्जनयति द्राक् कल्पना यन्मतिः ॥२१॥ येषां चाऽपि प्रभूतभूधरवराः श्राद्धाश्च वित्तान्विता आसन् भक्तिकरास्तथापि ममता नो तेषु येऽकुर्वत । ते धीराः सदसद्विचारचतुराः श्रीनेमिसूरीश्वराः पूज्याः सद्गुरुशेखरा भवचने कुर्वन्तु वो मङ्गलम् ॥ २२ ॥ ( युग्मम्) ११ धिषण इति । धिषणो बृहस्पतिः । अखण्डा धिषणा मेधा यस्य सः । नाकः-स्वर्गः । कविःअसुरगुरुः । पुंसो भावः पौंस्नं, तद्वतीत्यर्थः ॥२१॥ येषामिति । भूधराः - भूपालास्तेषु वरा इत्यर्थः । अत्र श्लोकद्वये शार्दूलविक्रीडितवृत्तम् | युग्मम्॥ ॥२२॥ समाप्तेयं टिप्पणी । आश्विनसितप्रतिपदि सम्पूर्तिमभजदियम् ॥ "L नीतः स्तुतेर्गोचरतां विनीत शीलाद्यचन्द्रेण गुरूद्ध एवम् । पन्याससूर्योदयनामधेय गौमुख्यस्य हि शिष्यकेन ||२३|| निजस्मृतेर्बीजविवर्धनाय यतीनसन्नन्दनसूरिशिष्ट्या । द्वाविंशिकां दिष्टविकाशिकां हि व्यधादमेधा मुनिशीलचन्द्रः || २४|| ११ नयनशून्यनयनबाण (२०२५) मितेऽब्दे भाद्रपदासितचतुर्थीदिवसे चन्द्रवासरेऽहम्मदावादे पाञ्जरापोळान्तर्गतश्रीविजयनेमिसूरिज्ञानशालामध्ये रचितेयं द्वाविंशिका शीलचन्द्रेण ॥ १० Page #26 -------------------------------------------------------------------------- ________________ 635500000000000000000000 30003 2301885 ooooo 9 3000000000000000000000000000 soamicommasooarn 34 MPUSTA औदासीन्याष्टकम् -श्रीमद्विजयनेमिसूरीश्वरशिष्यः (स्व.)प्रवर्तक-मुनियशोविजयः (शालिनी च्छन्दः) अर्हन्तोऽपि प्रौढशक्तिप्रतापाः, जन्तुं मन्तुव्याप्तदेहप्रसारम् । धर्मे योक्तुं नैव शक्ता बभूवुः, कस्तीत्राऽभाव्यभावे समर्थः ॥१॥ मिथ्यावादी वावदूको विलापी, विख्यातोऽभूत् स्वीयशिष्यो जमालिः । वीरे धीरो विश्वविख्यातकीर्तिः, रोद्धं बोद्धं नैव शक्तोऽभवत् तम् ॥२॥ इन्ट्रैर्विज्ञप्तोऽवितुं नैव शक्तः, प्राणान् प्राजो विश्ववीरोऽपि विश्वे । सर्वर्डीनां स्थानमत्रैव धीरस्तस्मादौदासीन्यभावं भजन्तु ॥३॥ लोकाः शोकव्याप्तचित्ताः समन्तात् , भिन्नां श्रद्धां भावयन्तश्चरन्तः । कर्मोद्विग्नाः सर्वकालेऽतिदीनाः, औदासीन्यान्नाऽन्य इत्यस्त्युपायः ॥४॥ ऋद्धया पूर्वं कान्तशान्तिप्रकारात् , तानं तानं दीप्तिमन्तः समन्तात् । भ्रामं भ्रामं नैव भिक्षाः स्वदोषात् , प्राप्यन्ते तैस्तद्विचारं कुरुध्वम् ॥५॥ कारं कारं पुण्यलक्ष्म्या व्ययं ये, हारं हारं सर्वमोहान्धकारम् । तारं तारं सर्वशो भावकीर्णा, दीर्णा जीर्णा नैव ते भीतितीर्णाः ॥६॥ भ्राता त्राता नैव पाताऽभिपुण्यै-र्माता सातान्नैव कर्तुं समर्थाः । भव्या नव्याः श्रेयगेयन्तु तस्मात् , वीरं धीरं सर्वदा संश्रयन्तु ॥७॥ पुण्या गुण्याः प्राणतोऽपि प्रियन्तं, कायामायाहीनरूपन्त्वपम् । संसाराब्धेस्तीर्णमेनं शशीव शश्वत् सौम्यं वीरधीरा धन्तु ॥८॥ SUBSRO RANE 1560000000 Page #27 -------------------------------------------------------------------------- ________________ घृणवीज्ञाधानसुरम् ॥ श्रीमत्पञ्चसूत्र-प्रथमसूत्रस्य पद्यानुवादः काव्य निकुअम् (वसन्ततिलकावृत्तम्) देवेन्द्रपूजित! यथास्थितवस्तुवादिन् ! अर्हन्! प्रभो! त्रिभुवनैकगुरो ! जिनेन्द्र ! । सर्वज्ञ! मुक्तिपथसार्थपते ! मुनीन्द्र ! हे वीतराग! भगवन्! भवते नमोऽस्तु ॥ आत्मा ह्यनादिरयमित्युदितं जिनेन्द्रैः कर्मानुषङ्गजनितं भ्रमणं तथैव । दुःखार्त्त-दुःखफल-दुःखमयानुबन्धे भ्राम्यत्यहो! भववनेऽयमनादिकालात् ॥ व्युच्छित्तिरस्य भवचक्रगतेः सुधर्मात् पापव्यपोहसुलभः खलु धर्मलाभः । पापिष्ठकर्मविगमस्तु तथाविधायाः पाकेन सम्भवति जैविक भव्यतायाः ॥ पूज्यातिपूज्यजिन-सिद्ध-सुसाधु-धर्मा -एषां पवित्रशरणग्रहणं चतुर्णाम् । दुष्कृत्यगर्हणमथो सुकूतप्रशंसा तद्भव्यतासुपरिपाक निबन्धनानि ॥ - मुनिः भुवनचन्द्र: 'चिन्मयः' १२ ॥ રા ફો કો Page #28 -------------------------------------------------------------------------- ________________ शुद्धाशयैर्भवितुकामजनैस्त्रिकालमेतत्त्रयं निजहृदि प्रणिधेयमुच्चैः । क्लेशाभिभूतमनसि प्रणिधानमेतत् कार्यं पुनः पुनरपि स्वहितप्रवीणैः ॥ ॥चतुःशरणगमनम् ॥ (स्रग्धरावृत्तम्) पुण्यप्राग्भारपूर्णा भवजलतरणे पोतरूपा अचिन्त्यचिन्तारनोपमानास्त्रिभुवनगुरवो वीतरागा विमोहाः । सर्वज्ञाः क्षीणदोषाः सकलगुणयुता विश्ववात्सल्यसारा अर्हन्तो विश्वपूज्याः शरणमभिमतं सन्तु मे सर्वकालम् ॥ ६॥ प्रक्षीणाशेषदोषा निरुपमसुखिनो धूतकर्मप्रपञ्चाः रूपातीतस्वरूपा अविकलविलसद्दर्शन-ज्ञानरूपाः । निर्बन्धा नष्टबाधा अजनिमूतिजाः सिद्धिसौधाधिरूढाः सिद्धाः संसिद्धसाध्याः शरणमभिमतं सन्तु मे सर्वकालम् ॥ ७॥ पञ्चाचारप्रवीणाः परहितनिरतास्त्यक्तसावद्ययोगाः ध्यानस्वाध्यायलीना वकमलनिभाः शान्तगम्भीरभावाः । निःसड़ाः शुध्यमानस्वरसशुचिहृदो विश्वकल्याणकामाः सम्बुद्धाः साधवस्ते शरणमभिमतं सन्तु मे सर्वकालम् ॥ ८॥ त्रैलोक्ये माननीयः सुरनमहितः सर्वमाङ्गल्यहेतुः सन्मन्त्री दुष्टरागोरगविषशमने कर्मकाष्ठौघवह्निः । मिथ्यात्वध्वान्तभानुः शिवपदवरदः सर्वविद्भिः प्रणीतो धर्मोऽयं शर्मदाता शरणमभिमतं मे भवेत् सर्वकालम् ॥ ९॥ For Prive Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ ____ १०॥ ११॥ दुष्कृतगहीं॥ (वसन्ततिलकावृत्तम्) स्वीकृत्य पावनमिदं शरणं चतुर्णां प्रक्षालयामि मम सञ्चितकल्मषानि । यत्किञ्चिदप्यनुचितं मयका कूतं स्याद् गहोमि दुष्कृतमिदं न पुनर्भजामि ॥ ___ (शालिनीवृत्तम्) अर्हत्सिद्धाचार्यसद्वाचकेषु साधुव्राते सर्वसाध्वीषु किं वा। अन्येषूच्चैः पूजनीयेषु धर्मस्थानेषु स्याद् दुष्कृतं मे यदेव ॥ मातापित्रोर्बन्धुमित्रोपकारिलोके मागोन्मार्गसंस्थे जनौथे। सन्मार्गस्याऽऽराधके चेतरे वा यत्किञ्चित् स्याद् दुष्कृतं मे वितथ्यम् ॥ जन्मन्यरिमन् पूर्वजन्मान्तरे वा कूत्वा बाढं कारयित्वाऽनुमत्य । स्थूलं सूक्ष्म कायवाङ्मानसोत्थं रागाद् द्वेषान्मोहदोषात् पुनर्वा ॥ जातं पापं पापकर्मानुबन्धि गम्येिषोऽनिच्छनीयं निषिद्धम् । एतज्ज्ञातं सद्गुरूणां वचोभिये वै सत्यं विश्वकल्याणमित्रम् ॥ (चतुभिः कुलकम्) १२॥ ઉો १४ा For Private & onal Use Only Page #30 -------------------------------------------------------------------------- ________________ मह्यं चैतद् रोचते सद्गुरूक्तं त्याज्यं सर्वं दुष्कृतं गर्हणीयम् । गम्यिर्हत्सिद्धसाक्ष्ये तथैव । मिथ्या मे स्याद् दुष्कृतं सर्वमेव ॥ . मिथ्या मे स्याद् दुष्कृतं सर्वमेव मिथ्या मे स्याद् दुष्कृतं सर्वमेव ॥ सम्यग्रूपा स्यान्ममेयं तु गर्दा नाऽहं कुर्यामायतौ तत्पुनश्च । इष्टं चेति प्रार्थयेऽत्राऽनुशास्ति श्रीअर्हद्भ्यः सद्गुरुभ्यश्च भूरि ॥ भूयादेभिः सङ्गमो मेऽपि भूयो भूयादेषा प्रार्थना शुद्धरूपा। भूयाद् भूयानादर: प्रार्थनायां । भूयादस्या मोक्षबीजं ममेति ॥ प्राप्तेषु स्यां सेवनार्होडप्यमीषां संपूज्यानामर्हतां सद्गुरूणाम् । आज्ञार्हः स्यां तक्रियावानपि स्या निर्दोषं स्यां पारगश्चाऽपि तस्याः ॥ सुकृतानुमोदनम् ॥ (उपजातिवृत्तम्) प्रमोदभावादमनुमोदयामि यदेव किञ्चित् सुकृतं जगत्याम् । सेवे यथाशक्ति यथोचितं च संवेगपूर्णः सुकृतं प्रशस्यम् ॥ १९॥ Page #31 -------------------------------------------------------------------------- ________________ जिनेश्वराणामनुमोदयामि स्वान्योपकारप्रवणं पुमर्थम् । सिद्धात्मनां चिन्मयसिद्धभावमाचारमाचार्यगणस्य शस्यम् ॥ २०॥ सूत्रार्थदानं किल पाठकानां साधुक्रियां साधुगणस्य शुद्धाम् । उपासकानां वरमुक्तिमार्ग-संसाधकान् सर्वसुधर्मयोगान् ॥ २१॥ माङ्गल्यलाभाय समुत्सुकानां शुभाशयानां सनरामराणाम् । मार्गानुकूलाचरणं सुचारु सर्वात्मनां सर्वमहं प्रशंसे ॥ २२॥ (त्रिभिः कुलकम्) एषा प्रशंसा विधिपूर्वका स्या-छुद्धाशया सत्प्रतिपत्तियुक्ता । अनुत्तरानन्यगुणर्हदादि-दिव्यानुभावाद् गतदूषणा स्यात् ॥ २३॥ ये वीतरागा विदिताखिलार्था अचिन्त्यसामर्थ्ययुता जिनेशाः । शिवात्मकाः सर्वशिवङ्कराश्च यच्छन्तु ते मे सुकूतेषु शक्तिम् ॥ २४॥ मोहाभिभूतोऽहमनादिकालान्मूढोऽस्मि पापोऽस्मि सुदुःखितोऽस्मि । हिताहितानामनभिज्ञ एव सुज्ञो भवेयं भगवत्प्रसादात् ॥ २५॥ त्यक्त्वा समग्रामहितप्रवृत्तिं भजेयमुच्चैः स्वहितप्रवृत्तिम् । सर्वत्र कुर्वन्नुचितोपचार-मिच्छामि कर्तुं सुकृतानि सम्यक् ॥ इच्छामि कर्तुं सुकृतानि सम्यक् । इच्छामि कर्तुं सुकृतानि सम्यक् ॥ २६॥ (वसन्ततिलकावृत्तम्) एवं चतुःशरण-निन्दन-कीर्तनानां श्रुत्या स्फुटं पठनतः परिशीलनेन । पापानुबन्धिनिचयाः शिथिलीभवन्ति हानं क्रमादुपगताः क्षयमाप्नुवन्ति ॥ રો १६ Page #32 -------------------------------------------------------------------------- ________________ पापानि बाढमनुबन्धविनाकृतानि निःशक्तभावमधिगम्य शुभाशयेन । अल्पं फलं ददति बद्धविषं यथा वा गत्वा सुखेन विलयं न पुनर्भवन्ति ॥ पुण्यानुबन्धनिचयाश्च दृढीभवन्ति पुष्यन्ति तेऽप्यभिनवाश्च समुद्भवन्ति । उत्कृष्टभावजनितं च शुभानुबन्धं कर्म प्रकृष्टफलदं भवति प्रभूतम् ॥ सम्यक्प्रयुक्तशुभभेषजवच्च सानुबन्धं नु कर्म नियमेन फले शुभं स्यात् । एवं विशिष्टतरपुण्यपथप्रवृत्त्या प्रान्तेऽप्यनुत्तरविमुक्ति सुखावहं स्यात् ॥ एतत्परं मलिनभावनिरोधनेन प्रोच्चैः शुभाशयविवृद्धिकरं सुबीजम् । निर्बन्धभावमिति सत्प्रणिधानमेवं सम्यक् पठेच्च शृणुयाच्च विचिन्तयेच्च ॥ वन्द्योत्तमान् जिनवरान् प्रणमामि शास्तॄन् शेषानपि प्रणमनीयजनान् नमामि । सर्वज्ञशासनमिदं जयताज्जगत्यां सर्वे भवन्तु सुखिनो वरबोधिलाभात् ॥ सर्वे भवन्तु सुखिनो वरबोधिलाभात् । सर्वे भवन्तु सुखिनो वरबोधिलाभात् ॥ १७ ૨૮) રી ३०॥ શો ફરી Page #33 -------------------------------------------------------------------------- ________________ धर्मपरिभावनासूत्रम् कात्यनिकआगा fina (ODDI श्रीमत्पञ्चसूत्र-द्वितीयसूत्रस्य पद्यानुवादः -मुनि: भुवनचन्द्रः 'चिन्मयः' जाते सुधर्मगुणलाभशुभाभिलाषे भाव्यं हृदि प्रवरधर्मगुणस्वरूपम् । धर्मः स्वभावरुचिरः प्रमार्थहेतुधर्मः परो हितकरश्च सहानुगामी धर्मोऽस्ति दुष्कतर: परिपालने हि भङ्गे च दारुणफलो भवति प्रमादात् । बाढं विमोहजनकः खलु तस्य भङ्गो धर्मोऽपि दुर्लभतरो भवतीति भाव्यम् ॥२॥ हिंसा-मूषावचन-चौर्य-परिग्रहान्यदाराभिलाषविरतिप्रमुखं यथार्हम् । स्थूलात्मकं गृहिजनोचितसद्विधानं श्राद्धोऽतिभावसहितं समुपाददीत स्वीकृत्य चैतदथ तत्परिपालनायां सम्यग यतेत सततं प्रतिबद्धकक्षः । संसाधयेदथ परं विमृशेज्जिनाज्ञां तिष्ठेत्तथैव सततं तदधीनतायाम् ॥४॥ KER १८ Page #34 -------------------------------------------------------------------------- ________________ દ્દો ॥७॥ आज्ञा हि मोहविषवारणमूलमत्रः आज्ञा क्रुदादिदहनोपशमे जलं च । कर्मोग्ररोगशमने प्रमं चिकित्साशास्त्रं तथा शिवफलप्रदकल्पशाखी प्राप्ता गुणा अभिनवाश्चिरसङ्गतास्तु दोषा अतः परिहरेद् गुणहीनसङ्गम् । सङ्गो ह्यधार्मिकजनस्य भवेदधर्मप्रोत्साहकोऽत्यशुभयोगपरम्पराकृत् त्याज्यं समस्तमपि लोकविरुद्धमत्र निन्दास्पदो भवति येन जनेषु धर्मः । संक्लेश एष इति तीव्रमबोधिबीजं स्वस्यात्मनोऽप्यलमबोधिफलं परस्य अस्मात्परो जगति नास्ति महाननर्थः संसारकाननगतस्य किलान्धतैषा । या केवलं विक्टसङ्कट जन्मदात्री पापानुबन्धनकी च भयङ्करी च अन्धोऽनुकर्षकजनं भिषजं तु रुग्णो भीतस्तु वीरपुरुषं धनिकं दरिद्रः । सेवेत भावसहितं विधिना तथैव मित्राणि धर्मसहितानि भजेद् गुणेच्छु: अस्मान्न सुन्दरतरं किमपीति मत्वा मित्रेषु तेषु निबिडं बहुमानयुक्तः। काङ्केत्तदीयवचनं प्रतिपद्य सम्यङ् निष्पादयेच्च सकलं न तु खण्डयेच्च રોટો men ॥१०॥ For Private 3 sonal Use Only Page #35 -------------------------------------------------------------------------- ________________ . .. ॥११॥ ॥१३॥ सम्यग् यतेत गृहियोग्यसमस्तकार्यजाले प्रपन्ननिजधर्मगुणानुरूपम् । निर्दोषकर्मणि रतो निजदेहवाणीचित्तक्रियासु शुचितां नितरामुपेयात् लोकोपघातजनकं बहुक्ष्टसाध्यमारम्भमायतिविराधकमुत्सूजेत्तु । नो दीनतां हि बिभूयान्न तथा हि गर्न मिथ्याग्रहादपसरेदृजुतां श्रयेच्च भाषेत नो वितथर्क शहीनभाषां पैशुन्यवाक्यमपि नै न चाउनिबद्धम् । भाषां वदेद्धित-मित-प्रिय-पथ्य-सत्यां कार्ये सदा सुजनभावमुपाश्रयच्च कुर्यान्न जीववधमत्र सुखाभिलाषी नैवाददीत प्रक्रीयमदत्तवस्तु । दारं न कामुकतयान्यजनस्य पश्येद् व्यर्थक्रियां परिहरेच्छुचिकायकर्मा लाभोचितं सुचतुरो विदधीत दानं लाभोचितं च सुखभोगपरायणः स्यात् । लाभोचितं च विदधीत कुटुम्बकार्य लाभोचितं निधिगतं हि धनं स कुर्यात् सन्तापको नहि भवेत् स्वकुटुम्बिनां तु शक्त्या भवेद् गुणकर: करुणापश्च । एवं ममत्वविगमात् कुणैकबुद्ध्या तत्पालनेऽप्यपरपालनवद्धि धर्मः ॥१४॥ ॥१५॥ ૨૬ો. २० Page #36 -------------------------------------------------------------------------- ________________ जीवाः पृथक् पृथिगह प्रक्टं नु सर्वे कानुसारमथ संगमनं च तेषाम् । जीवो ममत्वमुपयाति च बध्यते च तस्मान्ममत्वरहितेन सदा प्रवर्त्यम् ॥१७॥ तत्तत्स्वकार्यविषये स्मृतिमान् सदा स्यादरिमन् कुलेमुकसुतोऽमुशिष्यकोऽहम् । एतत्समाचरणमत्र मया विधेयं । तत्खण्डनं न च कृतं न च कर्तुमीहे ॥८॥ वृद्धिं च याति मम धर्मविधानमेतदेतद्धि सारमथ चैतदिहात्मभूतम् । एतद्धि मे हितर विधिनाऽऽदृतं चेदेतद्विहाय किल सर्वमसारमन्यत् ॥१९॥ सर्वं हि नूनमहिताय विधिव्यपेतमित्युक्तवान् प्रमकारुणिको जिनेन्द्रः । धर्माविरोधमिति कर्मणि संप्रवर्त्यमेतद् भवेत्पममंगलमिष्टसिद्धौ રી धर्माय जागृतिमताऽनुदिनं समीक्ष्यं कोऽयं नु काल ? इह किं च ममोचितं स्यात् ? संप्रेक्षमाण इति योऽनुदिनं तु तिष्ठेत् । तस्य प्रमादरिहतस्य न धर्महानिः आपातरम्यसुखदा विरसावसानाः सर्वा इमे हि विषया नितरामसाराः । सर्वप्रमाथ्यनियतागमनश्च मूत्यु। वार्यते ह्यनुगमंस्तु पुनः पुनश्च ॥२२॥ ગોરી For Prive Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ રો . રો . आसेवितः सुपुरुषैः परमं विशुध्धः सर्वात्मनां हितको विगतातिचारः । आनन्दमत्र परमं प्रददाति यश्च धर्मः स ओषिधरलं जगतीह तस्य धर्माय सर्वसुखदाय सदा नमोऽस्तु धर्मप्रकाशनकाय नमो जिनाय । एतत्प्रपालक-निरूपक-साधकेभ्यो नित्यं नमोऽस्तु शुचिधर्मगवेषकेभ्यः स्वीकर्तुमेनमुचितं रुचितं समीहे सम्यङ् मनोवचनकायसमस्तयोगैः । भूयादसौ प्रममङ्गलकून्ममेह । कल्याणमूर्तिजिनराजपरानुभावात् सद्धर्मचिन्तनमिदं विदधीत भूयः स्याद्धर्मयुक्तपुरुषप्रणिपातकारी । मोहिच्छदे प्रमुख एष भवेलु हेतु - रेवं हि शुध्यति यतो मनसः प्रचारः शुध्यच्छुभाशयवशात् परिहीयमाणकर्मा भवेद्विरतिधर्मसुपात्रमेवम् । संविग्न-निर्मम-विरक्त-विशुध्यमानभावो गृहे स निवसेदप्रापतापी રજી રો . રો २२ Page #38 -------------------------------------------------------------------------- ________________ विवेकानन्दः - यथा मया दृष्टः एम्. के. नञ्जुण्डस्वामी नौमि श्रीशङ्कराचार्यं विवेकानन्दमेव च । मूलं धर्मस्य सम्प्राप्तुं तत्साधनचतुष्टयम् ॥१॥ एष एष मया दृष्टः सद्यो जातो दिवाकरः । सुष्वाप भुवनेश्वर्याः प्रपूर्याईं मनोहरम् ॥२॥ विश्वनाथौरस्ः पुत्रो विश्वनाथप्रसादजः । विश्वम्भरगुरोस्तुल्यः शङ्करस्य य एष सः ॥३॥ रेन्द्रनामा पश्चाच्च विवेकानन्दसजितः। आनन्दश्च विवेकश्च यदुक्तेः प्राप्य एष सः ॥४॥ बालक्रीडावकाशे स्वप्रतिभां दर्शयन् पुनः । गुरुतां सूचयामास भाविनीं तु य एष सः ॥५॥ पित्रा बोधित आत्मानं पश्यन् भव्याकृतिं कृती । आदर्श जगददादर्श स्मितं चक्रे य एष सः ॥६॥ आङ्ग्लभाषाप्रवीणोऽथ परिभूतश्च संशयैः । गुरो! किं दृष्टवान् देवं त्वमित्यूचे य एष सः ॥७॥ रामकृष्णं गुरुं हंसं प्रमं प्रतीक्ष्य च । काल्यां देव्यां गुरौ चक्रे भक्तिं गाढां य एष सः ॥८॥ 'युक्ताहारविहारस्ये'त्युक्तवागनुसारतः । बुभुक्षितस्य वेदान्तो नैतीत्यूचे य एष सः ॥७॥ अद्वैतसाधकं योगिवर्यं च स्वगुरुं ध्रुवम् । नक्षत्रमिव चोपेतो मुक्तिमार्गे य एष सः ॥१०॥ गुरोः शुश्रूषया स्वस्य सद्विद्याव्यसनेन च । गतः सर्वोपनिषदां पारं क्षिप्रं य एष सः ॥११॥ २३ For Privatè & Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ मूर्ती भक्तिरनासक्तौ ज्ञानस्य न विरोधिनि । गुरुणा साधितार्थे श्रद्धां चक्रे य एष सः ॥१२॥ दारिद्र्यध्वंसिनीं देवीं दारिद्र्यध्वंसहेतवे । गुरुणा चोदितः प्राप्तोऽयाचताऽजनिमेष सः ॥ १३॥ सोऽथ काषायवसनो बालारुणसमद्युतिः । चिच्छेद ज्ञानकिरणैः लोकस्याऽऽभ्यन्तरं तमः ॥१४॥ कोलम्बोपुरमारभ्याऽऽल्मोरपर्यन्तवर्तिनम् । प्लावँश्च ज्ञानगङ्गोर्भ्यां चरन् देशं य एष सः ॥१५॥ चिकीर्षा हि रजोमूला तितिक्षा सत्त्वचोदिता । कार्यशक्तौ फलायैव सत्त्वं स्यादित्युवाच सः ॥१६॥ भारतस्य समुद्धारो न दंष्ट्राभिर्न वा नखैः । किन्त्वात्मशक्तेरुद्धारादित्युवाच य एष सः ॥१७॥ नाशे भरतखण्डस्य सर्वं नष्टं भवेज्जगत् । अध्यात्मज्ञानसन्दातुरित्युवाच य एष सः ॥ १८ ॥ कामभोगात्मके यज्ञे धनवृद्धिप्रवर्तिते । जीवो यज्ञपशुर्मा भूदित्युवाच य एष सः ॥ १९ ॥ यस्तु श्रुतिशिरोगृह्य आचारः सेव्यतां स तु । अन्यः सर्वो विवर्ज्यः स्यादित्यवोचद् य एष सः ॥२०॥ भयान्धकारं निर्धूय तेजसा तरसा जनाः । लक्ष्यं याताऽनिरुद्धा इत्यूचिवास्तु य एष सः ॥२१॥ वामाचारान्निवृत्याऽऽशु गीतोपनिषदादिषु । मनो दत्तेति संरुष्टो जगर्ज च य एष सः ॥२२॥ व्यक्ताद्धि नश्वराज्ज्ञातुमव्यक्तं तदनश्वरम् । सुलभं जानतां त्यागमित्युवाच य एष सः ॥ २३ ॥ कुर्वतः सर्वधर्माणां स्वप्रवृत्त्या समन्वयम् । रामकृष्णयतीन्द्रस्य प्रियशिष्यो य एष सः ॥२४॥ २४ Page #40 -------------------------------------------------------------------------- ________________ दूरदेशनिवासिभ्यो दातुमौपनिषत्सुधाम् । विवेशाडमेरिकं देशं सागरान्ते य एष सः ॥२५॥ चिकागोनगरे तत्र सर्वधर्मसभाङ्गणे । सोदर्यः! सोदराश्चेति सम्बोध्याऽऽह्मादयन् जनान् ॥२६॥ तेभ्यो व्याख्याय वेदान्तत्त्वमन्यादृशं भुवि । रोमाञ्चिताँश्च चकितान् यश्चकार स एष सः ॥२७॥(युग्मम्) इति भारतभूमातुः वरपुत्रो गुणोज्ज्वलः । कीर्तिध्वजं स्वदेशस्य विदेशे समुदञ्चयन् ॥२८॥ ऋषिवत् पूजितो विज्ञैः भ्रातूवत् स्त्रीभिरीक्षितः । सुतवल्लालितो वृद्धैर्गुरुवच्चाऽऽदृतो जनैः ॥२९॥ शिष्यान् सङ्गह्य सुबहून् तत्त्वबोधरतान् स्वयम् । स्वदेशं विनिवृत्तोऽसौ नावा कीर्तिवधूयुतः ॥३०॥ भूमाववतताराऽथ नौकायाः स जनाग्रतः । मूर्तिमानिव चाऽऽनन्दो मातृभूमेः प्रियः सुतः ॥३१॥(कुलकम्) अथाऽभिगतलोकानां सहस्राधिकलोचनैः । विनिपीतश्च संक्लिष्टः कल्पितैरिव बाहुभिः ॥३२॥ एष एष महान् तत्त्वज्ञानी तत्त्वविद धुरि । संयमी यमिनामग्रे प्रवक्ता वदतां पुरः ॥३३॥ एष दृष्टो विशालाक्षः पूर्णचन्द्रनिभाननः । मुख्ने सागरगाम्भीर्यं सारल्यं च शिशोर्वहन् ॥३४॥ एष दृष्टो महाबाहुः सिंहसंहननो युवा । विशालोन्नतफालश्च जगद् वोढुमिवोद्यतः ॥३५॥ एवमेष मया दृष्टो जगद्धाता जगद्गुरुः । वेदान्तडिण्डिमः पुण्यो पुण्यभाजां हृदि स्थितः ॥३६॥ For Private personal Use Only Page #41 -------------------------------------------------------------------------- ________________ गवाक्षः विश्वस्य यस्मिन्नपि कस्मिन्नपि कोणे निवसतां भावुकजनानां मतिश्रीः परस्परेण सादृश्यवत्येव पथि स्फुरतीत्यर्थं मनसि निधाय "संवादिन्यो मेधाविनां बुद्धय” इति जगुरास्माकीनाः पूर्वाचार्याः । एतदाभाणकसार्थक्यसम्पादनाय विद्वज्जनैस्तत्र तत्र प्रयत्नाः कृता एव । परन्तु संस्कृतेतरवाङ्मयगतस्य साहित्यसाम्राज्यस्य संस्कृतेऽवतरणं न पर्याप्तया मात्रया विहितमिति तु सुप्रसिद्धो विषयः । तत्राऽपि विशिष्य इङ्ग्लीष्पद्यानां सांस्कृतेऽवतरणे कृतप्रयत्ना नूनं विरला एव । पातितैतत्कटाक्षा अपि विद्वांसः प्रायेण साम्प्रदायिकैरेव च्छन्दोभिः विहितनिर्वाहा दृश्यन्ते । मया पुनरत्र मूलोच्चारणानुसारिणीं गतिं संस्कृते लम्भयितुम् उपक्रान्तम्। संस्कृतसाहित्यसरस्वतीतृषानिवारणे मदीयस्यास्य प्रयत्नबिन्दोः कियत् साफल्यं प्राप्तमित्यत्र तु सहृदया एव प्रमाणं भवितुमर्हन्ति । अमुष्यां पद्यधारायां इङ्ग्लीष्वाङ्ग्मये प्रसिद्धाना-मप्रसिद्धानामनतिप्रसिद्धानां च केषाञ्चन कविताज्योतिषां स्फुरणं गवाक्षतः संस्कृतभवनस्याऽन्तः प्रवेशनार्थं प्रयतितम् । अधुनाऽत्राऽऽदत्तानां कवितानां विषये “अन्ते दृष्टः” (४) इति पद्यं मूले लावणीरूपेण वर्तते । पद्यस्याऽस्य भूयांसि पाठान्तराणि वर्तन्त इति ज्ञायते । जानपदस्याऽस्य गीतस्य किंकर्तृकतेति न स्पष्टम् । अत्र 'बोन्नी जार्ज् काम्पबेल्'नामा वीरः प्रतिष्ठते समराय । स न प्रतिनिवर्तते । प्रतिनिवृत्तस्तु केवलं तदीयोऽश्वः । वीरो न दृष्टः किन्तु अश्वचक्षुषि बाष्पो दृष्टः इत्ययमंशः सचेतसां चेतस्सु किमपि स्फोरयति । 'मदीया छाया ' (५) स्वभावोक्तिमण्डितेत्यत्र न संशीतिलेशः । अलङ्कारेणाऽलङ्कारध्वनिरिति किल संगिरन्ति आस्माकीनाः सहृदयाः । स्यादत्र समासोक्ति - ध्वनिरपि का हानिरेतावता ? चटुलाः शिशवः कदाचित् सौम्याः कदाचिदुपद्रवशीलाः कदाचिच्चाऽलसाः प्रायेणाऽनुज्झ्यमान - मातापितृसन्निधानाः कयक्षिताः पद्येनाऽनेनेति को नाम भावुको जनो निराकर्तुमीष्टे ? 'ग्रीष्मे वृष्टिः ' (१) तथा 'गृध्रः' (३) इत्यनयोः शुद्धैव समासोक्तिः । परन्तु 'पूर्णचन्द्र: ' ( २ ) इति पद्ये सन्नपि स्वभावोक्त्यंशः काञ्चनाऽस्फुटतां गत इव प्रतीयते । अन्तिमे च चरणद्वये निसर्गसहजा बालमुग्धतैव प्रकृता । - एस् जगन्नाथः 2925, 1st main, 5th cross Saraswathipuram Mysore 570009 २६ Page #42 -------------------------------------------------------------------------- ________________ 'हृदयोल्लासे' (६) पुनरन्यैव समस्या । ऋजुरोहितवर्णनं नाऽत्र कवेरुद्दिष्टम् । तस्मान्नाऽत्र स्वभावोक्तिरन्ये वाऽप्यलङ्काराः । कस्मिन् साहित्यिके तत्त्वेऽन्तर्भाव्यमिदं लक्ष्यत्वेनेति चिन्त्यम् । द्रुति-दीप्तिविकासानामन्यतमत्वमत्र द्रष्टव्यमित्यस्माकं प्रतिभाति । (सहस्रावधानिना रा.गणेशेन सङ्गीतदल्लि रस इत्यमुष्मिन् कन्नडलेखे तत्त्वानाममीषां विस्तरशो विवेको व्यधायि ।) 'व्याघ्रः' (७) स्वप्नेऽपि स्वभावोक्ते रुदाहरणतां न याति । दृष्टव्याघ्रस्य कवेविस्मयरूपस्थायिभावस्यैवाऽत्र जीवातुत्वमत्र । केचन इङ्ग्लीष्साहित्य-संशोधका: 'विलियम् ब्लेक्’कविना कदाऽपि व्याघ्रो न दृष्ट इति, तस्मादत्याश्चर्यकर्याः सृष्टेः काः शक्तेः विषये विस्मयप्रकटनं कवेरुद्दिष्टमिति प्रतिपादयन्ति । अस्तु नाम, सर्वथाऽप्यद्भुत-रसोदाहरणरूपात् पथ: पद्यमिदं न च्यवते इति द्रष्टव्यम् । 'लण्डन् नगरे'(८) इत्यत्र यद्यपि स्वाथिभिः सर्वत्र प्रायो नीचगेया स्वार्थताऽऽश्रीयते, मानुष्यकं भावुकता च दूरोत्सारिते भवत इति वस्तु, परन्त्वेतावता नाऽस्य ध्वनित्वं, पक्षिवर्णनस्य पौनःपुन्ये नो पादीयमानत्वात् । तस्मादत्र गुणीभूतव्यङ्गयत्वम् । 'कु सरित्' (९) विस्पष्टस्वभावोक्तिरप्यजहत्समासोक्तिः । प्रयात्री व्यक्ति: क्वचिन्मन्दगामिनी क्वचिच्च शिलातलाध:प्रदेशादिषु विश्रान्तिसमयेऽनुपलक्ष्यमाणगतिरिति वस्त्वत्र नैसर्गिक्या निष्क्लेशं प्रवहमानया च च्छन्दोगत्या स्फोरितम् । आसन्नमरणस्याऽपि शृगालस्य जिह्वाचापल्यं प्रचुरम् । ('मुमूर्षुः शृगालः'१०) स्वकीयानामेव पोतानां वाक्यैस्तस्य दार्शनिक 'उपदेशामृतम्' आकाशे लीयते ! अधुनाऽध्युपात्तच्छन्दोगति द्वित्रा वाचः । निरन्तरलघुगुरुविन्यसनरू पा पञ्चचामरगति: क्वचिदुपात्ता । पज्झटिकागतिरन्यत्र । गीतिगतिरपरत्र । ‘ग्रीष्मे वृष्टि रित्यत्र ३,४,३,४,३,४,३,गुरुइत्येवं मात्रागण-विन्यासः । 'गृध्र' इत्यत्र ६,६,६,सगण: इत्येवं मात्रागणविन्यासः । 'हृदयोल्लासे' ४,४,४,४,४,४,गुरुद्वयम् इति मात्रागणविन्यासः । रघटाबन्धस्य वैविध्यं क्वचित् । ('व्याघ्रः', ‘लण्डन् नगरे', 'मुमूर्षुः शृगालः') पादान्तप्रासः सर्वत्र पालितः । परन्तु ‘पूर्णचन्द्रे' केवलमन्तिमे चरणद्वये प्रासः । नवमे तु पद्ये इङ्ग्लीष्-कवितागतप्रासशैलीमनुसृत्य प्रथमतृतीययोः पादयोस्तथा द्वितीय-चतुर्थपादयोः(a,b,a,b-इति क्रमेण) प्रास उपात्तः । अस्फुटेऽप्यत्र प्रासस्य प्रासत्वे, नावीन्योत्पादनाय मूलगत्यानयनार्थं च कृतमिदम् । अपि च यतिर्न सर्वत्र पालिता। मूलगतभावानां यथाशक्ति तत्तत्पङ्क्तिषु प्रतिबिम्बरूपेण स्थापनैवाऽत्र कारणम् । २७ Page #43 -------------------------------------------------------------------------- ________________ (१) ग्रीष्मे वृष्टिः मूलं - Rain in Summer ola: - H. W. Longfellow अपगतं किल धूलिमण्डलमुष्णता प्रसूता हता। धर्मवति पथि बृहति लघुनि च वृष्टिरिह सुखदाऽऽगता ॥ छदिषु मर्मरकारिणी खुरपुटध्वन्यनुकारिणी। पूर्णसलिलाद् द्रोणिकण्ठाद रभसनिःसूतिधोरणी ॥ अपि गवाक्षावेष्टनाद् द्रुतमियं पङ्कवदुर्मिला । प्रवहति च गर्जति च सरिदिन् कच्चावहनीचला ॥ स्वागतं वृष्टे! हला! पूर्णचन्द्रः मूलं - Full Moon कविः - Walter de la Mare कदाचिदर्धनिद्रयाडल्पजागृतस्य कस्यचिद् दृशोः पपात मन्दमन्दमम्बाद् द्युतिर्निशि ॥ शशाङ्कमण्डलं द्युतिं किरत् स नीचसर्पिणीं शरावमाविभाव्य राजतं प्रमोदवानभूत् ॥ प्रस्प्रेण चन्द्रमाः स पूरुषोऽप्यपश्यतां क्षणात् कलानिधिः स वारिदेष्वगाददृश्यताम् ॥ २८ Page #44 -------------------------------------------------------------------------- ________________ (३) गृधः मूलं - The Eagle कविः - Alfred Lord TennySon वक्राभ्यां हस्ताभ्यां श्लिष्यति नगशिखरं शून्यस्थानेषु सूर्यमुपयाति प्रखरम् । तिष्ठति मण्डलकारी नीलनभसि रुचिम् । अब्धिर्मिमाली तस्याऽधः परिवलते । नगभित्तिश्रेणितः स भुवं विलोक्यते । झटिति पतति यथा स्फूर्जथुर्भीकरमयते । (४) अन्ते दृष्टः मूलं - Bonny Goerge Compbell कविः - ? मुख्ये मार्गे नद्याः पार्थे तुरगं वमारुह्य । 'बोन्नी'-नामा सादी गतवान् तुरगं वरमारुह्य ॥ सन्नद्धः सन सादी गतवान खडगी कवची योधः । नाऽऽसीत् तस्य वाऽपि च मार्गे वीरस्य प्रतिरोधः ॥ तुरगेनोग्रां प्लुतिमाचरता भाति स गच्छन् सादी । उडुपमध्यगत ऊर्ध्वदण्ड इव समरकला-सुविनोदी ॥ दूरे धूलिदंघसकाशः सादी चन्द्रसदृक्षः । मेघे चन्द्रो लीनो धूलौ सादी च समरदक्षः ॥ LINI २९ Page #45 -------------------------------------------------------------------------- ________________ किमिदं? किमिदं? रुधिरोद्गारी तुरगः प्रत्यायाति? । हा हा पङ्किलनिर्झरवानिव बत गिरिरेष विभाति ॥ प्रस्थाने यः सादी गतवान् पृष्ठे किल तुरगस्य । दृष्टो नाऽयं दृष्टस्तु पतन् बाष्पो हयनयनस्य ॥ मदीया छाया मूलं - My Shadow pla: - Robert Loius Stevenson अस्ति मदीया छाया काचिद् या मां परितः सञ्चलति । द्रष्टुं शक्नोम्येतां परमुपयोगः कोऽपि किल न भवति ॥ आपाप्मस्तकमेषा मामाकारेणोपमिनोति । किन्तु पुरस्तान्मम मत्पूर्वं शयनं सुखतो विदधाति ॥ द्रष्टव्या हास्यतमा रीतिर्वर्धनपद्धतिरदसीया। नाऽनुक्रियते शिशुवर्धनसूतिरनया च बहुगणनीया ॥ रब्बरकन्दुक्सममुन्नततरमेषोद्गच्छति सपदि तथा । ह्रस्वीभवति कदाचिन्मन्ये लुप्तामेतां मनसि यथा ॥ शिशुभिः क्रीडा करणीया कथमित्येषा न हि जानीते । सकलविधाभिर्मूढीकर्तुं बहुधा मां तु प्रीणीते ॥ अनुदितभानौ कस्मिंश्चिद् द्राग दिवसे कुतुकादुदतिष्ठम् । वीक्षिततूणगतहिम आत्मानं पर्यगणयमखिलवरिष्ठम् ॥ अलसा किन्तु मदीया छाया तन्द्रालुर्जन इव शयने । भद्रं निद्रालीना शेते सुनिमील्यैव स्वे नयने ॥ १. सृतिः-मार्गः । रीतिरिति यावत् । ३० Page #46 -------------------------------------------------------------------------- ________________ हृदयोल्लासः मूलं - My heart leaps up कविः - William Wordsworth उड्डयते हृन्मम शक्रधनुषि नयनसरणिमुपयाते । ऋजुरोहितमिदमासीत् प्रागप्येवमेव मयि जाते ॥ मद्यौवनकालेऽप्येवं मद्वार्धक्येऽपि च भूयात् । मन्मरणेऽप्येवं मनुजस्य पिता शिशुरिति नियतत्वात् ॥ आशासेऽहं मत्का दिवसा विहितप्रकृतिश्रद्धाः । प्रोता मिथ एवं भूयासुः प्रीणितशिशुयुववृद्धाः ॥ व्याघ्रः मूलं - The Tiger chiat: - William Blake व्याघ्र! व्याघोचलसि लसन् नक्तं विपिने भूरि चन् केनाडमयेण रेण व्यधायि किमुत कटाक्षेण त्वत्क्तनोरतिभयबहुलं दैहिक्सामञ्जस्यमलं दूरे देशे नभसि च या ज्वलति शिखा त्वन्नयनीया १. अलं - पर्याप्तम् । ३१ Page #47 -------------------------------------------------------------------------- ________________ शूरकस्तामादातुं पक्षौ स शशकावाप्तुं बाहा कीदृश्युत सु-कला तव हृदय-सिरा-रचन-बला स्पन्दं हृद्यारब्धवति स्रष्टा हस्तः को भवति? पादे वा धीघोरतरः कः प्राभवदहह! मुद्गरः? कस्यामुमायां तु क्या तव मस्तिष्कं शृङलया स्थितमासीत् ? को दृढमुष्टिः क्रौर्योत्तम्भनपटुदृष्टिः? भगणविसृष्टद्युतिशूले तारानिःसूतजलजाले नभसि लसति यः स किमहसत्? सृष्ट्वाजं यस्त्वामसूजत्! व्याघ्र! व्याघोज्वलसि लसन् नक्तं विपिने भूरि चन् १.बाहा-बाहुः। लण्डन् नगरे मूलं - In London Town cafat: - Mary E Coleridge दिव्यः पक्षी कोऽपि पुराऽभूत् पटलेषु स डयमानश्चाऽऽसीत् ३२ For Private Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ सर्व बाला हर्षात् क्षणतः क्रतालिकया घोषितवन्तः ‘पश्यत पश्यत रुचिरं विहगं नीलिम-भव्यं तत्पक्षयुगम् । तदुरो माणिक्यश्रियमधरत् तन्नयनं कनकच्छविमवहत् प्राप्तप्रचयशिरस्कैरुक्तं 'न मृतः पक्षी योऽसौ धिक् तं विक्रय्योऽयं हन्त तथा सति ।' कश्चन शूरतमस्तेषामति गुलिकां सहसा स तदीयायां मरकतकान्तायां हि शिखायां प्राक्षिपदपतदिव्यो विहगो मनुजपुरस्ताद् यममन्दिरगो, न महानासीन्न च स स्थूलः । क्रुद्धो जन एतेन करालः "स्वादविहीनः, खादानर्हः, शकुनोऽसावेतस्य तु बर्हःकेन ध्रियतां शिरसि विचित्रः?' प्रक्षिप्तस्तैः स स्वःपुत्रः सरितायां जीवी मृतिमाप्नोत्, तेषां सोत्प्रासं हास्यमभूत् । एतल्लण्डन् नगरे विहितं तैर् बालाभिर्बालै रुदितम् । १. सोत्प्रासं - with irony ३३ Page #49 -------------------------------------------------------------------------- ________________ (९) कुसरित् The Brook enfa: - Alfred Tennyson “अहं समागता जलीयपक्षिवृन्दवासतो हठात् किलाक्रमामि चारुगुल्मके स्फुराम्यहम् । उपक्रमामि वानियुद्धमाशु कन्दरे ततो निपातिनी रखलामि शैलकूटतस्तटेष्यहम् ॥” “वहन्त्यहं बहुप्रकारसेतुपत्तनादिभिः सलीलमप्रपूरनिम्नगासमागमोद्धरा । अलक्षितक्रमा तूणप्रभूतिमज्जलाध्वभिः कूतास्खलद्गतिर्नृणां गतागते निरादरा ॥" “अदृश्यदृश्यदेहवत्यपि च्युता विसर्पिणी नदीपथेन चारुनर्तना रवेर्मरीचिभिः । गभीरताविहीनवालुकानिनादतर्पिणी मृगातारकोदये रवान् करोमि वीचिभिः ॥” "अशीघ्रगामिनी भवामि वन्यगुल्मसङ्कुले जलीयसस्यमालिनि क्षमाङ्गणे दृषद्-युते । पुनर्वहामि वक्रिमाणमातनोमि शीतले जले करोमि धावनानि पूर्णवारिणः कूते ॥" १. क्षमा-भूमिः । ३४ Page #50 -------------------------------------------------------------------------- ________________ . (१०) मुमूर्षुः शृगालः मूलं - The Fox at the point of death कविः - John Gay कोऽपि शूगालो मृतिमासन्नः, कूशबलहीनो रुजमापन्नः, क्षुधमत्युग्रामदरे स् धन, वयसा विकृतं वपुरपि च वहन्, चर्वणहनुमान् परितः पोतैः शोकात् संवृत आधिसमेतैःसन्देशं च मुमूर्षोर्जनकात् कर्णे कर्तुं संवदमानात् । स शिरः कथमप्युत्थापितवान् रख इति तत्कण्ठान्निःसृतवान्"पुत्रास्त्यजत कुमार्गान्नित्यम् । शूलति हृदये मम दुष्कृत्यम् । १. शूलमिवाऽऽचरति, क्विम् । कलहंसप्रेतोऽस्ति पुरस्तात् टर्की रुधिराक्तो यो हननात् कुक्कुटपोताक्रन्दनजोऽपि श्रुत्योः शब्दो मम भयमापि ।" क्षुधिता ददृशुस्तं तु शृगालाःखाद्यश्रवणविसर्जितलालाः! “च पितः! खाद्यं वृतमिह? टर्की १. Turkey - कुक्कुटजातीयः पक्षिविशेषः ।। ३५ Page #51 -------------------------------------------------------------------------- ________________ कुकुट-कलहंसौ ? त्वं तर्की । तव मस्तिष्कज-भूतं सकलम् । लिह्यो वयमोष्ठौ बत विफलम् । “अयि घस्मरगण!” वदति शूगालो"दुष्टोऽभ्यासो यम्यो लोलो, बहुशोच्योऽतिक्रमणीयोऽयं दमनं यत्र न किल चित्तीयम् । १. तर्कवान-मुधा कल्पनावान् । विश्वकद्रुरत्यात्यस्माकं वेगं गुलिकाजालौ शोकं कुरुतोड,न्वेषणकारिजनदृशो भेतव्यं किल चौरैः । च वशो मानसिकः शम? इममधुनाऽऽप्नुथ न मुहूर्तमपि च । वार्धक्यं त्वथ दुःखं मे सर्वं नाशयति । प्रीतिर्यदि वो मोदे भवति, क्रियतां वृत्तौ प्रामाणिकता। नष्टा लभ्या पुनरुन्नतता। सद्गौरव-युक्ता जीविष्यथ । समवाप्तयशस्काश्च भविष्यथ ।" कोऽपि शूगालोऽक्थयद् वाक्यं"तव कर्तुं किं स्यान्नः शक्यम् । चिन्तय, नः पूर्वजविहितं धर्मं पाटच्चकुलनिहितम् । १. विश्वक-दुः-मृगयार्थः श्वा । २. bullet ३६ Page #52 -------------------------------------------------------------------------- ________________ वंशानुगमपयश इदमधुना न निवार्य-यन्नियतं विधिनाचरितेऽप्यस्माभिस्तूणमजवत् । चिन्तनवाकर्मभिरतिबलवत् सत्यं पालयितुं सङ्कल्पः क्रियतेऽस्माभिर्नाऽयं जल्पः । कुक्कुटपोतान् मारयितारमः, सम्यग् विभजनमुररीकुर्मः। धीपरिवर्तनमश्रद्धेयं; नष्टं न पुनर्यश आनेयम् ।” "तर्हि जहित व्रमार्गे मोहम् । कुक्कुटरवमशूणवमधुनाऽहम् । कुकुटशावान् सभ्यसण्या खादत, या साधुव्रजगण्या। रे ममापि तन्मांसं भविता पथ्य"मिति जगौ स शृगालपिता !! ३७ Page #53 -------------------------------------------------------------------------- ________________ 1880 NAUR HITENAP D किशोरगीतम् कर्तुमिच्छसि नाम लोके । ___ डॉ.आचार्यरामकिशोरमिश्रः ISRO अवगुणान् कृत्वा हि दूरे सद्गुणान् हृदये निधाय । दुर्जनांस्त्यक्त्वा हि मनसा सङ्गतिं महतां विधाय । सदा सहयोगं कुरुष्व नृणामन्येषां च शोके। कर्तुमिच्छसि नाम लोके ॥१॥ यदि करिष्यसि गुरुजनानां महापुरुषाणां च मानम् । तर्हि त्वां प्रति सर्वलोकाः सर्वदा दास्यन्ति ध्यानम् । निर्धनानां भव सहायक आर्थिक सङ्कटे स्तोके। कर्तुमिच्छसि नाम लोके ॥२॥ सोदरैः सह भरततुल्यं सदा व्यवहारं कुरुष्व । लोकनारी मातृतुल्यां स्वसृसमानां वा भजस्व । सज्जना: सत्पथमयन्ते तादृशा वद सन्त्यहो! के? कर्तुमिच्छसि नाम लोके ॥३॥ ये च मन्यन्ते मनुष्याः परधनं वै मृत्समानम् । शासका: साधवस्तेषां बुधा अपि कुर्वते मानम् । तादृशो भव, यतः सर्पा अवक्रा गच्छन्तु रोके। कर्तुमिच्छसि नाम लोके ॥४॥ (१) स्तोके - अल्पे (२) रोके - विले ३८ Page #54 -------------------------------------------------------------------------- ________________ यादृशो भविताऽसि, तादृक् तव हि परिवारो भविष्यति । त्वादृशा नारी त्वदीया त्वादृशं मित्रं समेष्यति । गुणा भवितारस्त्वदीयास्तादृशास्तावके तोके । कर्तुमिच्छसि नाम लोके ॥५॥ उत्तरभारत एटाजनपद-सोरों-नगरनिवासी, होतीलाल-कलावत्योः पुत्रो मिश्रयोरात्मवान् । काव्य - नाट्य-गीतादिरचयिता रामकिशोरमिश्र इह, किशोरगीतावलिरचनायां किशोरगीतं कृतवान् ॥ (१) तोके अपत्ये । ३९ Page #55 -------------------------------------------------------------------------- ________________ शास्त्रविशारद-कविरल-पीयूषपाणि-पूज्यपादाचार्य/श्रीमद्विजयामृतसूरीश्वराणां पुण्यजीवनलेश -पूज्याचार्यश्रीमद्विजयदेवसूरीश्वरशिष्य आचार्यविजयहेमचन्द्रसूरिः प्रतिपलमपि निजजनुषो, येन व्ययितं परोपकूतिकरणे । तमनुपमोज्ज्वलचरितं, वन्दे विजयामृतं सूरिम् ॥ सकलासुमत्सुखसन्दोहदानप्रपाभं लोकोत्तरं श्रीजिनशासनसाम्राज्यमद्यावधि यदस्खलितं प्रवर्तते तत्र श्रीमद्गुरुभगवतामेव परमोपकारः।। ___ चरमतीर्थपतिश्रीमहावीरप्रभोः पट्टपरम्परायामनेकानेके सूरीश्वराः समभूवन् येषां शरदिन्दुसमुज्ज्वलचरितानि विदित्वा वयमतीवाऽऽश्चर्यचकिता भवामः । श्रीमद्वीरप्रभोःप्रथमपट्टधरः सञ्जातः पञ्चमगणभृत् श्रीसुधर्मस्वामी भगवान्। तदनु चरमकेवलिश्रीजम्बूस्वामीप्रभृतयः गुणगणमणिरोहणायमानाः श्रुतधरपुरुषाः क्रमश: सञ्जाताः । तत्परम्परायामेव विक्रमीये विंशतितमे शतके सञ्जाताः श्रीमन्तः नेमिसूरीश्वरा:, ये हि शासनसम्राडिति बिरुदेन समग्रेऽपि जिनशासने प्रसिद्धाः समभूवन् । तैः परमगुरुप्रवरैः सकलविद्वज्जनचेतश्चमत्कारिवैदुष्यविभूषितैः निजाप्रतिमाद्भुततमसमाचरणेनोपदेशदानादिना च जिनशासनस्य सप्तक्षेत्री नवपल्लविता विहिता। तेषां प्रविरलगुणगणालङ्कतशिष्यसमुदाये गणनापात्रस्थानधारिणः शास्त्रविशारद-कविरत्नपीयूषपाणीतिबिरुदत्रयसमलङ्कताः समजनिषत पूज्यपादाचार्यप्रवरश्रीमद्विजयामृतसूरीश्वरमहाराजाः। क्व लोकोत्तरविशिष्टतरगुणनिकुरम्बेन भृतभृतं तेषामतीवसमुन्नतं जीवनं? क्व चाऽस्मदीया स्वल्पविषया मति: ? तथाऽपि स्वकीयाशक्तिमङ्गीकृत्याऽपि तद्भक्तिवशंवदतया तच्चरितालेखने किञ्चित् प्रयत्यते। ४० Page #56 -------------------------------------------------------------------------- ________________ अस्तीह रम्ये भारतदेशे अहिंसा-सत्यादिगुणानां गाढतरसंस्कारै रमणीयतर: गूर्जरप्रदेशः। तत्राऽपि शौर्य-धैर्य-साहसिकता-निर्भीकतादिगुणगरिष्ठजनोत्पत्तिकारणतया सर्वत्राऽपि प्रसिद्धतर: सौराष्ट्रनामको भूभागः । यत्रोत्पन्नजनानां बाल्यकालादेव यादृशं नैपुण्यं दृष्टिगोचरं जायते तादृशमन्यत्रोत्पन्नानां वृद्धत्वेऽपि सुदुर्लभम्। यत्र विराजते भवोदधियानपात्राभ: श्रीशत्रुञ्जयतीर्थराजः, यस्मिन् प्रतिकङ्करमनन्तानन्तात्मानः तीर्थमाहात्म्यादेव कृत्वा सकलकर्मणां क्षयं प्राप्तवन्त: मोक्षाभिधानं परमपदम् । पुनश्च यत्र बालब्रह्मचारि-द्वाविंशतितमतीर्थकृत्-श्रीनेमिनाथप्रभोः दीक्षा-कैवल्य-निर्वाणरूपकल्याणकत्रितयं समजनि तत् श्रीरैवताचलमहातीर्थं भक्तजननयनमनसोः सुधाञ्जनकल्पं समुद्योतते । यत्र भविकचकोरचन्द्रायमाण-श्रीचन्द्रप्रभस्वामिभगवतामनन्यप्रभावसम्पन्नमूर्तिशोभितं श्रीचन्दप्रभासपत्तनाख्यं तीर्थं विलसति । यत्र श्रीवीरात् अशीत्युत्तरनवतिप्रमितसंवत्सरे समर्थशासनप्रभावक-श्रीदेवर्द्धिगणिक्षमाश्रमणाध्यक्षतायामाचार्यपञ्चशत्या परस्परं विचारविनिमयं कृत्वा सर्वसम्मतिं च संसाध्य भाविकल्याणार्थिजीवानामनुग्रहायाऽऽगमग्रन्थाः पुस्तकारूढा विहिताः, तदैतिहासिकं श्रीवलभीपुराख्यं नगरं वरीवति । यत्र शासनसम्राट्तपागच्छाधिपति-श्रीमद्विजयनेमिसूरीश्वरगुरुभगवतामुपदेशेन ययोस्तीर्थयो: नवनिर्माणरूपो जीर्णोद्धारो विहितस्तौ श्रीशत्रुञ्जयतीर्थाधिराजस्य सजीवनशृङ्ग(ट्रॅक)तया ख्यातं श्रीकदम्बगिरिमहातीर्थं तथा श्रीतालध्वजगिरिश्च विराजमानौ स्तः। तस्य झालावाडेति विदिते प्रदेशे वर्तते बोटाद(बहुताद)सझकं नगरम् । तत्र इक्ष्वाकुवंशविभूषणप्रथमतीर्थपतिश्रीआदिनाथप्रभोः प्राचीन: गगनोत्तुङ्गशृङ्गमण्डित: मनोहरो जिनालयः शोभते। विभिन्नक्षेत्रेषु गणनापात्रा: नैके सन्तः सत्य: महात्मानश्चाऽत्र समभूवन्, ये हि स्वीयविशदोदात्तजीवनवृत्तैः भूमिमिमां सर्वत्र प्रख्यापितवन्तः । ४१ Page #57 -------------------------------------------------------------------------- ________________ - राष्ट्रशायरश्रीझवेरचन्द्र-मेघाणीमहोदयस्येयं कर्मभूमिरासीत् । तथा यः किल बोटादकरकविरूपेण सर्वत्र कविसमाजे विश्रुतोऽभूत् तस्य नदीपर्याय-शैवलिनी-स्रोतस्विन्यादिसञ्ज्ञककाव्यकृतिकलापसर्जकस्य प्रासादिककवे: श्रीखुशालदासात्मज-श्रीदामोदरदासस्येयं जन्मभूमिः। __ अत्र नगरे जिनेन्द्रपूजापरिपूतमानसा: जिनवचनश्रवणव्यसनिन: परमश्रद्धालवो धर्मध्यानपरायणा व्रत-नियमाभरणविभूषिताः श्रमणसेवासमुत्सुकमानसाः श्रावकवर्या निवसन्ति स्म । तेषु देशाईकुलोद्भवः श्राद्धरत्न-वस्तानन्दनभवानभाईनामा सुश्रावको वसति स्म । तस्य सूनुः हेमचन्द्राभिधानः परमसात्त्विको भद्रप्रकृतिः संस्कारसम्पन्नश्चाऽऽसीत् । तस्य भार्या दीवाळीनाम्नी शीलसौभाग्यादिगुणगणसम्पन्ना धर्मपरायणा वात्सल्य-सम्भृतान्त:करणा चाऽऽसीत् । विक्रमीय-नयन-बाण-ग्रह-चन्द्र(१९५२)मिते संवत्सरे माघशुक्लाष्टम्यां गुरुवासरे श्रीहेमचन्द्रगृहे दीवाळीमातुः पवित्रकुक्षौ शुभस्वप्न-दोहद-संसूचितस्वीयपुण्यप्राग्भारभाजनत्व: कोऽपि पुण्यशाली आत्मा प्रासूत । उदितो हि बालदिनकरो यथा स्वस्वर्णमयमयूखसमूहै: सर्वमपि पृथ्वीलोकं कुङ्कमवर्णाभिरक्तं करोति तथैवाऽनेन बालेन सर्वोऽपि निजपरिवारजनः प्रचुरतरस्नेहरागरक्तः कृतः। बालोऽयं भाविनि काले अमृतपदप्रापणाय प्रयतमानो भविष्यतीति विचार्यैव मातापित्रादिभिस्तस्याऽभिधानं 'अमृत' इति स्थापितम्। हेमचन्द्रस्य द्वौ भ्रातरौ आस्ताम् । एको लक्ष्मीचन्द्रः अपरश्च खीमचन्द्रः। द्वावपि श्रद्धालू धर्मपरायणौ श्रमण-श्रमणीभक्ति-वैयावृत्त्यादौ दत्तचित्तौ चाऽऽस्ताम् । तत्राऽपि लक्ष्मीचन्द्रस्तु नीतौ प्रामाणिकतायां च लब्धप्रतिष्ठः समस्तेऽपि नगरे च विवादादीनां समाधानेषु सर्वेषामपि मान्यनिर्णय आसीत्। अमृतकुमारस्याऽन्ये गिरधरलाल:, ताराचन्द्रः,शामजी, कस्तूरचन्द्र इति चत्वारो ज्येष्ठाः वीरचन्द्रनामा पञ्चमश्चेति पञ्च भ्रातर चम्पाभिधाना भगिनी चैकाऽऽसन् । स्वीयभ्रातृभिः सवयोभिश्चाऽन्यैः सार्धं क्रीडन् स द्वितीयाशशीव वृद्धिमवाप्नोत् । ४२ Page #58 -------------------------------------------------------------------------- ________________ १ पूर्वजन्मनः संस्काराणां प्रभावः | जनक-जनन्योरुत्तमैः संस्कारैः सह बाल्येऽपि अमृतप्रवृत्तौ पूर्वजन्मन: संस्काराणां प्रभावो दृश्यते स्म। तैः संस्कारैः स विनाऽपि परप्रेरणां शिशुवयस्यपि दया-दानादिक्रियासु रुचिवान् आसीत् । कमपि प्राणिनं दुःखपीडितं दृष्ट्वा तस्य हृदयं सहसा आर्दीभूतं भवति स्म । षट्पञ्चाशदत्तरैकोनविंशतिशतसंवत्सरीये दुष्काले तस्य चतुर्वर्षदेश्यस्याऽपि बुभुक्षाविह्वलान् जनान् दृष्ट्वा एतेभ्य: यदि किञ्चित् प्रदीयते तदा वरमित्यादय: शुभविचारा: मनसि प्रादुर्भवन्ति स्म। (अयं प्रसङ्गस्तैः सूरीश्वरैः क्वचित् वार्ताप्रसङ्गे स्वमुखेनैव कथित आसीत् ।) अध्ययनम् । प्राथमिकधार्मिकसूत्राणामङ्कानां चाऽभ्यासः गृह एव सम्पन्नः । तदनु प्राय: अष्टवर्षवयसि छगनलाल-नामकस्याऽध्यापकस्य पाठशालायां तस्याऽध्ययनं प्रारब्धम्। अन्यबालकापेक्षया तेन बुद्धेस्तैक्ष्ण्यात अभ्यासे स्थैर्याच्च स्तोकेनैव कालेन शोभनतरमध्ययनं कृतम्। व्यावहारिकाभ्यासेन सह धार्मिकाभ्यासोऽपि अवश्यंकर्तव्य: इत्याशयेन पित्रा जसराजाभिधधार्मिकशिक्षकपार्वे तस्य धार्मिकाभ्यासोऽपि कारितः । ततो तृतीयकक्ष्यां यावत् बोटादनगरेऽध्ययनं कृत्वा व्यवसायार्थं उगामेडीतिनामकं ग्रामं गतवता पित्रा सह सोऽपि गतवान् । तत्रैव चाऽग्रेतनमध्ययनं प्रारब्धम् । किन्तु तत्र तस्य मनो न लग्नमतो पुनरपि स बोटादनगरं प्रतिनिवृत्तः । तत्र च पुरातनपाठशालायामेवाऽभ्यासः प्रारब्धः । षण्मासानन्तरं पाठशालायां गतवानपि मतिनैपुण्येन सर्वानपि पाठान् शीघ्रमेव हृदयसात् कृतवान् सः।। श बाल्येऽपि सत्यनिष्ठा व तदा तु प्रायः द्वादशवर्षीयः स पञ्चमकक्ष्यायां पठन्नासीत् । एकदा परीक्षाकालेऽध्यापक: प्रष्टव्यप्रश्नानामुत्तराणि स्वयमेव कृष्णपट्टिकायां लिखित्वा छात्रेभ्यो दर्शयन्नासीत् । एतद् दृष्ट्वा तस्य मनसि खेदः समुत्पन्नो यत् 'अरे! किमिदमसमञ्जसमत्र विधीयते? न ह्येतादृग व्यवहारोऽध्यापकेन कर्तुमुचितः । परीक्षा तु विद्यार्थिनामभ्यासस्य परीक्षणार्थं विधीयते। तत्र यदि एवंरीत्योत्तराणि लिखित्वा दर्श्यन्ते तदा को लाभ: परीक्षाया:? तदात्वे तस्य तादृक् ४३ Page #59 -------------------------------------------------------------------------- ________________ सामर्थ्यं नाऽऽसीत् यथा तत्प्रसङ्गं स प्रतिकुर्यात्, अतः स विषण्णः सञ्जातः । संसारं प्रति वैराग्यम् अनित्यो हि संसारे संसारिणां स्नेहभावः । स तु स्वार्थमय एव । सति स्वार्थे तादृशं स्नेहभावं प्रदर्शयेत् यथा तेन सदृश: जगति कोऽपि नाऽन्यो भवेत् । स्वार्थे तु सृते स एव तं प्रत्यभिज्ञातुमपि नैवाऽभिलषेत् । यदि सर्वदा सर्वेषामखण्डस्नेहभावो वर्तेत तदा तीर्थकृतः चक्रवर्तिनश्च कथं तत्परित्यागं कुर्युः ? सन्ध्याभ्रराग इव क्षणविध्वंसिनी हि सांसारिकस्नेहस्य स्थितिः । क्षणे क्षणे तत्र परिवर्तनं भवति । इत: अमृत: स्वज्येष्ठभ्रातुर्गृहे कञ्चित् कालमुषित्वा पुन: उगामेडीग्रामे स्वजनक - जनन्योः पार्श्वे गतवान् सः । किन्तु तत्र तयोस्तादृशं वात्सल्यमननुभवन् स संसारान्निर्विण्णोऽभवत् । तन्मनसि तदैवंविधो विचारः समुत्पन्नो यथा 'अहो ! किमिदं दृश्यते मया ? ये स्वजना: पूर्वं मयि भृशं स्नेहभावभृता आसन् त एवाऽधुना अपरिचिता इव व्यवहारं कुर्वन्ति !! तर्हि किं प्रयोजनमत्र निवासेन ? स्नेहभावविरहितैर्जनैः सार्धं निवासात्तु वरं गृहत्याग एव' इति । स्वकीयमित्रवर्गः सर्वेषामेव जीवने दृश्यते यत् तेषां जीवनं शोभनमशोभनं वा यज्जातं तत्र मित्रवर्गस्य सुमहन्निमित्तत्वम् । अमृतलालस्य तदा बोटादनगरे समशील - वयो- रसाश्चत्वारः सुहृद आसन् । एकः नरोत्तमदासः, द्वितीयः लवजी, तृतीय: गुलाबचन्द्रः चतुर्थश्च झवेरचन्द्रः । एते पञ्चाऽपि वैराग्यभावसंभृता गृहात् निर्गत्य दीक्षाग्रहणस्य योग्यमवसरं प्रतिपलं प्रतीक्षमाणा आसन् । यद्यपि सर्वेषां मातापित्रादयः स्वजना न कथमपि तेभ्य एतदर्थं सम्मतिं दातुं सज्जा: । तेषां सविधे संयमग्रहणस्य वार्ताकरणमपि दुर्लभम् । यदि कदाचित् दीक्षसम्बन्धि एकमक्षरमपि मुखान्निर्गच्छेत् तदा तेषामुपरि सर्वेऽपि रोषारुणचाक्षुषभावं भजेयुः । सर्वेऽपि स्वजना एतान् स्वविचारात् प्रच्यावयितुं विविधानुपायानुपयुञ्जन्ति स्म, तथाऽपि एते पञ्च तादृशदृढमनोबलशालिन आसन् यत् स्वविचारात् मनागपि शिथिला नैव समभूवन् । यदा कदापि समयः ४४ Page #60 -------------------------------------------------------------------------- ________________ प्राप्यते तदा सर्वेऽपि गुप्तरीत्या रहसि सम्मील्य परस्परं नैजं वृत्तान्तं प्रकाश्याऽग्रेतनं कार्यक्रमं निर्धारयन्ति स्म, यतः कः खलु समर्थ: मेरुनिश्चलमनोबलवतः पुरुषान् स्वनिश्चयात् चालयितुम्? गुरुवर्याणां बोटादे पादावधारणम् येषां दर्शनेन सर्वेऽपि जनाः स्वं जन्म जीवनं च धन्यं मन्यन्ते स्म ते पूज्यपादाः शासनसम्राजः श्रीमद्विजयनेमिसूरीश्वराः विक्रमीये रस-दर्शन-ग्रह-शशाङ्क (१९६६) मिते वर्षे बोटादनगरं समागताः । तत्रत्या भाविकाः जनाः भक्तिभरोल्लसितहृदया गुरुवरान् नन्तुं तेषां भक्तिं च कर्तुं अहमहमिकया इतस्ततो धावन्ति स्म । समग्रेऽपि नगरे गुरुसमागमजन्यो महानुत्साहः प्रवर्तमानोऽ ऽभूत् । न केवलं जैनाः किन्तु जैनेतरा अपि सर्वतः समागत्य महता महेन गुरुसमागमप्रसङ्गं वर्धापयन्ति स्म । भक्त्युल्लसितमानसास्ते स्थाने स्थाने तोरणालङ्कृतानि मण्डपानि रचयाञ्चक्रुः । तथा विचित्रवर्णैर्ध्वजपताकादिभिश्च समग्रमपि नगरं शोभायमानं व्यधापयन् । ग्रामान्तरादागताः ग्रामीणजना: अदृष्टपूर्वां नगरशोभामिमां निरीक्ष्य परस्परं वार्तयन्ति स्म यद् नाऽस्माभिरेतादृशी नगरशोभा कदाऽपि दृष्टपूर्वा - इति । अहो ! धन्या एते जैनमतानुयायिनः सुश्रावकाः, यैर्भूरितरद्रव्यव्ययं विधाय नगरमिदं सुरलोकतुल्यमतिमनोहरं विहितम् इत्यादि । जिनशासनस्य गुरुभगवतां च बाढस्वरोच्चारितैः जयजयारावैर्वाद्यनिनादैशश्च समग्रमपि नगराकाशं शब्दाद्वैतमयमिव सञ्जातम् । लघुलघुवयस्का बाला अपि हर्षोन्मत्तीभूय नृत्यन्त उत्पतन्तश्च भृशमानन्दमैयरुः । स्फारनेपथ्यालङ्कृता अप्सरस इव शोभमानास्तन्नगरनार्यः सुमधुरस्वरेण गुरुभक्तिगीतानि गायन्ति स्म । केचित् प्रबलभक्त्युल्लसन्मानसाः पुरुषाः दण्डिकाः पहाँश्च करयोर्धृत्वा वर्तुलाकारं विरचय्य गुरुभगवतामग्रे गीतगानपुरस्सरं रासलीलां वितेनुः । किं बहुना ? तदा यज्जातं तत् किल वर्णयितुमशक्यमेव । दृष्ट्वैतत् स्वागतममृतलालोऽपि कामं प्रीतमानस बभूव । तदा तेन मनोरथरूपेण मनसि भावितमपि यद् "मज्जीवनेऽपि यद्येतादृक् सुसमयः पुण्योदयात् समागच्छेत् तदा नूनमहं धन्यातिधन्यो भवेयम् । " तदा केनेदं ज्ञातमासीत् यदनेन विलोकितः स्वप्नः सुचारुतया सफलीभविष्यति ! ४५ Page #61 -------------------------------------------------------------------------- ________________ - शगुरुणां ज्येष्टस्थितिकृते स्थिरता से एतादृशा महान्तः प्रभूतगुणगणसमलङ्कृताः पूज्यगुरुभगवन्तः स्वकीयनगरे चातुर्मास्यं करिष्यन्तीति विज्ञाय तन्नगरनिवासिनो नरनार्यः अपूर्वानन्दोल्लाससम्भृतमानसाः समभूवन् । चतुर्दशवर्षवया अमृतलालोऽपि स्वमित्रैः सार्धं गुरुभगवतां पार्वे गमनागमनादिकं तद्भक्ति-वैयावृत्त्यादिकं तत्सत्सङ्गं च करोति स्म । गुरुभगवतां सान्निध्यममृतलालाय भृशं रोचते स्म। अत: स भोजनादि कर्तुमेव गृहं गत्वा झटिति तत् सम्पाद्य च उपाश्रयमागच्छति स्म आदिनं च मुनीनां पार्श्व एव उपविशति स्म। तदा हि गुरुभगवतां शिष्यसमुदये श्रीसुमतिविजयश्रीसिद्धिविजय-श्रीदर्शनविजय-श्रीविज्ञानविजय-श्रीप्रभावविजय-श्रीउदयविजयाभिधाना मुनयो बाल्यात्तसंयमा निरन्तरं स्वाध्यायाध्ययनादिषु लीनचित्ता आसन् । शासनसम्राजोऽपि हि पूर्णयौवनमये समये वर्तमाना आसन् । पञ्चत्रिंशद्वर्षवयस्येव ते आचार्यपदवीं प्राप्य उत्तरोत्तरं वर्धमानप्रभावा अभवन् । ननु एतादृशां नैष्ठिकब्रह्मचर्यादि-गुणगरिष्ठानां प्रभावप्रसरे को नाम विकल्पः ? तस्यां चतुर्मास्यां ते पूज्यपादाः सूत्राधिकारे श्रीप्रज्ञापनासूत्रं भावनाधिकारे च श्रीजम्बूस्वामिचरित्रमधिकृत्य व्याख्यानं वाचयामासुः। सिंहगर्जनोद्घोषितं विषयवैविध्येन विशदवैदुष्येन च पूर्णपूर्णं तेषां प्रवचनमाकर्ण्य केषां मनसि न प्रादुर्भवेदहोभावः? तदा अमृतलालोऽपि निजवयस्यैः सह नियतरूपेण व्याख्यानश्रवणं करोति स्म । यद्यपि प्रज्ञापनासूत्रस्य गहनपदार्थानामवबोधे तस्य मतिरपरिपक्वाऽसमर्था चाऽऽसीत् तथाऽपि जम्बूस्वामिचरित्रव्याख्यानं तु स नित्यमव्यवहितमनसाऽशृणोत् । तत्रापि जम्बूस्वामिनः पूर्वभववर्णने व्यावणितं भवदेव-नागिलयोः शिवकुमारस्य च चरितमाकर्ण्य स भृशं चकितविरक्तमानसो बभूव । एतच्चरित्रश्रवणत एव तस्य हदि वैराग्याङ्कराः प्रास्फुटन् । श व्यावहारिकाभ्यासः पञ्चमकक्ष्यां यावत् व्यावहारिकाभ्यासं कृत्वा तदनन्तरं स धार्मिकाभ्यास एव दत्तचित्तोऽभवत् । सर्वे स्वजनाः तस्य मनोऽन्यत्र वालनार्थं तं लक्ष्मीचन्द्र श्रेष्ठिनो वस्त्रहट्टे उपावेशयन् । स्वजनानामयं प्रयत्नस्त्वमृतलालस्येष्टं वैद्योपदिष्टमिव समजनि । यतः लक्ष्मीचन्द्रसदृशधर्मनिष्ठपुरुषस्याऽनायासेनैव सान्निध्यमवसादितं तेन। ततश्च प्रसङ्गे प्रसङ्गे तेन सह वार्तालापेन तद्व्यवहारदर्शनेन च तस्य धर्मनिष्ठायाः प्रामाणिकतायाः सत्यवादितायाश्च संस्काराः स्वजीवने ४६ Page #62 -------------------------------------------------------------------------- ________________ Anne समवतेरुः । हट्टोपवेशनसमये च क्वचित् कदाचिदवकाशवेलायां लक्ष्मीचन्द्रोऽमृतलालं शिक्षयितुं विविधविषयवार्तागुम्फितानि शिक्षावचनानि कथयामास । तथा तस्याऽध्यात्मकल्पद्रुम-उपदेशमालादिग्रन्थानां पठनावसरोऽपि प्राप्तः । एतेन तस्य वैराग्यभावनायाः पुष्टिः समजायत। इतो मोहपरवशाः स्वजना अमृतलालं तदीय मित्रचतुष्कं च मोहपाशे नियोक्तुं भृशं प्रायतन्त । एतेऽपि पञ्च परस्परं रहसि सम्मील्य कस्य गृहे किं किं सञ्जातम्? परिजनाश्च तं किं किं कथयन्ति शिक्षयन्ति ताडयन्ति वा ? स्वयं च स तान् किं किं प्रत्युत्तरितवान् - इत्यादिकं संभाष्य भाविकार्यक्रम निश्चिन्वन्ति स्म । पञ्चसु च तेषु मित्रेषु अमृतलाल एव वयसा ज्येष्ठोऽतो सर्वेऽपि ते तन्मार्गदर्शनमधिगत्यैव स्वं स्वं व्यूह रचयामासुः । यद्यपि सर्वेषां मातापित्रादयः स्वजना: श्रद्धालवो धर्मपरायणा व्याख्यानश्रवणरसिका: गुरुभक्तिवैयावृत्त्यादिषु च समुल्लसितमानसा आसन् ,तथा प्राप्तस्य मनुजजन्मनः फलं न हि प्रव्रज्याग्रहणाद् ऋतेऽन्यत् किमपीति सर्वे ते दृढतया जानन्त्यपि स्म। तथाऽपि मोहस्य गतेर्वैचित्र्यात् स्वपुत्रस्य दीक्षाग्रहणवार्तामपि श्रोतुमशक्ताः ते, तदा का वार्ता तदनुमतिप्रदानस्य ? यथा यथा एते दृढवैराग्यवन्तोऽभवन् तथा तथा तेषां स्वजनास्तान् दृढमोहबन्धनैर्बद्धं प्रयत्नान् कुर्वन्तो धर्मक्रियाकरणेऽपि अवरोधं कुर्वन्ति स्म । किन्तु एते तत्सर्वमकिञ्चित्करं मत्वा स्वनिर्धारितविचारणायां पुरः पुर एव प्रस्थिताः। १ कर्पटवाणिज्यनगरे गुरुवराणां पायें गमनम् । तदानीं पूज्यपादगुरुवरा: कर्पटवाणिज्यनगरे चतुर्मास्यर्थं विराजमाना आसन् । स संवत्सरः ग्रह-रस-निधि-विधु(१९६९)मित आसीत् । अमृतलालस्य मनसि गुरुवराणां दर्शनकरणार्थमतीव लालसा समुत्पन्ना । किन्तु तदात्वे तत्र गमनं तु सुकरं नाऽऽसीदेव । इतो निर्गत्य तत्र संगमने मध्ये भूयांसो विघ्ना अनेकानेके च प्रतिबन्धका अभवन् । अस्य तु न तद्विषयकं किञ्चिज्ज्ञानमासीत् । अतः किं कर्तव्यम् ? केनाऽध्वना कथं च तत्र गन्तव्यम् ? इत्यादिकं सर्वमपि अज्ञातचरमेवाऽऽसीत् । तथाऽपि दृढमनोबलस्य उदारसत्त्वस्य च पुरुषस्याऽग्रे साधनशैथिल्यस्य किं सामर्थ्यम् ? यत: नीतिशास्त्रेणाऽपि महतां कार्यसिद्धौ सत्त्वस्यैव हेतुत्वं निर्धारितं न तु साधनानाम् । साधनानि तु सत्त्वावलम्बितान्येव । ४७ Page #63 -------------------------------------------------------------------------- ________________ 'येन केनाऽप्युपायेन मया तत्र गन्तव्यमेवेति कृतनिर्धारः स ततो गुप्तरीत्या निर्गत्य बहिर्गमनानुभववैकल्येऽपि स्वमतिचातुर्येण सर्वं सम्पाद्य गुरुवर्याणां चरणकमलयोः समुपस्थितोऽभवत् । पूज्यगुरुवराणां नयनसुधाञ्जनकल्पेन पुण्यदर्शनेन वचोऽतिगामानन्दानुभूतिं सोऽन्वभवत् । पूज्यगुरुभिरपि वात्सल्यपूर्णदृष्टिपातेन मधुरवचोभिश्च स भृशं सन्तोषितः । कतिपयदिवसैः भूयो भूयो विचार्य मनसा निर्धारितं कार्यं सुष्ठुरीत्या सम्पन्नम् - इति विचारयतोऽमृतलालस्य मनसि मुहुर्मुहुः हर्षोद्वारा : समायान्ति स्म । नाऽमात् तस्य चित्ते आनन्दः । इतस्तस्य स्वजना गृहान्तर्बहिश्च तमलभमाना, 'नूनं स गुरूणां सविध एव गतो भवेद्' इति विमृश्य कर्पटवाणिज्यपुरं सम्प्राप्ताः । तान् सर्वान् दृष्ट्वाऽमृतलालेन चिन्तितं 'यत् सम्भावितं तदेव जातमिति नाऽत्र किमप्याश्चर्यकरमेतत् । ' तैः पृष्टम् - 'रे! कथं कमप्यनापृच्छ्यैव सहसाऽत्राऽऽगतोऽसि ?' एतन्निशम्याऽमृतलालेनाऽपि विना क्षोभं प्रत्युत्तरं दत्तम् - ‘गुरुभगवतां दर्शनोत्कण्ठयैवाऽत्राऽऽगतोऽस्मि ।' ते च तम्– 'त्वादृशस्य विनीतस्यैवं करणं नोचितम् । यत्किमपि कार्यं त्वया कर्तव्यं भवेत् तदस्माकमनुमत्यैव करणीयं, नैवमेव' इति कथयित्वा तमादाय राजनगरमायाताः । ततो निःसृत्य तारङ्गातीर्थयात्रां कृत्वा गृहमुपेताः । गृहागमनानन्तरं स्वजनैरमृतलालस्य रक्षणाय विशेषरूपेण सज्जता विहिता । कतिचिद् दिवसानन्तरं जनकादिना किमपि विचार्य अमृतलाल: भावनगरनगरे धार्मिकाध्यापकस्य निजज्येष्ठबान्धवस्य श्रीशामजी - इत्यस्य समीपे प्रेषितः । तत्र गमनमपि तस्य इष्टं वैद्योपदिष्टमिव सञ्जातम् । ज्येष्ठभ्राता हि तदा भावनगरे सुविश्रुत आसीत् । तन्नगरवास्तव्या भूयांसो बुद्धिशालिनस्तत्त्वजिज्ञासवश्च प्रतिदिनं तस्य पार्श्वे समागत्य धार्मिकाध्ययनं संस्कृताध्ययनं च कुर्वन्ति स्म । अमृतलालस्याऽपि तत्समीपे निवासो भूरितरलाभजनको जात: । अध्ययनं तु तत्र तेन विहितमेव किन्तु तत्समागमतः तस्योत्तमसंस्कारप्राप्तिः वैराग्यभावाभिवृद्धिरपि सम्यक्तया सञ्जाता । कतिपयदिनानन्तरं स पुनरपि बोयदनगरं समायातः । अनुकूलसंयोगप्राप्तिः नीतिशास्त्रेऽप्येवमुच्यते यद् 'यस्य भावि सुन्दरं वर्तते तस्य सहजतया सानुकूलाः संयोगा: सम्पद्यन्ते । अमृतलालस्याऽपि एवमेव जातम् । ग्रामानुग्रामं विहरन्त एकदा पूज्याचार्यप्रवरश्रीमद्विजयनीतिसूरीश्वरास्तत्र समाजग्मुः । तैरमृतलालस्य वृत्तान्तः कुतोऽपि विदित्वा वन्दनार्थं ४८ Page #64 -------------------------------------------------------------------------- ________________ समागता श्रीहेमचन्ददेशाई-प्रभृतयः समाख्याताः 'श्रूयते यद् भवतां तनयोऽमृतलालो भावनाशीलो वर्तते, यदि भवद्भ्यो रोचते तदा तमस्माभिः सह प्रेष्यताम् । अस्माकं सविधे शास्त्रिणो वर्तन्ते, ते च वः सूनुममृतलालमपि सुतरां पाठयिष्यन्ति ' इति । तेऽपि गुरूणां वचः सरलतया स्वीकृत्याऽमृतलालं गुरुभिः सह प्रहितवन्तः । त्यागितपस्विगुरुभगवद्भिः सह विहारकरणस्याऽऽनन्दं तु योऽनुभवति स एव जानाति । गुरुभिः सह विहरन् अमृतलालो क्रमशो वलभीपुरं समाजगाम । तदा तन्नगरस्य 'वळा' इति सञ्ज्ञाऽऽसीत् । तत्र मासत्रयं स्थिरतां कृतवन्तः पूज्यगरुभगवन्तः । अमृतलालस्य तु तत्रत्या स्थिरता विशिष्टलाभदायिनी सञ्जाता । तद्ग्रामवास्तव्यः पण्डित श्रीभगवानदासस्तदा तत्रैव निवसन्नासीत् । तत्पार्श्वेऽमृतलालेन संस्कृतमार्गोपदेशिकाया अध्ययनं कृतम् । ततो विहृत्य गुरवो वीरमगामनगरं प्राप्ताः । चतुर्मास्यपि तत्रैव गमिता । तदा पण्डित श्रीप्रभुदासपार्श्वे मन्दिरान्तः प्रवेशिकाऽभ्यस्ताऽमृतलालेन । तत्रैकदा तस्य ज्वरबाधाऽभवत् । भूरितरौषधोपचारैरपि कथमपि निरामयतामलभमान स स्वास्थ्यलाभाय भोयणीतीर्थमागतः । तत्रत्यशान्त-निर्दूषणवातावरणस्य प्रभावेन स सज्जो जातः । तदा योऽवकाशो लब्धस्तत्र स्वामिरामतीर्थ - विवेकानन्दादीनां साहित्यपठनेन स निजवैराग्यभावनां दार्यान्वितामकरोत् । ततः स मोरबीनगरे प्रयातः । तदा तत्र विराजमानानां श्रीमतां सन्मित्र श्रीकर्पूरविजयमहाराजानां समागमोऽभवत् । स तैः सार्धं कच्छदेशे माण्डवीग्रामं यावद् गत्वा पुनरपि मोरबीपुरमायातः । तत्सन्निधौ मासद्वयं यावत् निवासेन तेषां त्याग- वैराग्यपूर्णजीवनेन स स्वमनसि सुष्ठु प्रभावितः । तत्र निवाससमये यदा कदाचित् ग्रामबहिर्भागे गत्वा स श्मशान भूमावपि निर्भीकतया कायोत्सर्गादि कुर्वन्नासीत् । इतस्तस्य स्वजनाः कुतोऽपि तत्समाचारं लब्ध्वा धावं धावं मोरबीग्राममागतास्तमादाय च बोटादनगरं समागच्छन्। नरोत्तमदासस्य हितशिक्षा पूज्यगुरुणां पार्श्वे प्रेषणं च एकदोपाश्रये सामायिकस्थं तं किमप्यध्ययनं कुर्वन्तं दृष्ट्वा तत्पितृव्यपुत्रो नरोत्तमदासो हितबुद्ध्या तमकथयत् - "अरे भद्र ! किमर्थमितस्ततोऽटित्वा वृथा समयं निर्गमयसि ? यद्यभ्यासं चिकीस्तदा शासनसम्राजां पूज्यगुरुभगवतां पार्श्व एव गत्वा तत्र स्थिरीभूय स्वस्थ ४९ Page #65 -------------------------------------------------------------------------- ________________ तयाऽभ्यासं कुरु, इतस्ततो भ्रमणेन तु तवाऽमूल्य: समयो निष्फल एव व्ययीभविष्यति ।" तदीया हितशिक्षा तस्मै भृशमरोचत । नरोत्तमदासेन चाऽपि तज्जनकादीन् बोधयित्वा तस्य गुरुभगवतां पार्श्वेऽभ्यासार्थं गमनं निश्चायितम्। __ततो निर्णीते शुभदिवसे सर्वेऽपि स्वजना सम्बन्धिनश्च सम्भूयाऽपूर्वानन्दोल्लासेन कुङ्कमतिलककरण-श्रीफलार्पणादिपूर्वकं सम्मान्याऽमृतलालं प्रस्थापयामासुः । यद्यपि तेषां सर्वेषां हृदि अमृतलालोऽयं गुरूणां समीपेऽध्ययनार्थं गच्छतीत्येतावन्मात्रमेव सञ्जानमासीत् , किन्तु अमृतलालस्तु स्वमनसि स्वकीयदीक्षार्थमेवेदं प्रस्थानमिति निश्चितवानासीत् । प्रयाणसमये स्वस्मिन् गाढस्नेहवती भगिनी चम्पा बाढं रोदनं कृतवती तेन च सर्वेऽपि गद्गदा: सञ्जाताः । ततो जनकादीनामाशीर्वादं गृहीत्वा नमस्कारमहामन्त्रस्मरणपूर्वकं गृहान्निःसृत्या-ऽग्निरथयानद्वारा पिण्डवाडानगरं प्राप्तः । तत उष्ट्रमारुह्य ब्राह्मणवाडातीर्थमागत्य चरमतीर्थपति-श्रीमहावीरस्वामिनां दर्शनपूजनादिकं कृतवान् । ततः सीरोहीनगरं गत्वा क्रमशो जावालनगरमासदत् । तत्रैव पूज्यगुरुभगवन्तो विराजमाना आसन् । अतः स शीघ्रमुपाश्रयं गत्वा शासनसम्राजां गुरुभगवतां दर्शन-वन्दनादिकं कृत्वा तादृशं वचनातिगमाह्लादं प्राप्तवान् येन क्षणमात्रादेव तस्याऽध्वखेदो व्यपनुनोद । तदर्शनं हि तस्य, बुभुक्षाक्षामकुक्षेः घृतपूरभोजनमिव, तीव्रपिपासाकुलितस्य शीतलमधुरजलपानमिव, मध्यन्दिनदिनकरखरकिरणसन्तप्तस्य विशालवटवृक्षच्छायामिव सञ्जातम् । गुरुचरणारविन्दयोः प्रणामं कृत्वाऽऽशिषं च लब्ध्वा धन्यम्मन्यः सोऽतीवाऽमोदत। पूज्यगुरुभगवताऽपि च पीयूषवृष्टयेव निजाप्रतिमप्रसादपूर्णदृष्ट्या स काममभिषिच्यत । ततो पृष्टवन्तो भगवन्तस्तं मधुरवचसा - "र! आगतस्त्वम् ? दीक्षार्थं सज्जीभूयाऽऽगतोऽसि न वा?" __ "आम् आम् भगवन्तः! भवतां प्रसादेन पूर्णतया सज्जीभूतोऽस्मि । अतो भवद्भिः क्षणमात्रस्याऽपि विलम्बो नैव कर्तव्यः।" तस्यैतादृशोत्साहपूर्णवचनैर्गुरुवरा अन्येऽपि च सर्वे भृशं प्रीणिताः। ततो गुरुभिः पन्न्यासश्रीउदयविजयगणीनाहूयाऽमृतलालस्य दीक्षामुहूर्तं निरीक्षितुमाज्ञप्तम् । तैश्च पञ्चाङ्गमवलोक्य विज्ञप्तम् - "गुरुवरा:! एतदर्थं श्वो दिनमर्थात् ज्येष्ठकृष्णषष्ठीतिथिरेवाऽत्यन्तं शुभतिथिर्वर्तते।" एतन्निशम्याऽमृतलालस्य मनोमयूर: कामं नर्तितुमारब्धः । www.jainelibrary.ofg Page #66 -------------------------------------------------------------------------- ________________ स चिन्तितवान् यद् – 'यन्मयेप्सितमासीत् तदतिशीघ्रतयैव सम्पत्स्यते ।' ततो गुरुभिरपि जावालनगराग्रण्यः समाहूता अमृतलालस्य दीक्षाग्रहणोदन्तश्च ज्ञापितस्तेभ्यः । एतच्छ्रुत्वा तेऽपि परमोत्साहं दधतो झटिति तन्निमित्तां सामग्री प्रगुणीकृतवन्तः । श पारमेश्वरीप्रव्रज्या व यदि कतिचनदिवसा: मध्येऽभविष्यन् तदा तु तन्निमित्तकं प्रभुभक्तिमहोत्सवं भूरिद्रव्यव्ययेनाऽपि तत्रत्याः श्रावका अकरिष्यन्, किन्तु मुहूर्तमुत्तममासीदतो पूज्यपादशासनसम्राङ्गुरुभगवद्भिः सोत्साहं अमृतलालाय पारमेश्वरी प्रव्रज्या प्रदत्ता। तत्राऽपि तन्नामतो रागसूचकं लालशब्दमपहाय विरक्तचित्तोऽसौ सुविशुद्धसंयमाराधनेन मोहमहीपतिचमूं पराभूय विजयं प्राप्नुयादिति चिन्तयित्वा तन्नामाग्रे 'विजय'पदं नियोज्य, तथा भविष्यत्कालेऽयमवश्यमेवाऽमृतत्वं प्राप्स्यतीति तन्नाम्नि वर्तमानं 'अमृते'तिपदं यथावस्थितं रक्षित्वा तस्याऽन्वर्थमभिधानं 'अमृतविजय'इति विहितम् । प्रव्रज्याप्रदानसमये गुरूणां करकमलाभ्यां रजोहरणं सम्प्राप्य परं प्रीणितोऽसौ तथाऽनृत्यद् यथा तं दृष्ट्वा सर्वेऽपि विसिष्मियुः । क्षुधितस्येष्टभोजनप्राप्तिवत् अमृतलालस्याऽपि हृदये संयमं प्राप्याऽऽनन्दमहासागरः समुच्छलितोऽभवत्। तदनन्तरं तु स निरन्तरं संयमसाधनसावधानो गुरुसेवाकरणतत्परो ज्ञानाभ्याससंलीनश्चाऽभूत् । एतत् सर्वं तस्य "मातुलगृहे भोजनं माता च परिवेषिका" इतिवत् ईप्सितमेव सञ्जातम्। बोटादतः स्वजनानामागमनम् । अमृतलालेन दीक्षा गृहीताऽस्तीति समाचार: कियत्कालव्यपगमानन्तरं बोटादवास्तव्यानां स्वजनानां श्रुतिगोचरोऽभवत् । तदात्वे तु वर्तमानकालवत् समाचारप्रेषणव्यवस्था नाऽऽसीत् । हेमचन्द्रदेशाई-प्रभृतयः कुटुम्बिनः सर्वे 'संसारेऽस्मिन् नाऽस्ति कश्चित् सारः, सारस्तु केवलं संयमग्रहण एव' इति जानन्तोऽपि मोहपरवशा अमृतलालस्य संयमस्वीकारवार्ता निशम्य क्षुब्धा अभवन् । सर्वे च सम्मिल्य शीघ्रतरमेव जावालग्रामे सूरीश्वराणां सन्निधौ समागताः। यदा ते सर्वे उपाश्रये समागतास्तदा सूरीश्वराः स्वशिष्यसमुदायाय श्रीप्रज्ञापनासूत्रस्य वाचनां ५१ For P IVate & Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ दातुं प्रवृत्ता आसन्। अत: कञ्चित्कालं सर्वेऽपि तत्रैव तूष्णीं भूत्वा उपविष्टाः । मुनिसमुदायमध्ये उपविष्टं श्रमणवेषे शोभायमानं च नूतनमुनीभूतं स्वपुत्रं दृष्ट्वा सर्वेऽपि परमां प्रीतिं प्रापुः । वाचनानन्तरं पूज्यगुरुभगवद्भिः तान् प्रति कथितं - "भो भो महानुभावा:! यूयं महाभाग्यशालिन: स्थ यद् युष्मत्कुटुम्बमध्यादयमेकः संसारान्निःसृत्य संयम स्वीकृतवान् । बहो: कालादेवाऽस्य हृदि संयमस्वीकारस्य विचारस्तु आसीदेव, किन्तु तादृशयोगाभावात् स सफलो न भूतः । अधुना तु परमपुण्योदय-प्रबलबुरुषार्थयोः संयोगेन स सफलीभूतोऽस्ति। येषां कुटुम्बमध्यात् पुत्राः पुत्र्यश्च दीक्षां गृह्णन्ति तेषां प्रशंसां स्वर्गलोके देवा देवेन्द्राश्च सदैव कुर्वन्ति । अतो मा यूयं खिन्ना भूत" इति । गुरुभगवतामीदृशैर्वचनैः परं प्रीणिताः सर्वे भूयो भूयो गुरुचरणयोः प्रणामान् विदधुस्तेषां महोपकारं च मेनिरे। ततो सर्वेऽपि नूतनमुनि सबहुमानमकथयन् - "अयि भ्रात:! दीक्षा तु त्वया महता पराक्रमेण गृहीतैव । अथ सिंहवत् तत्पालनमपि विधेयम् । अत्र मनागपि प्रमादो नैव कर्तव्यः । अतिचारवर्जनपूर्वकं संयमपालने ज्ञानाध्ययने च प्रयतितव्यम् । अस्माकं कुलंच द्योतितव्यम् । एतादृशा गुरुभगवन्त: महापुण्योदयं विना नैव कदाचिदपि लभ्यन्ते " इति । शास्त्राभ्यासः संयमाराधना च ज्ञानं हि दीपकवदुद्योतकम् । तेनैव जीवनपथः प्रकाशितो भवति । तदेव च मूलं सर्वेषां विवेक-वैराग्यादिगुणानाम् । ज्ञानेनैव भवभ्रमणहेतुभूता विषयकषायाद्यान्तरशत्रवः परास्ता भवन्ति । ज्ञानस्य सर्वातिशायिमाहात्म्यप्रदर्शनाय महोपाध्यायश्रीयशोविजयवाचकैः कथितमपि ज्ञानसारे - पीयूषमसमुद्रोत्थं रसायनमनौषधम्। अनन्यापेक्षमैश्वर्यं ज्ञानमाहुर्मनीषिणः ॥(५/८) आत्मनो येऽनन्ता गुणाः सन्ति तेषु ज्ञानदर्शनयोर्मुख्यता, तयोर्द्वयोर्मध्येऽपि च ज्ञानस्यैव मुख्यत्वम् । यतो दर्शनस्य सम्प्राप्तिरपि प्रायो ज्ञानेनैव भवति । ज्ञानमेव हि अप्राप्तदर्शनचारित्रादिगुणानां प्रापणे प्राप्तानां च तेषां रक्षणे प्रबलो हेतुः। अतस्तदुपार्जने सर्वथा यतितव्यमेव । ५२ Page #68 -------------------------------------------------------------------------- ________________ इति मनसि निधाय शासनसम्राजो गुरुभगवन्तः सर्वदा स्वशिष्यान् ज्ञानाभ्यासार्थं प्रेरयन्ति स्म । स्वयमपि च शिष्याणामध्यापने भृशं प्रयतन्ते स्म। ___ वयं ह्येतत् समीचीनतया जानीमो यद् गुरूणां कृपादृष्ट्यैव विशदावदाता बुद्धिनिर्मलं ज्ञानं च लभ्यते । ये च गुरुभगवत्सु समर्पितहृदया तेषु गुरुकृपामृतधारा विनाऽऽयासेनैव वर्षति। ततश्च ज्ञानाभ्यासोऽपि तेषां निर्विघ्नतया वर्धते । एतत् सर्वं स्वीयनिर्मलबुद्ध्या स्वयमेव जानानेन नूतनमुनिश्रीअमृतविजयेन तीव्रक्षयोपशम-प्रबलपुरुषार्थयोर्बलेन गुरुकृपामृतपानेन च स्तोकेनैव कालेन ज्ञानाभ्यासे शोभना प्रगतिः कृता । प्रारम्भे आवश्यकसूत्राणां ततश्च संस्कृतव्याकरणादिशास्त्राणां चाऽध्ययनं कृतम् । मरुधरदेशीयविशुद्धजल-वायुप्रभावेण तस्य स्वास्थ्यमपि समीचीनं सञ्जातं यच्च दीक्षाग्रहणपूर्वं किञ्चित् प्रतिकूलमासीत् । चतुर्मास्यनन्तरं कातिकृष्णद्वितीयादिने मुनिश्रीअमृतविजयस्योपस्थापना विहिता। तदवसरे बोटादत: समागता देशाईलक्ष्मीचन्द्र-हेमचन्द्र-नरोत्तमदासप्रमुखा: सर्वेऽपि स्वजना: स्वीयमुनिवरस्य संयमस्थैर्याभ्यासलीनता-चित्तप्रसादादिकं च निरीक्ष्याऽतिवेलमानन्दमधिजग्मुः । ततो गुरुभगवन्तो विहृत्य सादडीग्रामं प्राप्ताः । तत्र मुनिश्रीनन्दनविजयस्याऽपि आगमनं सञ्जातम् (यः पूर्वं अमृतलालस्य मित्रं नरोत्तम आसीत् )। बहोरनेहसः पश्चात् स्वस्य प्राक्तनस्य प्रगाढमित्रस्य मिलनेन द्वयोरपि परमो हर्षोऽभूत् । सरसं स्वस्वदीक्षादिव्यतिकरं वर्णयतोस्तयोईयो: कियान् कालो व्यतीतस्तदपि न ज्ञातम्। तौ द्वावपि परस्परस्य नैपुण्यं धैर्य कार्यसाफल्यं च प्रशशंसतुः । नूनं द्वयोः समवयस्कवयस्ययोर्मित्रयोः कीदृक् सारूप्यम् ! द्वावपि गुप्तरीत्या गृहान्निर्गत्य मनोदाढ्र्येण प्रबलपुरुषार्थं स्फोरयित्वा संयम स्वीचक्रतुः । रास्वमित्र-लवजी-इत्यस्य दीक्षा शासनसम्राजां विक्रमीयरस-दर्शन-ग्रह-शशाङ्क-(१९६६)मितसंवत्सरे बोटादग्रामे चतुर्मास्यां ये पञ्च सुहृदः प्रतिबुद्धा: संयमग्रहणे च बद्धपरिकरा: दृढप्रतिज्ञावन्तश्च समभूवन् तेषु त्रयाणां दीक्षा सञ्जाता किन्तु चतुर्थो लवजी-इति अवशिष्ट आसीत् । स यथाकथमपि गृहात् पलाय्य सादडीग्रामे गुरुचरणयोः समुपस्थितः । मधुरवचसा गुरुभिराभाषित: स परमां प्रसत्तिं प्राप। ततस्तेनाऽवनतशिरसा योजितकरकुड्मलद्वयेन च विज्ञप्ता गुरुभगवन्तः - "हे कृपालवो गुरुवर्याः! मयि कृपां कृत्वा प्रयच्छतुतरां मे पारमेश्वरी प्रव्रज्याम् । विद्यते तत्कृते For h e & Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ मम मनसि दृढो निर्धारः । अथ चाऽस्मिन् कार्ये कृतो मनागपि विलम्बो मामसह्यः प्रतिभाति । भवन्तस्तु जानन्त्येव यन्मम गृहान्निर्गमनमत्राऽऽगमनं च नैव सुकरम्। भूयसा परिश्रमेण कथं कथमपीह भगवत्पादयोः समुपस्थितोऽस्मि। अतः प्रयच्छतु शीघ्रं मे दीक्षाम् । मा किमप्यधुना विचारयन्तु भवन्तः । सर्वं शोभनमेव भविष्यति ।" __ प्रबलवैराग्यवन्तं दृढमनोबलयुतं च तं दृष्ट्वा गुरुवर्यै रहस्येव तस्मै दीक्षा प्रदत्ता, तन्नाम च 'मुनिलावण्यविजयः' इति स्थापितम् । एतत् सर्वं तथा गुप्ततया विहितं यथा प्रत्यहमुपाश्रयमागच्छतामप्येतद्वृत्तं नैव ज्ञातम् । एतस्मिन् गुप्तावासे तस्य नूतनमुनेः सर्वमपि कार्यजातं मुनिअमृतविजयेन विना कयाचित् प्रत्युपकारापेक्षया सम्पादितम् । अतो मुनिलावण्यविजयस्य हृदि अमृतविजयं प्रति भूयान् सद्भावो प्रकटितः। ___ 'गुरूणां प्रसादः सर्वासां सिद्धीनां मूलमादिम्' इति सर्वेषां सहृदयहृदयानां विदितचरमेव । तस्य च गुरुप्रसादस्य मूलं विनय एव। अयं विनयो मुनिश्रीअमृतविजयेन निजजीवने तथाऽनन्यभावेन परिणामितो यथा स गुरुभगवतां सर्वेषां चाऽन्येषां मुनिवराणां परमस्नेहास्पदमभूत्। योगोदहन गन्धरचना च अथ सादडीग्रामस्य चतुर्मासीस्थिरतायां त्रीणि कार्याणि तस्य सुचारुतया सञ्जातानि । अभ्यासो योगोद्वहनं ग्रन्थरचना च । ततः शासनसम्राङ्गुरुभगवद्भिर्विरचितस्याऽष्टसहस्रश्लोकप्रमाणस्य बृहद्हेमप्रभाव्याकरणस्याऽध्ययनं पण्डितवर्यश्रीशशिनाथ-झा-इत्यभिधशास्त्रिणः सविधे प्रारब्धम् । प्रतिरात्रं च स मुनिनन्दनविजय-गुणविजय-लावण्यविजयैः सह नियतरूपेण शब्दतोऽर्थतश्च पठितग्रन्थानां स्वाध्यायमावृत्तिं चाऽपि करोति स्म।। तथा गुरूणां पार्वे सतीर्थ्यमुनिवरैः सह श्रीउत्तराध्ययनसूत्रस्य श्रीआचाराङ्गसूत्रस्य च योगोद्वहनमपि कृतवान् सः। दीक्षाग्रहणात् पूर्वं कियन्तं कालं यद् भावनगरे ज्येष्ठभ्रातुः शामजी-इत्यस्य गृहे तेन निवासः कृतस्तदा तस्य कवित्वस्य परिचयेनाऽस्याऽपि मनसि काव्यरचनारुचि: प्रादुर्भूता आसीत् । ततस्तेन स्वल्पः प्रयत्नोऽपि अस्यां दिशि कृत आसीत् । सा रुचिरस्यां चतुर्मास्यां विशेषरूपेणाऽङ्करिता पल्लविता च । अतो मुनिअमृतविजयेन आबाल-वृद्धरुचितानां ५४ Page #70 -------------------------------------------------------------------------- ________________ प्रभुसम्मुखं गीयमानानां चतुर्विशतिजिनस्तुतीनां रचना तदा कृता। संस्कृतभाषायामन्यान्यपि श्लोक-स्तुति-स्तवनादीनि विरचितानि । तानि दृष्ट्वा गुरुभगवद्भिरन्यैश्च मुनिवर्यैर्बाढं प्रशंसितानि हर्षोत्फुल्लितमानसैश्च कथितम् - "अहो ! अमृतविजयेनैतावता स्तोककालेनैव सर्वेषां विस्मयकरीयं काव्यरचना कृता । एता रचना: प्रासादिकता-प्रयोगशुद्धिरचनासौष्ठवादिभिर्गुणैः प्राक्तनकवीनामिव दरीदृश्यन्ते।" ___ चतुर्मास्यनन्तरं जेसलमेरतीर्थयात्रा षड्-री-पालकसङ्घन सह पूज्यगुरुभगवतां निश्रायां विहिता । तदनु फलवृद्धिनगरे चतुर्मासी स्थिरता कृता । तत्र च बृहद्हेमप्रभाव्याकरणाभ्यास: समाप्तः । यतो निर्धारितकाले स पूर्णो नाऽभवदतो नियमपालनाय तेन मासद्वयं यावद् घृतत्यागो विहितः । पूर्णे चाऽभ्यासे ततो नियमात् स विमुक्तः । अहो ! नियमपालनदायम् । ततो विहृत्य बिकानेर-नागोर-बिलाडा-कापरडातीर्थादिक्षेत्रेषु स्पर्शनां विधाय वेदर्षि-ग्रहचन्द्र(१९७४)मिते वैक्रमीये संवत्सरे पालीनगरे चतुर्मासी विहिता । अस्यां चतुर्मास्यां तस्य न्यायदर्शनस्या-5ध्ययनं सञ्जातम्। १ न्यायदर्शनाध्ययनम् । न्यायदर्शनस्याऽध्ययनार्थं मतितैक्ष्ण्यमपेक्षितम् । न हि तद्विना तत्र प्रवेशोऽपि भवितुमर्हति । नव्यन्यायस्तु इतोऽपि कठिनतरः । बहवोऽभ्यासिनस्तदध्ययनं प्रारभ्य स्तोकेनैव कालेन तस्य दुरवगाहित्वं विलोक्य तस्माद् विरता भवन्ति । मुनिअमृतविजये बुद्धितैक्ष्ण्यमनवरतप्रयासो गुरुप्रसादश्चेति त्रयाणां गुणानां विरल: सङ्गम आसीत् । तेन स स्वल्पैरेव प्रयासैर्गहनग्रन्थानामप्यभ्यासाय सिद्धोऽभवत् ।। __पालीनगरे स मुनिलावण्यविजयेन सह शास्त्रिणां पार्श्वे न्यायसिद्धान्तमुक्तावल्या अभ्यासमकरोत् । तदा प्रतिदिनं स पञ्चाशच्छ्लोकमितं पाठं शास्त्रिणे श्रावयामास । ततो बाणर्षितत्त्व-मृगाङ्क(१९७५)मिते वर्षे राजनगरे चतुर्मासीस्थिरतायां तेन गुरुभगवतां सविधे किरातार्जुनीयमहाकाव्यमधीतं शास्त्रिसमीपे च सिद्धान्तमुक्तावल्या दिनकरी-रामरुद्रीटीकेऽभ्यस्ते । तदनन्तरं रसषि-ग्रह-चन्द्र(१९७६)मिते वर्षे उदयपुरे चतुर्मासी विहिता। तत्र स व्याप्तिपञ्चक-सिद्धान्तलक्षण-व्युत्पत्तिवादाभिधानानां ग्रन्थानामध्ययनमकरोत् । तत्राऽपि Page #71 -------------------------------------------------------------------------- ________________ व्याप्तिपञ्चकं तु अष्टसु दिनेष्वेवाऽधीतं, तच्च सर्वेषां विस्मयकारकं सञ्जातम् । ततो मङ्गलषिग्रहेन्दु(१९७८)मिते वर्षेऽभूच्चातुर्मास्यं स्तम्भनपुरे(खंभातनगरे) । तत्र स न्यायविशारदतार्किकशिरोमणि-पूज्योपाध्यायश्रीयशोविजयवाचकैविरचितं न्यायखण्डनखण्डखाद्याख्यं ग्रन्थं श्रीमदुदयनाचार्यविरचितं न्यायकुसुमाञ्जलिग्रन्थं च समभ्यस्तवान् । १ योगोदहनं पदप्राप्तिश्च । संयमजीवने आगमसूत्राणां पठनार्थं प्रथमं योगेनाऽऽराधनमवश्यकर्तव्यतया प्रतिष्ठापितमस्ति पूर्वाचार्यैः । अतः प्रायः सर्वेऽपि मुनयो योगोद्वहनं कुर्वन्त्येव । मुनिश्रीअमृतविजयेनाऽपि संयमजीवनस्य द्वितीयस्मिन् वर्ष एव श्रीउत्तराध्ययनसूत्रस्य श्रीआचाराङ्गसूत्रस्य च योगोद्वहनं गुरूणां प्रसादतो विहितम् । ततो मुन्यर्षि-तत्त्व-शशाङ्क(१९७७)मिते वर्षे श्रीकल्पसूत्रश्रीमहानिशीथसूत्रयोर्योगाराधनं कृतम्। ततो यथानुकूलं श्रीसूत्रकृताङ्गसूत्र-श्रीस्थानाङ्गसूत्रश्रीसमवायाङ्गसूत्रादीनां योगाराधनं कृतम्। अथ बाण-मङ्गल-नन्द-विधु(१९८५)मिते वर्षे श्रीमद्गुरुभगवद्भिस्तस्य योग्यतां ज्ञात्वा कृपां विधाय श्रीकदम्बगिरितीर्थे पञ्चमाङ्गश्रीभगवतीसूत्रस्य योगोद्वहनाय समह: प्रवेश: कारितः । अयं हि योगो दीर्घकालिक आगाढोऽत्यन्तं महत्त्वयुतश्च वर्तते । अस्माद् योगात् सुमहति कारणे उपस्थितेऽपि जीवितव्ययेनाऽपि न कदाचिनिष्क्रान्तव्यम् । तस्मिन् पूर्णीभूत एव ततो निक्षेपः कार्यते । इतो यद्यपि मुनिअमृतविजयस्य स्वास्थ्यं तादृशं समीचीनं नाऽऽसीत् तथाऽपि परमकरुणावतां श्रीदेव-गुरूणां कृपया स्वीयचित्तोत्साहेन च विशेषबाधां विनैव योगाराधनं सानन्दं सम्पन्नम् । ततश्च गुरुभगवद्भिः तस्मिन्नेव वर्षे आषाढशुक्लचतुर्थ्यां मधुमतीनगरे तस्मै श्रीभगवतीसूत्रनुज्ञापूर्वं गणिपदप्रदानं विहितम् । तत आषाढशुक्लस्यैवाष्टमीतिथौ तस्मै पन्न्यासपदमपि प्रदत्तम् । ख-नन्द-नन्देन्दु(१९९०)मिते वर्षे गुरुभगवद्भिर्जावालनगरे चतुर्मासीस्थिरता कृता । तदा पन्न्यासश्रीअमृतविजयेनाऽवशिष्टानामागमसूत्राणां योगोद्वहनं कृत्वा पञ्चचत्वारिंशदागमसूत्राणां योगाराधनं पूर्णीकृतम् । ५६ Page #72 -------------------------------------------------------------------------- ________________ ततो अन्यत्र विहृत्य षड्वर्षानन्तरंचन्द्र-ग्रह-नन्देन्दु(१९९१)मिते वर्षे श्रीमद्गुरुभगवन्तः पुनरपि मधुमतीनगरं समाजग्मुः। तदा तत्रैव उपाध्यायश्रीविज्ञानविजयगणये आचार्यपदप्रदानं पत्र्यासश्रीअमृतविजयगणि-पन्न्यासश्रीलावण्यविजयगणिभ्यां चोपाध्यायपदप्रदानं कृतम् । तदवसरे मधुमतीनगरस्थजैनसङ्घन भूरिद्रव्यव्ययपूर्व महामहोत्सवोऽपि विहितः । उपाध्यायपदप्राप्त्यनन्तरमाचार्यपदप्राप्त्यवसरस्तु स्तोकेनैव कालेन समुपस्थितोऽभवत् । वैक्रमीये नयन-ग्रह-ग्रहार्यम(१९९२)मिते संवत्सरे पूज्यगुरुभगवन्तो राजनगरे विराजमाना आसन् । उपाध्यायश्रीअमृतविजयगणिस्त्वन्यत्र विहरन्नासीत् । तदा गुरुभगवतां हृदि तस्मै आचार्यपदप्रदानस्याऽभिलाषो जातः । अतो भक्तश्रावकान् प्रेषयित्वा "तुभ्यं सूरिपदं दातुकामोऽस्मि, झटिति राजनगरमागच्छ” इति सन्देशः प्रहितः। तं श्रुत्वा सोऽपि "यथा गुरुवर्याणामाज्ञा, आज्ञा गुरूणामविचारणीया" इति प्रत्यत्तुरं दत्त्वा शीघ्रमेव विहारं कृत्वा राजनगरमागच्छत् । राजनगरे तु सूरिपदप्रदानार्थं सर्वमपि सामग्रीजातं सज्जीभूतमेवाऽऽसीत् । ततो भव्यजिनेन्द्रभक्तिमहोत्सवपूर्वकं वैशाखशुक्लचतुर्थीदिने शुभे मुहूर्ते पूज्यगुरुभगवद्भिः स्वकरकुड्मलाभ्यामेव श्रीजेशिंगभाई-श्रेष्ठिनो विशाले वाटिकापरिसरे उपाध्यायश्रीपद्मविजयगणि-पाठकश्रीलावण्यविजयगणिभ्यां सह तस्मै अपि आचार्यपदं प्रदात्तम् । तत्राऽवसरे आचार्यश्रीविजयपद्मसूरये शास्त्रविशारद-कविदिवाकर-इति-बिरुदद्वयं, आचार्यश्रीविजयामृतसूरये शास्त्रविशारद-कविरत्न-इति-बिरुदद्वयं तथा आचार्यश्रीविजयलावण्यसूरये शास्त्रविशारदकविरत्न-व्याकरणवाचस्पति-इति-बिरुदत्रयं चाऽपि प्रदत्तम् । ततश्च उपाध्यायश्रीअमृतविजयगणिः शास्त्रविशारद-कविरत्न-आचार्यश्रीमद्विजयामृतसूरीत्याह्वया जगति प्रसिद्धाऽभवन् । किञ्च पद्मरागमणीनामाकरे पद्मरागस्यैवोत्पत्तिरिव शासनसम्राजां श्रीमद्गुरुभगवतां शिष्यसमुदाये सर्वेऽपि प्रवरगुणगणालङ्कता: श्रमणा अभवन् । गुरुवर्यैः स्वयमेव निजकरकमलाभ्यां येभ्यः सूरिपदं प्रदत्तं तेषु सप्तसु कश्चिन्नैयायिकः, कश्चित् सिद्धान्तविशारदः, कश्चित्तु न्यायव्याकरण-साहित्येषु निष्णात:, कश्चिच्च वैयाकरणः, कश्चित् काव्यरचनायां ग्रन्थसर्जने वृत्तिरचने च निष्णातः तथा कश्चित् प्रवचनकरणे चाऽपि सुतरां वैदग्ध्यं दधन्नासीत् । ५७ Page #73 -------------------------------------------------------------------------- ________________ शनिजपितुर्भागवती दीक्षा पूज्यवाचकवरश्रीउमास्वातिभिः स्वरचिते प्रशमरतिप्रकरणे "दुष्प्रतिकारौ मातापितरौ" इति कथनेन मातापित्रोरुपकारस्य प्रत्युपकारो दुःखेन कर्तुं शक्य इति प्रतिपादितमस्ति। तथा श्रीस्थानाङ्गसूत्रेऽपि प्रतिपादितं यद् 'लौकिकरीत्या स्नान-भोजनालङ्कार-तीर्थयात्रादिनानाविधोपचारैर्यावज्जीवं पर्युपासनापरोऽपि पुत्रो पित्रोरुपकारस्याऽनृणी नैव भवति । किन्तु यदा तौ धर्माभिमुखीकरणेन संयमाद्याराधनायां पूर्णतया सहयोगी भवति तदैव यत्किञ्चिद् रूपेण तयोरुपकारस्य प्रतिकारः कृतो भवति । श्रीअमृतसूरीणां संसारिपिता श्रीहेमचन्द्रश्रेष्ठी वयोवृद्धः सञ्जात आसीत्। यद्यपि वयोवृद्धत्वं संयमादानाय प्रतिकूलं तथाऽपि तन्मनस्येको दृढनिर्धार आसीद् यद् ‘परलोकाय प्रयाणं तु मुनिवेषग्रहणं विना नैव कर्तव्यम् ।' अतो गुरुभगवद्भिस्तस्मै दीक्षां दत्त्वा आचार्यश्रीविजयोदयसूरीणां शिष्यत्वेन च स्थापयित्वा तन्नाम मुनिश्रीहर्षविजयः इति प्रस्थापितम्। दीक्षाप्राप्त्या स अतीव हृष्टोऽभवत् । इतो विजयामृतसूरयोऽपि तदीयसेवा-शुश्रूषादिषु तत्परा आसन् । अतस्तस्य हृदि अपारः सन्तोषोऽभवत् । __ अथ सोऽपि मुनिः स्वभावनम्रता-परमसारल्य-परोपकारपरायणतादिगुणौघेन सर्वेषां प्रीतिपात्रमभूत् । ततः पञ्चवर्षान् यावत् दीक्षां चारुरीत्या परिपाल्य जावालग्रामे सपरिवाराणां गुरुभगवतां पुण्यनिश्रायां नमस्कारमहामन्त्रश्रवणपूर्वकं समाधिभावेन कालधर्मं प्राप। । प्रवरी गुणानुराग: अपूर्वः उपदेशप्रभावश्च । आचार्यश्रीविजयामृतसूरयो अतीव उदारा सरला गुणानुरागिणश्चाऽऽसन् । यदा कदाऽपि यस्य कस्याऽपि स्वल्पोऽपि गुणो दृष्टिविषयः श्रुतिविषयो वा भवेत् तदा ते मुक्तकार्पण्यमौदार्य विधाय तं सर्वदा प्रशंसयामासुः। स स्वसमुदायस्य परसमुदायस्य वा भवेत् , अरे! परगच्छीयो वा परधर्मीयो वाऽपि भवेत् , तथाऽपि स यदि गुणी तदा तत्सत्कान् तत्तद्गुणान् आश्रित्य तं ते काममनुमोदयामासुः । कञ्चिद् प्रज्ञावन्तमध्ययनरुचिं च बालश्रमणं यदि ते पश्यन्ति स्म तदा तस्योपरि पूर्णां कृपावृष्टिं वर्षयामासुः । अनेन प्रमोदभावाकर्षणेनैव नैकश: स्वीयपरकीया आचार्यादिसाधवस्तेषामुपरि परमां प्रीतिं दधानास्तेषां स्वीयमानिनस्तान् वन्दनार्थं ५८ Page #74 -------------------------------------------------------------------------- ________________ मिलनार्थं तैः सह तत्त्वचर्चादिकरणार्थं च विना सङ्कोचं समागच्छन्ति स्म । धन्यम्मन्याश्च भवन्ति स्म। एवंविधास्ते गूर्जर-सौराष्ट्र-मरुधर-मुम्बापुरी-खानदेशप्रभृतिक्षेत्रेषु बहुशो विहृत्य धर्मोपदेशदानेन तत्रत्यान् सङ्घान् प्रतिबोध्य चाऽनेकानेकानि धर्मकार्याणि कारयामासुः । यथा मुम्बापुर्युपनगर-बोरीवली(पूर्व)स्थ-दोलतनगरमध्ये सम्प्रति यानि कानिचिज्जिनमन्दिरज्ञानमन्दिरोपाश्रयप्रभृतीनि धर्मस्थानानि विद्यन्ते तानि सर्वाण्यपि श्रीमत्सूरीश्वराणां पवित्रप्रेरणयैव सञ्जातानि । तेषां परमप्रभावेणाऽधिष्ठितं तत्रत्यं जिनमन्दिरमद्याऽपि अपूर्वप्रभावशालि सर्वैरनुभूयते। तत: पादलिप्तपुरे तीर्थाधिराजश्रीशत्रुञ्जयगिरिराजस्य तलहट्टिकायां पूज्यसूरीश्वराणां मार्गदर्शनेन प्रेरणया च चतुर्भूमिक-श्रीकेसरियाआदिनाथजिनमहाप्रासादपरिमण्डितं श्रीकेसरियाजीनगरं नामैकं धर्माराधनसङ्कलं प्रतिष्ठापितं यदद्याऽपि पादलिप्तपुरे प्रधानाराधनाधामतया विराजते। शविशिष्टः शिष्यपरिवारःवि संसारं परित्यज्य स्वपार्वे आगता जीवा सर्वदा ज्ञान-दर्शन-चारित्र-तपस्सु सततमुद्यता भवेयुः, तथा ते सर्वेऽपि शास्त्राध्ययन-ग्रन्थलेखन-साहित्यसर्जनादिष्वेव निजजीवनं यापयित्वा शासनप्रभावनादिकार्याणि च निरलसतया विधाय स्वजीवनमुद्योतितं कुर्युरित्येषा भावना तेषां हृदि सर्वदा वहति स्म । अतस्ते सर्वानपि निजशिष्यानेतदर्थं सर्वदा प्रेरयामासुः । अनेन तेषां विशालसङ्ख्यक: शिष्यपरिवारः संयमतपोनिष्ठो निर्दूष्यवैदुष्यविभूषितो विशिष्टतमग्रन्थरचनाकौशलकलित: प्रवचनप्रभावनानिरतः प्रविरलगुणगरिष्ठो वर्तमानकालीनजैनसङ्घाय च स्पृहणीय: सम्माननीयश्चाऽस्ति । एतेषु आचार्यश्रीविजयरामसूरि-श्रीविजयदेवसूरि-श्रीविजयधर्मधुरन्धरसूरिप्रमुखाः सूरिवरा अन्येऽपि मुनिवराश्च जिनशासननभोङ्गणे शुक्रतारकायमाना आसन् सन्ति च । तत्राऽपि तेषां श्रीमतां पूर्णकृपाभाजनत्वं आचार्यश्रीविजयधर्मधुरन्धरसूरिरदधत् । पूज्यगुरुवर्यैर्मुम्बापुर्यां महामहोत्सवपूर्वं तस्मै प्रदत्तस्याऽऽचार्यपदस्याऽवसरोऽद्याऽपि न विस्म्रियतेऽस्माभिः । ५९ Page #75 -------------------------------------------------------------------------- ________________ १ ग्रन्थरचनाकौशलम् व सरससाहित्यसर्जनस्योत्तमग्रन्थरचनायाश्च शक्तिस्तु तेषां निसर्गत एवाऽऽसीत् । निजाग्रजशामजी-इत्यस्य कवित्व स्य परिचयेन प्रभावेण तथा श्रीमद्गुरुभगवतां च कृपया सा क्रमशो विकसिता पुष्पिता फलिता च नैकग्रन्थरूपैः । तत्र काव्यसाहित्ये गूर्जरभाषायां प्रसादगुणकलितानि मनोहराणि च स्तुतिचतुर्विंशतिका-वैराग्यशतकात्मनिन्दाद्वात्रिंशिकादृष्टान्तावलि-चतुर्विंशतिजिन-स्तवनानि श्रीशत्रुञ्जयादितीर्थस्तवनानि संस्कृतभाषायां च चैत्यवन्दनानि कतिचित् स्तवनानि च रचितानि सन्ति । वृत्तिरचनायां तु सप्तसन्धानमहाकाव्योपरि सरणिवृत्तिः, नैषधीयपादपूर्तिरूपस्य श्रीशान्तिनाथमहाकाव्यस्य विद्वद्विनोदिनीवृत्तिः, श्रीहारिभद्रीयसर्वज्ञसिद्धिग्रन्थस्य सर्वहितावृत्तिः, शास्त्रवार्तासमुच्चयस्य स्याद्वादकल्पलताटीकोपरि कल्पलतावतारिकावृत्तिः इत्येता वृत्तयस्तैर्विरचिताः प्रकाशिताश्च सन्ति । गूर्जरभाषायामपि पर्युषणाष्टाह्निकाव्याख्यानं, कल्पसूत्रस्य खीमशाहीभाषान्तरं, प्रतिष्ठाशान्तिस्नात्रादिविधिसमुच्चयः उन्नतिदर्शनम्- इत्यादयो ग्रन्थास्तैः सम्पादिताः सन्ति । शश्रीसिद्धगिरिराजच्छायायां स्थिरवासः | पूज्यश्रीसूरीश्वराः स्वजीवनस्य सन्ध्याकाले प्रायः सप्ताष्टौ चतुर्मासी: पादलिप्तपुर एव यापितवन्तः। ते सपरिवारा नयन-नेत्राकाश-नयन(२०२२)मिते वैक्रमे वर्षे सूर्यपुरे(सूरतनगरे) चातुर्मास्यं विधाय ततः श्रीझघडीयातीर्थ-षड्-री-पालकसङ्घन सह विहारं कृत्वा पादलिप्तपुरं समाजग्मुः । तत आरभ्यस्ते प्रायस्तत्रैव स्थिरतां कृतवन्तः। तत्रत्ये स्थिरताकाले प्रतिष्ठाञ्जनशलाका-दीक्षा-बृहद्दीक्षा-पदप्रदान-तीर्थमालादीनि प्रभूतानि सुकार्याणि तेषां पवित्रनिश्रायां सञ्जातानि। पूर्वं वर्षत्रयं ते श्रीशत्रुञ्जयविहारे स्थितवन्तस्ततश्च श्रीकेसरियाजीमहाप्रासादसमीपवर्तिन्यां श्रीअमृतपुण्योदयज्ञानशालायां समागताः । तत्पट्टधराचार्यश्रीमद्विजयधुरन्धरसूरीश्वरा अपि तैः सार्धं तत्रैव समातिष्ठन् । अन्तराले एका चतुर्मासी भावनगरे यापिता। स ६० Page #76 -------------------------------------------------------------------------- ________________ रसाक्षि-गगन-नयन(२०२६) मिते वैक्रमाब्दे वैशाखकृष्णसप्तमीदिने श्रीकेसरियाजीप्रासादे तेषां शुभनिश्रायां शतचतुष्टयमितानां प्रतिमानामञ्जनशलाकापूर्विका प्रतिष्ठा महतोत्साहेन प्रवरमहोत्सवेन सह भूरितरद्रव्यव्ययेन सञ्जाता । परः सहस्रा जनास्तस्मिन्नुत्सवे समागता अद्वितीयं च तं महोत्सवं निरीक्ष्य कामं मुदितमानसाऽभवन् । तत आरभ्य प्रतिवर्षं प्रतिष्ठाया वार्षिकप्रसङ्गेऽञ्जनशलाकामहोत्सवः समभवत् । स्वास्थ्यहानिः स्वर्गगमनं च अथाऽऽकाश-लोक-गगन - नेत्र (२०३०) मितं संवत्सरं यावत् ते पूज्याः परं स्वास्थ्यं बिभ्राणा निजसाधनं साधयन्तो भव्यानुपदिशन्तो विराजमाना आसन्। अष्टोत्तरसप्ततिवर्षायुष्यपि तेषां मनसि भूयानुत्साह आसीत् । किन्तु केनाऽपि कारणेन मृगशीर्षकृष्णत्रयोदशीदिने तेषां शरीरे ज्वरार्तिरभूत् । तत आरभ्य तेषां शरीरमस्वस्थं सञ्जातम् । इतो नैके आचार्या तेषां सुखसातं प्रष्टुं तैः सह शासनस्य गभीरप्रश्नानां चर्चा- विचारणादि च कर्तुमायान्ति स्म । किन्तु तेषां मनः तादृक् स्वस्थमासीद् यत् केनाऽपि ते रुग्णाः सन्ति इति न ज्ञातम् । अथ तेषां शरीरशैथिल्यं ज्ञात्वा आचार्यमहोदयाः श्रीहेमसागरसूरीश्वराः, श्रीभुवनभानुसूरीश्वराः, श्री शान्तिविमलसूरीश्वराः, श्रीप्रभवचन्द्रसूरीश्वरा अन्ये च बहवः श्रमणाः श्रमण्यः श्रावकाः श्राविकाश्च तान् वन्दितुं सुखसातापृच्छादि कर्तुं चाऽऽगच्छन्ति स्म । ये ये आगच्छन् ते सर्वेऽपि नमस्कारमहामन्त्रं पञ्चसूत्रं पुण्यप्रकाशस्तवनं इत्यादिका - नन्तिमाराधनास्वरूपान् स्तोत्रान् तेभ्य श्रावयन्ति स्म । आचाय श्रविजयधर्मधुरन्धरसूरीश्वरा अपि तेभ्यः स्वविरचितानि वैराग्यशतकात्मनिन्दाद्वात्रिंशिका - पद्यानि यदा तदा श्रावयन्ति स्म । तानि श्रुत्वा तेऽपि तैः सह तत्पद्यान्युच्चरन्ति स्म । यद्यपि शरीरस्वास्थ्यमतीव विघटमानमासीत् तथाऽपि ते पूर्णां स्वस्थतां समाधिभावनां चाऽधारयन् । एतद् दृष्ट्वा जना विस्मिता भवन्तस्तान् प्राशंसयन् । "जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च" इति वचनानुसारेण न हि कस्यचिदपि जन्मधारिणो जगतीह सर्वदा स्थास्नुत्वं सम्भवेत् । तथाऽप्येतादृशां परमोपकारिणां शासनप्रभावकपुरुषाणां स्वर्गमनं सर्वेषां बाढं मनोव्यथाजनकं भवत्येव । पोषशुक्लाया षष्ठ्यास्तिथेस्तद्दिनमासीत् । न केनाऽपि स्वप्नेऽपि विचारितं यदद्य पूज्यसूरीश्वराणामन्तिमो ६१ Page #77 -------------------------------------------------------------------------- ________________ दिनोऽस्तीति । किन्तु अचिन्तितमेव घटयति विधिः । प्रातस्तु तेषां देहे समीचीना स्फूर्तिरासीत् । वदनमपि तेजोमण्डलवलयितमासीत् । औषधादिकं गृहीत्वाऽल्पं किञ्चिद् भुक्त्वा च ते स्वस्थतया स्वीयासनोपरि समुपविष्टा आसन् । बहव आचार्या मुनयः साध्व्यः श्रावकादयश्च तान् वन्दितुमुपस्थिताः । सर्वेऽप्यागत्य तान् नमस्कारमहामन्त्रं श्रावयन्ति स्म । तेऽपि चाऽनिर्वचनीये तत्त्वे दत्तावधाना इव चक्षुषी निमील्य किमपि ध्यायन्तः परमशान्तमुद्रायां विराजमाना आसन्। तदा चिकित्सकैस्तेषां देहपरीक्षणं कृत्वा कथितं यद् - "अधुना यत्किमपि कर्तव्यमवशिष्टं भवेत् तत् कुर्वन्तु, यतोऽद्य न भूयसी आशा विद्यते" इति । एतन्निशम्य सर्वेऽपि चिन्ताचान्तस्वान्ता: परिम्लानवदना अश्रुपूर्णनयनाश्च सञ्जाताः । नमस्कारमहामन्त्र श्रावणं चाऽस्थगितं वरीवति स्म । आः ! अनभिलषितः क्षण आगतः सः । प्राय एकपञ्चाशदधिकत्रिवादने पूज्यास्तेऽसारं जगद् विनश्वरं च देहं विहायाऽस्मांश्च रुदतो मुक्त्वा स्वर्गातिथ्यं भेजुः । सर्वेऽपि शोकातुराः किंकर्तव्यविमूढाश्च सञ्जाताः सर्वत्र चाऽयं समाचार: प्रसृतः । मुम्बाईराजनगर-भावनगर-बोटाद-मधुमतीप्रभृतिनगरेभ्यः सौराष्ट्रस्य नैकग्रामेभ्यश्च बहवो जनास्तेषामन्तिमदर्शनार्थं समागताः पादलिप्तपुरे । तेषां पुण्यदेहस्य दर्शनं कृत्वा धन्यम्मन्या जनास्तेषां वियोगेन अथ 'केषां चरणयोर्वन्दनं कृत्वा वयं धर्मोपदेशं श्रोष्याम: ?' इति विचिन्त्य विलपन्ति स्म। द्वितीयस्मिन् दिने प्रातः खेदव्याकुलितहृदया निरुत्साहा निरानन्दाश्च सर्वे भक्तजनाः पूज्यगुरूणां पार्थिवदेहं शिबिकायां स्थापयामासुः । ततोऽन्तिममहानयात्रा प्रारब्धा । सा च केसरियाजीनगरतो नि:सृत्य समग्रेऽपि नगरे परिभ्रम्य पुनस्तत्रैव समागता । तदा जनैरुच्चस्वरेणोच्चारितैः 'जय जय नंदा जय जय भद्दा' इति वचनैः दशाऽपि दिशो बधिरिता इव सञ्जाताः । ततः केसरियाजीनगरपरिसरे एव अमृतपुण्योदयज्ञानशालाया अङ्गणे चन्दकाष्ठरचितायां चितायां शिबिका स्थापिता । तदा अचेतनमपि पूज्यानां शरीरं तादृक् कान्तिमत् तेजस्वि चाऽऽसीद् यत् तद् दृष्ट्वा जना विस्मिता चमत्कृतचित्ताश्चाऽभवन्। ततो बोटादनगरतः समागताः चिन्ताचान्तचेतोवृत्तयः साश्रुलोचना निरानन्दाश्च पूज्यानां संसारिसम्बन्धिनः स्वजनाश्च तदेहस्याऽग्निसंस्कारमकुर्वन् । तदाऽश्रुपूर्णनेत्रेषु सर्वेषु जनेषु पश्यत्स्वेव वैश्वानरेण तच्छरीरं भस्मसात् कृतम् । जातं च तद् विलीनं सपद्येव पञ्चसु ६२ Page #78 -------------------------------------------------------------------------- ________________ महाभूतेषु । ततः सर्वैरपि आचार्यादिमुनिभिः साध्वीभिः श्रावकैः श्राविकाभिश्च सम्भूय देववन्दनं विहितम्। ततः सर्वैरपि पूज्यगुरुवराणां गुणानुवादः कृत: । जिनशासनगगनाङ्गणे तेजस्वितारकायमान एको महान् प्रभावकपुरुषोऽद्य दिवङ्गतस्तेन च महती क्षतिः सञ्जातेति स्वीकृतं सर्वैरपि । ततो यथाकालमग्निसंस्कारस्थले मनोहरः श्रीकदम्बामृतविहारो निर्मापितस्तेषां भक्तै : श्रावकैः । तत्र विहारे भूमिगृहेऽष्टापदतीर्थरचना कारिता, उपरिभागे च श्रीकदम्बगणधरस्य प्रतिमा पूज्यवर्याणां च चरणपादुके च स्थापिते । एतत् तु तेषां बाह्यस्मारकं कृतम् । किन्तु ये ये जना निजजीवने तेषामल्पमपि परिचयं प्राप्तास्तेषां मनसि तु पूज्यानां शाश्वतं स्मारकं स्वयमेव निर्मितम् । अथ वयमप्येतादृशां पूज्यानां जीवनवर्णनद्वारा तद्भक्तिं कृत्वा तदाशिषो लाभेन निजजीवनमुन्नतयाम इति शम् । ६३ Page #79 -------------------------------------------------------------------------- ________________ आस्गादः चिन्तन धार -- मुनिरत्नकीतिविजयः भारतीया संस्कृतिस्तु धर्मस्य व्यवहारस्य च समन्वयस्य संस्कृतिरस्ति । 'अस्ति' इत्यत 'आसीत' इति कथनमधिकमुचितं प्रतिभात्यत्र । यतो वर्तमानकाले धर्मस्य यादृशं स्वरूपं दृश्यते, यथा च व्यवहारस्य सर्वत्र प्राधान्यं प्रवर्तते; तद् दृष्ट्वा तु सा संस्कृतिरस्माकं भूतकाल एवेति ज्ञायते। अत्र धर्म-शब्देन अन्तस्था: सत्संस्कारा अभिप्रेताः, न केवलं क्रियारूपो बाह्यो धर्मः। ___ अत्यन्तं दुःखदा स्थितिरेषा यत् पाश्चात्यानां बाह्य- भौतिकविकासस्याऽनुकरेणन अस्माभिरस्माकं सत्यं स्वत्वं चोभयमपि विनाशितम् । संस्कृते: संरक्षणस्य संवर्धनस्य चाऽऽधारोऽस्ति शिक्षणम् । तथा कीदृशोऽभिगम: स्वीक्रियते विद्यार्थिना स्वकीयं जीवनं प्रति-इत्यनेन च शिक्षणस्य मानं प्राप्यते । एकत्र सुन्दरं हृदयस्पशि च लिखितमासीत् यद् - "येषु नास्ति जीवनस्य शिक्षणं, तानि पुस्तकानि निरर्थकानि सन्ति"। अत्यन्तं विचारणीयमेतद् साम्प्रतकाले । पुरा च जीवनमेव शिक्षणस्य प्रधानलक्ष्यरूपेण वर्तमानमासीत्; किन्तु अधुना? यत्र शिक्षणे नास्ति केन्द्रवर्ति जीवनमपि तु अर्थोपार्जनस्योपायभूतमेव शिक्षणमस्ति, तन्नास्ति शिक्षणं किन्तु व्यवसाय एव। शिक्षणार्थं तपोवनस्य पध्धतिरत्यन्तं श्रेष्ठा श्रेयस्करी च पध्धतिरासीत् भारतवर्षस्य। सामाजिक व्यवहारादलिप्तं सदपि नैकाकि शुष्कं वा, एवंरूपं जीवनं यापयन् यः कश्चिदपि विद्यार्थी, राजपुत्रो वा पुरोहितपुत्रो वा सामान्यो वा स्यात् स स्वस्य सर्वस्वं गुरुचरणयोः समर्प्य अध्येति स्म । गुरवोऽपि तत्र न केवलं पुस्तकस्थान् पाठान् अध्यापयन्ति स्म किन्तु जीवनानुषङ्गि स्वानुभवज्ञानमपि तेभ्यः शिक्षयन्ति स्म । येन जीवनव्यवहारेण समनन्तरमेव विद्यार्थिनामन्तःस्थाः सत्संकारा अपि जागृता भवेयुः, तेषां च स्वजीवनं प्रति विधेयात्मकोऽभिगमो भवेत् । तादृशाः सत्संस्कारा एव धर्मशब्देनोपलक्ष्यन्ते । अपरं च, एतादृशैः सत्संस्कारै रसितो व्यवहारोऽपि धर्म एवाऽस्ति किन्तु एतस्मात् विपरीत: सत्संस्कारविहीनो व्यवहारस्तु सांसारिकत्वमेव केवलम्, यस्य नाऽस्ति स्वल्पमपि मूल्यम् । ६४ Page #80 -------------------------------------------------------------------------- ________________ एषोऽस्ति गुरुकुलेषु शिक्षणस्य गौरवप्रद इतिहासो भारतवर्षस्य यत् तत्र शिक्षणं गृह्णतां येषां संस्काराः प्रकर्षतां प्राप्नुयुस्ते साधकजीवनमङ्गीकुर्वन्त आसन् । येषां च, संस्काराणां तादृग् प्राबल्यं न सञ्जायेत ते संसारे स्थिताः सन्तोऽपि शिक्षणप्राप्तसत्संस्कारपूतेन व्यवहारेण सद्गृहस्थतां निर्वहन्ति स्म । यतः सत्संस्कारपूतो व्यवहार एवं सद्गार्हस्थ्यस्य लक्षणम् । एतादृशं संस्कारमाश्रित्य विकसन व्यवहारश्चैव जीवनं जीवनस्य सात्विक आनन्दो वाऽस्ति। एतदेव शिक्षणं तादृशमस्ति यद् कालक्रमेण मनुष्यान् स्वान् प्रति जागृतान् करोति, प्रेरयति च । शनैः शनैः च सर्वं तृणवत् त्यक्त्वा स्वं प्राप्तुं जना उद्युका अपि भवन्ति । शिक्षणेन प्रकटितः संस्काराणां दीप: सत्यं भासमानानि संसारव्यवहारस्य बन्धनान्यपि विलीनानि कृत्वा शुध्धां व्यवहारनिरपेक्षां धामिकतां प्रति - सन्तत्वं प्रति वा नयति स्वाभिमुखं च निष्पादयति । व्यवहारोऽपि अन्ततो गत्वा सांसारिकत्वमेव किं नास्ति? अपि च सांसारिकत्वं तु बन्धनमेव। तादृशानि बहून्युदाहरणानि सन्ति यत् निमितं प्राप्यैव समग्रामपि राज्यपर्यन्तां सम्पत् त्यक्त्वा बहवः सम्राजोऽपि स्वकीयानां महतां पूर्वजानां मार्गमनुसरन्तः सन्तो वानप्रस्थं साधुत्वं प्रतिपन्नाः। "स्वस्वावस्थामनुसृत्य व्यवहारोऽपि कर्तव्य एव । न ततः प्रविचलनं पलायनं वोचितम् । किन्तु तस्य व्यवहारस्याऽपि मर्यादाऽस्ति । कियत्कालपर्यन्तमेष व्यवहार: ? नैष व्यवहार: पूर्णतायै किन्तु कर्तव्यस्यांशरूप एव। पूर्णता त्वन्तस्था एव वर्तते, तत एव सा मया प्राप्तव्या। तदर्थं चोचितसमये सर्वमपि बाह्यव्यवहारं त्यक्त्वा दृष्टिरन्तर्निधातव्या एव" - एष आसीत् व्यवहार प्रवृत्तानामपि तेषां जागृतो बोधः । वयं सर्वेऽपि पूर्णा भवितुमेव प्रयतमानाः स्मः। अभीप्साऽप्यस्माकमेतादृश्येव यद् “तादृग् किञ्चित् प्राप्नुयाम यत्पश्चात् न किमपि करणीयशेषमवशिष्येत "। किन्तु पूर्णतायाः संस्कृति प्राप्तवन्तो जना यदा पूर्णतायै अपूर्णताया आश्रयं गृह्णन्तो असन्मार्गे च यतमाना दृश्यन्ते तदा आश्चर्य हास्यं चोद्भवतः एव किन्तु तत्सार्धमेव दुःखमपि अनुभूयते यत् - कोऽनेन अस्मिन् मार्गे पूर्णो भूतो दृष्टः, येनाऽयमपि अनेनैव मार्गेण प्रयतते? वर्तमानकाले तु न नाम वयं सन्यासं साधुत्वं वाऽपेक्षेमहि किन्तु यदि नाम वयं गृहस्थाश्रममपि ६५ Page #81 -------------------------------------------------------------------------- ________________ शोभनं कुर्याम तथाऽपि बहवः प्रश्ना समादध्युः, अध:पतनाद् रक्षणमपि भवेत् । किन्तु तद् गृहस्थाश्रममपि यदि गुणवत्तया सत्संस्कारैर्वा सुवासितं स्यात् ।। __किल बहवो विषया: शिक्ष्यन्तेऽधुना विद्यालयेषु । इतिहासोऽपि एको विषयः । तादृश्यो बहवः कथास्तत्र सन्ति यासु व्याक्तिविशेषाणां जीवनवृत्तं वणितमस्ति । ते जनाः सामान्या: सम्राजोऽपि वा स्युः, किन्तु तेषां जीवने ये केचित् कष्टा आपतिता: तान् धैर्येण अक्षुब्धत्वेन च तेऽसइन्त, न किन्तु सत्वं सत्यपथं वा त्यक्त्वा प्राकृतजनवदाचरणं कृतम् । त एव च महान्तः सञ्जाताः । तादृश्यां कष्टावस्थायामपि यत् सत्यं सत्त्वं वा तेषां प्रकाशते तत् किमस्ति ? कुत आगतम् ? शिक्षणमेव एतस्य मूलम् । केवलं शुष्को व्यावहारिकोऽभ्यास: कदाचित् बुध्धिं ज्ञानं वा वर्धयेत् किन्तु सत्त्वं तु शिक्षणेनोद्घाटिता: सत्संस्कारा एव प्रेरयन्ति प्रकटयन्ति च । एषाऽऽसीदस्माकं पावनी संस्कृतिः, या इतिहासस्य पृष्ठेष्वेव सुरक्षिताऽस्ति वर्तमाने । संस्कृतिस्तु न पुस्तकै: किन्तु अस्माभिरेव जीवितुं शक्यते। परम्परया प्राप्ता उत्तमाऽपि संस्कृतिः अस्माभिः अभ्यासविषया कारिता, न किन्तु कदापि सा अस्माकं अनुभवगोचरा सजाता। ___ अधुना सर्वत्र संस्कारविहीनो - धार्मिकताशून्यो व्यवहार एव प्रवर्तते । अस्मादृशामर्थे सन्तत्वं न शक्यं एतत् मान्यम् किन्तु किं सद्गृहस्थत्वमीप न शक्यम् ? यद्येवं तर्हि वयं पूर्वाजानां ऋषिमुनीनां संस्कारितां उज्जवलां च संस्कृते: परम्परां स्वहस्तैरेव निस्तेजां कुर्महे। संस्कृतिस्तु न केवलं शिक्षणस्य विषयः सा तु संस्कारस्य विषयः । यदि नाम वयं संस्कारानाधातुं न प्रभवेम सुषुप्तां वा संस्काररूपां धार्मिकतामुद्बोध्धुं नाऽलं तदा शिक्षणस्य नास्ति प्रयोजनम् । आंग्लभाषायां शिक्षाथं व्यापृतः एक: शब्दोऽस्ति - Education (एज्युकेशन) । तत्र 'एज्युकेट' इति धातुरस्ति – 'बहिरानयनम्' इति तस्याऽर्थोऽस्ति । विद्यार्थिनां सत्त्वस्य सत्यस्य प्रतिभाया वा बहिरानयनम् - इति 'एज्युकेशन' - इत्यनेन व्याख्यायते । तद्हेतुसिध्धिरेव शिक्षणस्य वास्तवं फलमस्ति नान्यत् । कियन्तो वयं सफलाऽत्र सञ्जाताः इति अस्माभिः चिन्तनीयम् । सङ्गणकयन्त्रस्य संचालनं वयं कर्तुमीशा: किन्तु स्वकीयसंचालने ऽसमर्था इव प्रतिभामः, पशुभिः सह प्रेम कर्तुं वयं सज्जाः किन्तु न वयं प्रातिवेश्मिकैर्वा सह प्रीतियुक्तो व्यवहारः कर्तुं शक्ताः । जीवनेन साक्षादनुबन्धिन्या: स्थित्या: मनुष्योऽधिकमधिकं दूरीभवति । Page #82 -------------------------------------------------------------------------- ________________ एतदेव च कुटुम्बानां ग्रामाणां नगराणां देशस्य वा हररोचकाया अपि अन्तस्त: कुत्थितायाः स्थिते: मूलम्। य: कोऽपि देश: समाजो वा स्वकीयां प्राचीनामुन्नतां च संस्कृतिं न परिपालयति स सत्वहीनः सञ्जायते कालक्रमेण । 'स्वकीयायाः जनन्या उत्सङ्गं त्यक्त्वा अन्यस्या उत्सङ्गे पोषण' मिवाऽऽभाति एषा प्रक्रिया । तेन च संस्कारधनं सत्त्वं वा कथं नाम रक्षितं भवेत् । ___ अत्र सर्वत्र यद् दृश्यते तत्र मूलक्षतिः शिक्षणस्याऽस्ति । शिक्षणमेव संस्कृतेः संस्काराणां वा मूलम् । अद्य तु शिक्षणक्षेत्रे प्रगाढोऽन्धकार एव सर्वत्र प्रसृतो दृश्यते । सुज्ञा जना न प्रवर्तमानायां शिक्षणपध्धतौ उत्सहन्ते विश्वसन्ति वा । ये जीवनं जीवनस्य मूल्यं वा जानन्ति कथं नाम ते केवलं धनोपार्जनस्यैव साधनभूते वर्तमानशिक्षणे उत्सहेरन् ? नित्यमेव समाजानां देशस्य च विभिन्नाः प्रश्नाः चर्च्यन्ते तथाऽपि क: परिणामविशेष: प्राप्तोऽस्माभिः ? शून्यमेव खलु ? किमत्र कारणम् यन्न परिणामः प्राप्यते? एतदेवाऽत्र कारणं यद् वयं न मूलगामिनं प्रयत्नं कुर्महे। यथा प्रत्येकं कार्य कारणपूर्वकमेव भवति तथा प्रत्येकं कारणस्याऽपि किञ्चित मूलमस्ति । आधुनिक्या: समग्राया अपि स्थित्या:-भवतु सा गार्हस्थ्ये पारस्परिकव्यवहारस्य, निश्चितजनसमूहस्य, समाजस्य, राज्यस्य, राष्ट्रस्य, देशस्य वा - तस्या मूले संस्काराणामभाव एवाऽस्ति, तस्यापि मूलमस्ति शिक्षणस्य वैकल्यम् । शिक्षणदायकानां शिक्षकानामस्त्यत्र महदुत्तरदायित्वम् । न स केवलं पुस्तकं पुस्तकगतान् पाठान् वाऽध्यापयति, न वा तावन्मानं तस्य कर्तव्यमस्ति अपि तु ज्ञानदानेन स जीवनं शिक्षयति जीवनं निर्मिमीते, न केवलं एतावदेव किन्तु एकैकस्य जीवनस्य निर्माणेन स एकं सुन्दरं गृहं, समाजं, राज्यं, देशं चाऽपि निर्माति। पाठ्यपुस्तकान्तर्गताः सर्वेऽपि विषया न केवलं परीक्षणकाले प्रश्नानां प्रत्युत्तरार्थं शिक्षणीया, न स एव तस्य हेतुः किन्तु ते, विषया जीवनेन सहाऽनुबध्यन्ते। ___ अद्यतनीयेन शिक्षणेन प्रभूतानां विषयाणां ज्ञानं भवति। नैतदनुचितमपि तु शोभनमुचितमेव । ज्ञानस्य यदि व्यापो वर्धेत तर्हि तत्तु उत्तममेव किन्तु बहिर्व्यापवत् अन्तश्चितेऽप्यवश्यमेव तेन विस्तरणीयम् । ज्ञानं यथा विश्वं विषयं करोति तथा स्वमपि विषयं यथा कुर्यात् तथाऽऽवश्यकम् । विश्वस्य वेत्ताऽपि यदि नाम स्वं न जानीयात् तर्हि तज्ज्ञानेन तस्य को लाभविशेषो जायेत? एतत्तु, यथा कपाटस्थपुस्केषु ज्ञानं तिष्ठति तथा एषोऽपि मस्तके ज्ञानं बिभर्ति, एवं प्रतिभाति । ६७ Page #83 -------------------------------------------------------------------------- ________________ अनयोरन्तरं त्वेकमेव यद् कपाटस्य चत्वारः पादाः सन्ति अस्य च द्वौ पादौ, कपाटो गतिं न करोति एष च गतौ प्रभवति । किन्तु पुस्तकस्थज्ञानं यथा न पुस्तकानां लाभाय भवति तथा अस्याऽपि न कोऽपि लाभो जायते । 'जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स' - इत्युक्तिरत्राऽपि संघटते। यथा कपाटस्य कोऽप्यन्यः सञ्चालको भवति तथा एनमप्यन्य एव सञ्चालयति । न स्थितिरेषा योग्या, अतो बहिर्निगमनमेव कर्तव्यम् । तदर्थं तु सम्यक्शिक्षणमेवोपायः । ज्ञानं शिक्षणं वा यथा विश्वं विश्वगतपदार्थांश्च स्पष्टयति तथैव स्वं स्वकीयामान्तरिकीं स्थितिमपि स्पष्टयत्येव । तथैव तदैव च तद् भवति सम्यग् ज्ञानं सम्यक् शिक्षणं वा । समग्रेऽपि देशे साक्षरताभियान: प्रचलति । कियन्तो जनाः साक्षराः सञ्जाताः कियन्तश्च निरक्षरा एव स्थिताः, इति गणनाऽपि क्रियते येन निरक्षरतायाः ह्रासो भवेत् । किन्तु साक्षरतां प्राप्ता अपि कियन्तो जनाः सत्संस्कारयुक्ताः, सत्संस्कारवियुक्ताश्च कियन्तः इति न केनाऽपि अद्याऽपि लक्षितम् । न केनाऽपि संस्कारिताया अभियानं प्रवर्तितं कदापि । वस्तुतस्तु न साक्षरता संस्कारिता च परस्परभिन्ना, किन्तु एकस्या एव मुद्रिकाया भागद्वयरूपे च ते स्तः । शिक्षणस्यैव विभागद्वये शिक्षणेनैव च सङ्कलिते स्त एते । अनयोश्च सङ्कलनेनैव शिक्षणमपि 'परिपूर्णं' इति वक्तुं शक्यते । अन्ते तु संस्काराणां दारिद्यं अपनेतुं आमूलचूडं परिवर्तनमावश्यकं शिक्षणक्षेत्रे शिक्षणपध्ध्तौं च; यदि नाम वयं सत्त्वं स्वत्वं वाऽस्माकं रक्षितुमिभलषामः । यद्यपि एते तु विचारा एव केवलम् । यावन्न सर्वेषां चित्ते सङ्कल्परूपं प्राप्नुवन्ति एते तावन्नैकेन जनेन परिवर्तनमेतच्छक्यम् । तावच्चाऽभिव्यक्तिरप्येतेषां विचाराणां प्राय: "गौर गायत्री "रिव प्रतिभासते । ६८ Page #84 -------------------------------------------------------------------------- ________________ आस्वाह साक्षिभाव: - मुनिधर्मकीतिविजयः सर्वेष्वपि कार्येषु आत्मसाक्षिणा सर्वं दर्शनीयमिति साक्षिभावः । कदाचिदपि न केषाञ्चिदपि कार्यकरणे प्रेरणं प्रतिरोधनं वा, किन्तु नियत्या यत् क्रियते तस्य दर्शनमेव साक्षिभावः। ___ स्वसन्मानपूजादिकार्येषु न राग आनन्दश्च तथा नाऽऽत्मनिन्दनताडनावहेलनादिषु दुष्टकार्येषु द्वेषोऽरुचिश्च; नवरं समस्तस्थितौ शमभावं धृत्वा माध्यस्थ्यभावेन वसनं साक्षिभावः । एष साक्षिभावो येनाऽऽत्मसात् कृतः स कदाचिदपि न संसारस्य कैश्चिदपि प्राणिभिः काभिश्चित् परिस्थितिभिश्चाऽभिभूतो भवति। तस्य भौतिकसुखसाधनर्द्धिसिद्धिप्रसिद्धिलब्धिरूपं सर्वमपि जगत् तृणमात्रमेव भासते । यतः तदृष्ट्या तु आत्मैव खलु प्रधानोऽस्ति । ___ यदा सदा सर्वथाऽऽत्मनोऽस्मितावबोधं कर्तृत्वावबोधं च विस्मरेत् तदैव साक्षिभाव उत्पद्येत । तथैतादृशोऽवबोधः साक्षिभावस्य प्रतिपन्थी मोक्षबाधकश्चाऽस्ति । यत एतादृशोऽवबोध: सूक्ष्मदृष्ट्याऽहङ्कारस्य प्रच्छन्नस्वरूप एव। तथाऽहङ्कारस्तु मोह एव, ततो यत्र मोहो विद्यते तत्र परमार्थतः स्थूलधर्मोऽपि न संभवेत्तर्हि साधनाया: परमोत्कर्षरूप: साक्षिभाव: कथं सिद्धयेत् ? न कदाचिदपि इति ज्ञेयम्। एतस्मिन् संसारे धनादीनां बाह्यसुखसाधनानां त्यागः सुलभः परंतु अस्मिताया: कर्तृत्वस्य चाऽवबोध एव खलु सर्वथा दुस्त्याज्योऽस्ति । अस्माभिः सर्वैः सदाऽनुभूयते एव यत् कदाचिदस्माभिः प्रशंसनीय कार्य क्रियते तदा जनैः श्लाघा प्रशंसा च विधीयते तत्कालेऽस्माकमस्मितायाः कर्तृत्वस्य चाऽवबोधः प्रादुर्भवति "अहमासं तत एवैतत्कार्यं भूतमन्यथा न शक्यमेतत्कार्यमि'ति । तथैव च यदि निन्दनीयं कृत्यं भवेत् तहि लोका निन्दामवहेलनं च प्रकुर्वन्ते तदा " मया न कृतमेतत्, स्यामहं तदा नैवैवं भवेदिति कर्तृत्वं गोपयितुं प्रयत्न: क्रियतेऽस्माभिः । अत्राऽस्मितायाः कर्तृत्वस्य चाऽभावो नास्ति, किन्तु वास्तविकदृष्ट्या तु For private & Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ - - तयोः पोषणमेवाऽस्ति । ततोऽत्र साक्षिभावो यदि मन्यते तत्तु मृगतृष्णैव खलु । यावान् साक्षिभावस्योपदेश: सरल: तावान्न सुलभं तस्याऽऽचरणम् । प्रवचनादिकं श्रुत्वा उत तत्त्वज्ञानस्य पुस्तकं पठित्वा क्षणिकं वैराग्यो जायते तदा "मया कोधो न करणीयः केषाञ्चिदपि अशुभं दृष्ट्वा तान् प्रति न किमपि वक्तव्यं, तेषां पापं ते जानीयुः, मया तु माध्यस्थ्यभावः स्वीकृतः" इति कदा कदा वयं वदामः । किन्तु सानुकूलस्थितौ तु सर्वेऽपि जनाः साक्षिभावमनुपालयन्ति किन्तु विषमस्थितौ सत्यामपि येन साक्षिभाव आद्रियते स एव साधको योगी ज्ञेयः। तडागस्य जलं निर्मलमस्ति न वेति ज्ञातुं केवलं तत्र प्रस्तरस्य क्षेपणमेवाऽऽवश्यकं न तु तज्जलं गृहीत्वा निरीक्षणं कार्यम् । तथैव तस्मिन् जीवे यथार्थरूपेण साक्षिभावोऽस्ति न वेति विज्ञातुं केवलं मानहानिजनकोऽपशब्दोऽथवा रागजनको मधुराराव एवाऽऽवश्यकः । यदि चेत् एतादृक्स्थितौ अपि तस्य चित्ते न रागो न च द्वेषो जायेत तदा ज्ञेयं 'तेन साक्षिभाव: साधितः' इति। सानुकूलपरिस्थितौ साक्षिभावं धरन्तो बहवो जनाः, परंतु विषमस्थितौ तु चरमतीर्थपतिश्रीमहावीरतुल्यः कोऽपि विरल एव साक्षिभावे स्थातुं समर्थो भवति । कीदृश्यां स्थितौ साक्षिभावो विभुनाऽऽचरितः स एकेन प्रसङ्गेन संलक्ष्यते । दुस्सहपरीषहवृन्दमनुभवन्नानुपूर्व्या परिभ्राम्यन् श्रीमहावीरपरमात्मैकं ग्रामं प्राप्तवान् । तस्य बहिर्भागे कस्मिन्नुद्याने कायोत्सर्गे तस्थौ भगवान् । तत्र त्रिपृष्ठभवे शय्यापालकस्य कर्णयोः तप्तत्रपुरसस्य प्रक्षेपेण यत्कर्मोपार्जितं तदत्यन्तमशुभं कर्माऽत्रोद्भूतम्। स शय्यापालकजीव एव मृत्वा तत्रैव ग्रामे गोपालत्वेनाऽजनिष्ट । स एव कायोत्सर्गे स्थितस्य भगवतो निकटे वृषभान् मुक्त्वा गोदोहनादिकार्यार्थं ग्रामं गतवान् । ते वृषभास्तु निरङ्कुशं चरन्तोऽटवी जग्मुः। इतश्च कार्यं समाप्य गोपाल आगतः । गा अप्रेक्षमाणो गोपालो भगवन्तमपृच्छत् - भो देवार्य ! 'क्व मे वृषा' इति । तदा प्रभुस्तु मौनेनाऽऽसीत्, ततो न किमप्युक्तं विभुना । तदा स गोपालो गा: मार्गयितुं वने गिरिकन्दरेषु नदीतटेषु चाऽगच्छत् । ७० Page #86 -------------------------------------------------------------------------- ________________ MAImamunmuniaNAMMARImuman K ama इतश्च ते वृषभा अपि सुचिरं तृणादिकं भक्षयित्वा पुनः तत्रैव प्रदेशे आगताः । तदा दीर्घकालं वने परिभ्रमणं कृत्वा दुर्मनस्क: स गोपालः प्रभोः समीपमागतवान् दृष्टाश्च तेन सुखे निषण्णा निजवृषभाः। ततो रोषाकुलः स परुषगिरा भगवन्तं तर्जयितुमारब्धवान् - 'रि देवार्य ! त्वं तु खलु दुर्जन इव बाह्यदृष्टयोपशान्तो दृश्यसे, किन्तु विद्यते ते हृदये कुटिला चित्तवृत्तिः । नूनं मम वृषभाणां हरणार्थमेव पश्यन्नपि नाऽवद: किमपि त्वम्; निरर्थकं त्वयाऽहं बहुकालं भ्रामितो वने" इत्येवं भणित्वाऽतिक्रूराध्यवसायेन तेन भगवतो वामेतरश्रवणविवरयोः ‘काश' नामकवृक्षस्य द्वे शलाके प्रक्षिप्ते । ततस्ते तावद् दृढे कृते यावत् परस्परं द्वेऽपि मीलिते, पश्चान्मा कोऽपि उत्खनेदिति विचार्य तयोः द्वयोः शलाकयोः अग्रभागं विच्छिद्य स्वस्थानं गतवान् गोपालः। तदाऽत्यन्तं तदुस्सहवेदनावशाद् धृतिबलोऽपि कृशीभूतकायो विभुः मनागपि धर्मध्यानात् न विचलितमनाः बभूव ततो निष्काम्याऽन्यत्र विहृतवान् विभुः वर्धमानः। ___ अथ पारणके दिने आहारगवेषणार्थं सिद्धार्थवणिजो गृहं प्रविष्टो विभुः । तदैव स सिद्धार्थवणिक् विभुं वन्दित्वा प्रत्यलभत। सहसैवाऽऽगतेन खरकाभिधानवैद्येन त्रैलोक्याधिपति जिनेश्वरं निरीक्ष्य गदितं यदहो! भगवतः शरीरं सर्वगुणलक्षणव्यञ्जनोपेतमस्ति । किन्तु साम्प्रतमेष जगद्गुरुः कथमपि शल्यवानस्ति । एवमुक्ते सति वैद्येन कर्णविवरनिक्षिप्तं काशशलाकायुगलं दृष्टम्। पश्चात्तेन सकलोऽपि वृतान्त: कथित: सिद्धार्थवणिजे। एतच्छ्रुत्वा च तस्य मनस्यत्यन्तखेदो जातः। सिद्धार्थवणिक् आह - भो ! वैद्यराज ! किमिदानी कोऽप्युपायोऽस्ति येन भगवान् शल्यविहिनो भवेत् । तदा वैद्येन संडासकेन कर्णाभ्यां सरुधिरं शलाकांयुगलमाकृष्टम् । तस्मिन् काले तदुस्सहवेदनावशात् जिनवरस्य मुखात् महारवो निर्गतः, येन महागिरिरपि प्रकम्पितः। एवं प्रभु विगतवेदनो बभूव। __ अत्रेदं ज्ञेयं यद् भगवान् महावीरो ज्ञानी आसीत् । ततो यदा गोपालकेन पृष्टस्तदा केवलं 'वनं गता' इत्येव यदि कथितं स्यात् तर्हि एतादृशो महाभीम उपसर्गो न भवेत् । तथाऽपि विभुना न किमप्युक्तं न चेङ्गितमपि प्रदत्तम् । ततोऽप्यधिक: साक्षिभावस्योत्कर्षस्त्वत्र दृश्यते यद् यदा कर्णविवरेषु 'काश'शलाके निक्षिप्ते तेन गोपालकेन तदा श्रीमहावीरविभुः ७१ Page #87 -------------------------------------------------------------------------- ________________ अनन्तशक्तिनिधिरासीत् तथाऽपि न प्रतिकारः कृतः, न लेशोऽपि द्वेषो धृतः, न चाऽभिशापोऽपि दतः । अन्यच्चोपसर्गं कृत्वा गोपाले गते सति शल्यवेदनायाः प्रतिक्रियाऽपि न कृता न च कारिता। ___ अत्र सर्वत्र विभुनाऽऽत्मनोऽस्मिताया: कर्तृत्वस्य चाऽवबोधं विस्मर्य केवलं साक्षिभावेणैव सर्वमपि दृष्टम् । तत एव क्रूरोपसर्गकारकं गोपालकं प्रति अंशमात्रमपि न दुर्भावः कृतः, न चाऽरुचिरपि धृता तथैव संयमयात्रायां सहायकं वैद्यं वणिजं च प्रति न रागो रुचिश्चादृता, किन्तु सर्वेऽपि जनाः समदृष्ट्यैव दृष्टा वीतरागिविभुना। एतेन प्रसङ्गेन श्रीमहावीरविभोः साक्षिभावस्य परमं माहात्म्यं विज्ञायते । ७२ Page #88 -------------------------------------------------------------------------- ________________ नमो नमः श्रीगुरुनेमिसूरये ॥ पत्रम् - मुनिधर्मकीर्तिविजयः आत्मीयबन्धो चेतन! धर्मलाभोऽस्तु। पूज्यपादानां गुरुवराणां देहमाराधनानुकूलं वर्तते । विहरिष्यामो वयं सर्वेऽपि चतुर्मासी समाप्य 'बेंगलोर'नगरं प्रति। गतपत्रे जैनी कर्मपद्धति संलक्ष्य मनोविषयके द्वे तत्त्वे चिन्तिते । इदानीमवशिष्टयो: द्वयोः तत्त्वयोः विमर्शस्य चिकीर्षुरहम् । १. जीवने न कदाचिदपि कृतस्याऽशुभकार्यस्याऽनुमोदनं करणीयम्।। २. जीवने आचरितस्य दुष्टकार्यस्याऽवश्यमेव पश्चात्तापः कर्तव्यः । अथ जीवः प्रतिक्षणं मनोवाक्कायरूपस्य त्रिविधयोगस्य द्वारेण शुभमशुभं वा कर्मवृन्दं बध्नाति एवेति जैनाः मन्यन्ते; तथैव भगवद्गीतायामपि श्रीवेदव्यासभगवान् आह - न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवश्य: कर्म सर्व: प्रकृतिजैर्गुणैः॥ (३-५) __ अतो जीवमात्रेण शुभमशुभं कार्यं क्रियते, तदनुसारेण पुण्यबन्धः उत पापबन्धो भवत्येव । किन्तु स्वभाववशात् यदाऽशुभं कार्यं भवेत्तदा तत्पश्चात् तस्य कृतस्य दुष्टकार्यस्य गर्दा करणीया, परंतु नाऽनुमोदनं करणीयम् । यतोऽशुभकार्येण पापबन्धस्तु भवत्येव, किन्तु यदा तस्य कृतस्य दुष्टकार्यस्याऽनुमोदना भवति, तदा तस्य पापबन्धस्याऽनुबन्धो भवति; प्रत्युत स पापबन्धोऽत्यन्तं दृढो भवति । यथा वस्त्रस्योपरि लग्नं रजोवृन्दं केवलं वस्त्रशाटनेनैव दूरीभवति, किन्तु तैलादिस्निग्धवस्तुभिः कर्दमितस्य वसनस्योपरि संलग्ना धूलि: न महताऽऽयासेनाऽपि निर्गच्छति । तथैव पापबन्धेनोपार्जितं कर्म सहजतया क्षीयते, किन्तु पापबन्धस्याऽनुबन्धेन यदुपार्जितं कर्मवृन्दं तत्तु अवश्यमेवाऽनुवेदनीयम् । तस्य बद्धकर्मणो विपाकस्योदय: तद्भवे भवान्तरे वाऽऽगच्छत्येव । उत्कृष्टतपोभिरपि न तत्कर्म नश्यति । जैनदर्शनानुसारेण एतादृशः कर्मबन्धो 'निकाचितबन्धः' ७३ Page #89 -------------------------------------------------------------------------- ________________ इत्यनेनोपलक्ष्यते। भ्रात: ! भगवता महावीरेण 'चतुर्विधः कर्मबन्धः' इति निरूपितम् । तत्र - १. स्पृष्टबन्धः - सूचीकलापस्याऽन्योन्यबन्धनमिव गुरुकर्मणां जीवप्रदेशैः सह बन्धनं स स्पृष्टबन्धः । स योगमात्रोऽल्पप्रयाससाध्यः । अत्र दुःखितेन हृदयेनाऽनिच्छया कर्म क्रियते । २. बद्धबन्धः - दवरकबद्धसूचीनां मीलनमात्रमिव गुरुकर्मणां जीवप्रदेशैः सह मेलनं स बद्धबन्धः । स च विशेषप्रयाससाध्यः । अत्र स्वेच्छया कर्म क्रियते। ३. निधत्तबन्धः - गुरुकर्मणां जीवप्रदेशैः सह घनघातेन सूचीनां परस्परसंलुलितत्वमिव बन्धनं स निधत्तबन्धः । स च प्रगाढप्रयत्नसाध्यः । अत्र स्वेच्छया सानन्दं कर्म क्रियते । ४. निकाचितबन्धः - जीवप्रदेशैः सह गुरुकर्मणां वह्नितप्तकुट्टितसूचीनां निर्नष्टविभागत्वमिव बन्धनं, स निकाचितबन्धः । स च सुदुःसाध्यः । अत्र स्वच्छन्दं नि:शङ्कं रसपूर्वकं च कर्म क्रियते। तत्र प्रथमं शुभाशुभाध्यवसायेन बन्धत्रितयस्य फलमधिकं न्यूनं वा क्रियते, किन्तु चरमस्य बन्धस्य फलमवश्यं वेदनीयमेवाऽस्ति। तत एवात्मनो मनोवृत्तिः न तादृशी निर्वंसपरिणामिनी करणीया, यतः कृतो बन्धो निकाचितरूपेण परिणमेत् । कदाऽपि जीवने नाऽशुभं कार्यं कृत्वा तस्याऽनुमोदनं कर्तव्यम् । एक प्रसङ्गः स्मर्यते - मगधदेशस्य श्रेणिको नामाऽधिपतिरासीत्। एकदा मृगयार्थं वने ससैन्यं स राजा गतवान् । तदा ददर्श सगर्भामेकां हरिणीं सः । तां दृष्ट्वा ग्रहीतुं सोऽनुधावितवान् । सा तु हरिणी चापल्येन दूरं निर्गता । 'सा ग्रहणीयैव' इति निश्चयं कृत्वा राजा पुनः सावेगं जगाम । अन्तेऽतिदूरं निर्गच्छन्ती हरिणी प्रेक्ष्य खण्डिताभिमानेन तेन राज्ञा शरेण हता सा हरिणी। आक्रन्दन्ती सा तत्क्षणमेव भूमौ पतिता । राजा समीपमागतवान् । तेन दृष्टो व्याकुलतामनुभूयमानो गर्भस्थितो मृगः । सोऽपि क्षणेन पञ्चत्वं प्राप्तवान् । एतादृशं करुणमपि दृश्यं दृष्ट्वा स राजा सानन्दं सगर्वमुवाच - "अहो ! मम शौर्यम् । अस्मिन् जगति न कोऽपि मादृशो धनुर्धारी । मयैकेनैव शरेण द्वौ जीवौ हतौ खलु" इति । एवं ७४ Page #90 -------------------------------------------------------------------------- ________________ मनसि पुनः पुनः तं कार्यं प्रशस्याऽतीवाऽऽनन्दं अनुभवति स्म स राजा । अत्र न लेशोऽपि चित्ते खेदः सन्ताप: उद्वेगश्च तथा यदशुभं कृतं तस्य न पश्चात्तापमात्रोऽपि; अपि तु कृताशुभस्य भृशं भृशं कृतमनुमोदनम् । तेन कारणेन तदा श्रेणिकराजाऽवश्यं वेदनीयं निकाचितं कर्मोपार्जयति स्म । तत्कर्मोपार्ज्य नरकगतिं प्राप्तः । पश्चात् श्रीमहावीरविभुना प्रतिबोधितः स विविधं धर्मानुष्ठानं चकार । स प्रभोः परमभक्तो दृढसम्यक्त्ववान् श्रावकः सञ्जातः । जैनदर्शनानुसारेणाऽऽगामिनि काले प्रथमः तीर्थंकरो भविष्यति । तथाऽपि तन्निकाचितं कर्म स त्रोटयितुं न समर्थोऽभूत् । ततः कदाऽपि न करणीयं दुष्कृतस्याऽनुमोदनम् । अथ जीवने आचरितस्य दुष्टकार्यस्याऽवश्यमेव पश्चात्तापः कर्तव्यः । कृतसुकृतस्य पश्चात्तापो दुर्गतेः निबन्धनं, अपि तु दुष्कृतस्य पश्चात्तापः सुगते : प्रधानं कारणमस्ति । जीवः प्रमादी निमित्तवासी चाऽस्ति । ततो निमित्ते प्राप्ते सति प्रमादात् कार्यमशुभं भवेत् तत्तु शक्यम्, किन्तु तत्पश्चादुत्तरकालीनक्षणे एव तस्य पश्चात्तापः करणीयः । अहो ! अ दुर्भाग्यात् निन्दनीयं कार्यं कृतं मया । एवं च मनसि निरन्तरं तस्य गर्दा प्रवर्तनीया । यदि नामैतादृशः पश्चात्ताप: उद्भवेत् तर्हि बन्धकाले यः कर्मबन्धोऽभूत् स कर्मबन्ध शिथिलो भवति। तथा चैतादृश: कर्मबन्धः शनै: शनै: पश्चात्तापेन क्षपयितुमपि शक्यः । अन्ते पश्चात्तापात् मनसो विशुद्धपरिणतित्वेन जीव: संपूर्णतया कर्मक्षयं कर्तुमपि समर्थो भवति । इदं ज्ञेयं - दीपकसदृशो दुष्टकार्यस्य पश्चत्तापः । यथा दीपोऽद्यपर्यन्तं विस्तृतं सर्वमप्यन्धकारं निराकृत्य सर्वत: उद्योतं-प्रकाशं करोति तथैव पश्चात्तापोऽपि बद्धमशुभं कर्मवृन्दं दग्ध्वा जीवने ज्ञानस्वरूपं तेजः प्रसारयति । तस्य तेजसः साहाय्येन जीवः परमोच्चगतिमारोहति । अत्र 'दृढप्रहारी' स्मर्यते माकन्द्यां महापुर्यां समुद्रपतिनामा भूदेवः पर्यवसत् समुद्रदत्ताभिधा तस्य भार्याऽऽसीत् । तयोरेकः पुत्रः आसीत्। यथाकाले वर्द्धमानः सन् स यौवनं प्राप्तवान् । - दुष्टजनानां समागमात् क्रूरो मृषावादी निष्ठुरपरिणतिवान् तथा मातृपित्रोरवज्ञाकारी चाऽभूत् सः। एवं प्रतिदिनं तस्य दुष्टाचरणं वृद्धिं गतम् । कियत्यपि काले एवाऽन्यायशतानि आचरितानि ७५ Page #91 -------------------------------------------------------------------------- ________________ तेन । एवमुन्मत्तगज इव स नगरे स्वच्छन्दतया निराबाधं परिभ्रमति। अथ श्रुतमेतद् सर्वमपि राज्ञा । तस्य दुष्टकार्याणि दृष्ट्वाऽयोग्योऽयं इति मत्वा नगरात् बहि: निष्कासितः । इतस्तत: परिभ्रमन् स: भिल्लपल्लिं गतवान्। भिल्लपतिनाऽस्य कर्मकुशलतां विज्ञाय स्वोत्तराधिकारिरूपेण स्थापितः तथा च सर्वाऽपि संपत्तिः तस्मै दत्ता तेन भिल्लपतिना। स दृढप्रहारी स्वकौशलेन एकेनैव प्रहारेण निर्दयतया जीवान् घातयति, ततो 'दृढप्रहारी'ति तस्य नाम प्रसिद्धं जातम्। एकदा लुण्टनार्थं स्वधाटी समादाय 'कुशस्थल'पुरं गतवान् सः । तत्रैव नगरे निर्धनो देवशर्माभिधो द्विजो वसति। ___ तदा तद्गृहे क्षैरेयीभोजनं राद्धम् । कार्यार्थमन्यत्र गतवान् द्विजः । तस्मिन्नैव काले आगतेन केनाऽपि चौरेण तद्भाजनं गृहीतम्। तद् दृष्ट्वा नदीं गत्वा बालकेन पितोरग्रे सर्वमपि निरूपितम्। ततः सोऽपि द्रुतं समागत्य चौरं हन्तुमुधुक्तो जातः । तदा खड्गस्यैकेनैव प्रहारेण विप्रो दृढप्रहारिणा व्यापादितः। भूमौ पतन्तं तं वीक्ष्य क्रोधावेशव्याकुला गृहसौरभेयी स्वपुच्छमुच्चं विधाय तं मारयितुं प्रयत्नवती जाता। साऽपि हता दृढप्रहारिणा। तदैव स्वपति मृतं संदृश्याश्रूणि नि:सरन्ती, विलपन्ती, आक्रोशं कुर्वन्ती चाऽऽपन्नसत्वा द्विजवधूरपि तत्राऽऽगता। तदा तेन निष्ठुराध्यवसायेन दृढप्रहारिणा तस्याः उदरे प्रहारः कृतः । एकेनैव प्रहारेण सा पञ्चत्वं प्राप्ता, तथा च कुक्षिस्थो गर्भोऽपि भूमौ पतितः। __ अथ भूमौ परिस्फुरन्तं विलुठन्तं च गर्भ निरीक्ष्य कारुण्यमुत्पन्नं तस्य चित्ते । स्वमानसे खेदो जातः, आत्मनः उपर्येव धिक्कार: संजातः । मया निष्कारणं चतस्नो हत्याः कृताः। अहो ! का गतिर्मे भाविनी, किं मे शरणम् ? इति चिन्तितवान् । एवमुद्विग्नमनाः स दृढप्रहारी वनं जगाम। ददर्श स प्रशान्तवदनं ध्यानस्थितं मुनिवरम् । तं वीक्ष्यैव तस्य पादयोः पतितवान् सः । अद्यपर्यन्तं स्थगिताऽश्रुप्रवाहधारा त्रुटिता । सर्वमपि निजपातकं निवेदितम् । भगवन् ! निवेदयतु ' कथमेतत्पातकात् विमुक्तोऽहं भवेयम् ? साधुराह - "विशुद्धचरणस्य धर्माराधनमृते नैतस्मात् मोक्षः" इति श्रुत्वा वैराग्यमनसा निजपापभयेन तेन तदैव चारित्रमूररी कृतम् । तथा तत्क्षणे एवाऽभिग्रह: प्रतिपन्नः यत् “तावन्न जलमन्नं च प्रतिपत्तव्यं यावच्चतस्रोऽ ७६ Page #92 -------------------------------------------------------------------------- ________________ पि हत्याः जनानां दृष्टिपथे आयास्यन्ति" इत्यभिग्रहं स्वीकृत्य तन्नगरप्रतोल्यामेकस्मिन् द्वारे कायोत्सर्गं विधाय स्थितः। ___ अथ ध्यानस्थितं तं दृढप्रहारिमुनिं दृष्ट्वैव नगरादागच्छतां गच्छतां च जनानां चित्ते घृणा संजायते, हत्याश्च स्मृतिपथमायान्ति। 'अयं दुष्कर्मकारको धूर्तोऽस्ति, तेनाऽद्यपर्यन्तं क्रूरं कार्यं कृतम्, अनेकेषां गृहं भग्नं, धनं विलुण्ठितं, हत्या कृता, अधुना ध्याने स्थितवान् । अहो ! अस्य मायाजालम्' इत्यादिकं संस्मर्य केचिद् यष्टिप्रहारेण, केचिदुत्पलेन, केचिद् गालिप्रदानेन, केचिद् दुर्वचसा च तं मुनि तिरस्कुर्वन्ति । किन्तु स मुनिवरो मनागपि न क्रुध्यति, न च ध्यानाद् विचलति । एवं यावत् कण्ठप्रदेश: पाषाणैः पूर्णो जातः । ततः श्वासोच्छ्वासावरोधं विज्ञाय स कायोत्सर्ग पारयित्वा द्वितीयद्वारे गत्वा कायोत्सर्गध्याने स्थितः । तत्राऽपि एवमेव सहनं कृतम् । एवं तृतीयद्वारे, पुनश्चतुर्थद्वारे जनैः कृतोपसर्गान् सहमानेन तेन दृढप्रहारिमुनिना चतुर्विधाहारस्य प्रत्यारव्यानं कृतम्, एवं षण्मासकालो व्यतीतः। परंतु न नियमात् विचलितोऽभूत् । अन्ते विशुद्धध्यानेन तेन मुनिवरेण परमं केवलज्ञानं प्रापि।। __इदमपि ज्ञेयम् - द्वाभ्यामपि जीवाभ्यां पूर्वेऽशुभं कार्यं कृतम् । तत्र श्रेणिकमहाराजेनाऽशुभं कार्यं कृत्वाऽनुमोदनं कृतम् । अशुभस्याऽहङ्कारोऽकारि तेन । ततो नरकगामी अभूत् स राजा। स भविष्यत्कालीनतीर्थंकरेषु प्रथमतीर्थंकरस्य जीवः आसीत्, तथाऽपि कृताशुभस्याऽनुमोदनेन यदुपाजितं कर्म तदपाकर्तुं न समर्थोऽभूत् सोऽपि। ___ अथ दृढप्रहारिणा पूर्वं घोरं पापकार्यमकारि, हत्या कृता, अनेकानि दुष्टकार्याणि आचरितानि; किन्तु पश्चात् मनसि पश्चात्तापो जातः, साधुजनसंपर्कात् कृतस्य पापस्याऽऽलोचनं कृतम्, तथा कृताशुभं कर्म क्षपयितुमपूर्वं तपो विधत्तं, अन्ते निर्मलपरिणतिद्वारेण विशुद्धं ज्ञानं प्राप्य मोक्षं जगाम स दृढप्रहारिमुनिवरः। ____ एवं न कदाऽपि कृताशुभस्याऽनुमोदनं करणीयम्, तथा च कृतस्य दुष्टकार्यस्य पश्चात्ताप एव करणीयः। त्वमीप एतानि चत्वारि तत्त्वानि सम्यग् विज्ञाय निर्मलं शमसुखं प्राप्नुहीति मे स्पृहा। ७७ Page #93 -------------------------------------------------------------------------- ________________ * अनुवादः -मुनिधर्मकीर्तिविजयः अस्माकं सर्वेषामपि जीवानां मनसः पीडादायकः एकः एव दोषः - ईर्ष्या । ___ कस्यचिदपि आत्मनो भवत् सुन्दरं कार्यं निरीक्ष्य त्वरितमेवाऽस्माकं चित्तं व्याकुलं भवति । वस्तुतः ‘तस्य कार्य श्रेष्ठमस्ती'ति विश्वासोऽस्माकं चित्ते कदाचिदेव भवति । केवलमस्माभिर्मनसैव निर्णीतमेतद् यन्मत्तः तस्य स्थानं श्रेष्ठ, समाजे तस्य मानोऽधिकः । आश्चर्यं त्वेतद यदेतादृशे विचारे । मनसि जाते सत्येवाऽस्माकं हृदयमीज्विालया दहति ।। ईर्ष्याया वैशिष्ट्यमपि ज्ञेयं यत्तस्यामीर्ष्यायां “अन्येभ्यो भवेयमहं श्रेष्ठोऽथवा मयाऽपि यदि परिश्रमः क्रियेत तदा तेन सदृशोऽथवा ततोऽपि श्रेष्ठो भवेयमि”ति भावनायाः स्थानमेव न भवति । तत्र तु 'अहमुत्तमो भवेयं न वा किन्तु कदाऽप्यन्यस्तु मत्तः श्रेष्ठो नैव भवेत्' इत्येव दुष्टवृत्ती रमते । एतादृशी वृत्तिरस्माकं मानसे हताशां हतवीर्यतां चोद्गमयति । तथा चाऽन्यान् प्रति निष्कारणं द्वेषं क्रोधं च जागरयति । सुज्ञजनायैतादृशी स्थितिः न कदाऽपि हितावहा भवति । ७८ Page #94 -------------------------------------------------------------------------- ________________ शोधलेख: जैनमुनिरनशेखरस्य छन्दःकोशे छन्दोयोगदानम् डॉ.आचार्यरामकिशोरमिश्रः संस्कृतविभागाध्यक्षः म.मा. डिग्री कॉलिज, खेकडा (बागपत) उ.प्र. २०११०१ छन्द:कोशस्य रचयिता जैनमुनिरत्नशेखरोऽस्ति । अयं श्रीवज्रसेनस्य शिष्यस्तथा श्रीहेमतिलकसूरे: पट्टाधिकारी नागपुरीयतपागच्छस्य जैनसाधुरासीत् । पट्टावल्यनुसारमस्य जन्म नेत्राऽश्वकालचद्राऽङ्किते १३७२ वैक्रमाब्दे बभूव । छन्द:कोशस्छन्दसामेकोलघुग्रन्थोऽस्ति । अत्र युगर्षिपद्यानि (७४) सन्ति । प्रथमपद्याच्चतुर्थपद्यपर्यन्तमेकपञ्चाशत्तम(५१)पद्याच्च चतुःसप्तति(७४)तमपद्यपर्यन्तमष्टाविंशति(२८) पद्यानि प्राकृतनिबद्धानि, शेषपद्यानि च पञ्चमपद्यात्पञ्चाशपद्यपर्यन्तं षटचत्वारिंशत्पद्या(४६)न्यपभ्रंशपरिचायकानि सन्ति । अस्य ग्रन्थस्य प्राकृतपैङ्गलस्य च कानिचित्पद्यानि साम्यधारकानि सन्ति । अतोऽस्य समयः प्राय: खभूताग्नीश्वराङ्कित:(१३५०) ऊस्ताब्दो मन्यते। __ अस्य लक्षितेषु छन्दस्सु द्वे स्वतन्त्रलक्षिते छन्दसी स्तः, ये लौकिकच्छन्दःशास्त्रे स्वयोगं दत्तः । यथा___जैनमुनिरत्नशेखरस्य स्वतन्त्रलक्षिते छन्दसी - छन्दोनाम लक्षणम् वृत्ति: पादवर्णाः छन्दकोश: १ बहुलम् (नननाः) ८ अष्टमपद्यम् २ नाराचः r(जरजरजरलगा:)1 कृतिः २० १५ पञ्चदशं पद्यम् LISISISISIS151515155 (१) प्राकृतपैङ्गलम्, भागः - २, पृष्ठाः - ३८८ (२) छन्द:कोशस्य - १२, १६, २५, ३१, ४६, ५० इत्यङ्कितानि पद्यानि, प्राकृतपैङ्गलस्य च क्रमश: - १/१०७,२/२०८, १/१७०, १/१४६, २/६९, १/१४४ इत्यङ्कितानि पद्यानि द्रष्टुं शक्यन्ते। (३) नाराचस्य पञ्चचामर इति नामान्तरम् । बृहती Page #95 -------------------------------------------------------------------------- ________________ मुक्तकाव्यम् - मुनिरत्नकीतिविजयः अहं 'अह'मरिम भवांश्च भवान्' एव, किन्तु 'अहं' "भवांश्च' सम्मील्यैव 'व्यं भवामः । एषा अभेददृष्टिरेव किं न संसार: ? गगनं विशालं व्यापकं चाऽस्ति यतः तद् ‘गगनं' अस्ति, पर्वत उन्नतोऽस्ति यतः स 'पर्वत' एवास्ति, समुद्रो गम्भीरोऽस्ति; किमर्थम् ? यतः सोऽपि ‘समुद्र' एवाऽस्ति केवलम् ! वस्तुतस्तु ममैव एतद् स्वरूपम्, किन्तु अद्य अहं न विशालो नाऽपि व्यापकः न उन्नतः नाऽपि च गम्भीरोऽस्मि ! किमर्थम् ? यतः, अहं 'किञ्चिद् अस्मि, परंतु अहं 'अहमेव केवलं' नाऽस्मि । ८० Page #96 -------------------------------------------------------------------------- ________________ હથોડી જૂનાપુરાણા દેવોને મેં જતા જોયા છે અને નવા દેવોને આવતા. પ્રત્યેક દિવસે અને વરસે-વરસે મૂર્તિઓ પડે છે અને પ્રતિમાઓ ઊભી થાય છે. આજે હું હથોડીની ભક્તિ કરું છું. રૂપાન્તર: સુરેશ દલાલ કવિઃ કાલ્ સેન્ડબર્ગ (અમેરિકા) अयोधन-उपासना मया दृष्टाः जीर्णाः पुरातना देवा गच्छन्तः आगच्छन्तो नवाश्च; प्रतिदिनं प्रतिवर्षं च मूर्तयो ध्वंसम् आप्नुवन्ति नवीना निर्मीयन्ते च; [ગત-] अद्य अहं अयोधनस्य उपासनां स्वीकरोमि ॥ अनुवाद: विजयशीलचन्द्रसूरिः છે તે (ગાથાર: કાવ્યવિશ્વ : ઈ. ૨૦૦૧ (ઈમજ પ્રકાશન) પૂ.૧૬૧) ८१ Page #97 -------------------------------------------------------------------------- ________________ काव्यानुवादः મિત્રને છરી પાછી આપતા આ લ્યો તમારી છરી જેની તમને ખોટ ન જ સાલવી જોઈએ એવું તમારું ઓજાર ચળકતું, ચોખ્ખું અને ધારદાર લગભગ નવા જેવું જ મારી પીઠે એને જરીકે નુકસાન પહોંચાડ્યું નથી. રૂપાન્તર: સુરેશ દલાલ अवि : ८७२ मोसन (अमेरि) मित्राय छुरिकायाः प्रतिदानम् गृह्णन्तु इमां यौष्माकीणां छुरिकां झलझलन्ती, स्वच्छा, निशितधारा, प्रायशो नूतना एव इयं भावत्की छुरिका; [अतः प्रतिददामि [किन्तु पश्यत] एतस्यां मम पृष्ठिप्रदेशेन मनागपि क्षतं न विहितमस्ति अनुवाद: विजयशीलचन्द्रसूरि: (आधार: प्यविश्व : 6. २००१ (मे४ प्राशन) ५.१६3) ८२ Page #98 -------------------------------------------------------------------------- ________________ broj પ્રશ્નોત્તર કંજૂસને કોઈએ પૂછ્યું, “हान म नथी रतो ?" “रिद्र थई 16 तो !" આ તેનો જવાબ હતો. ઉદારને કોઈએ પૂછ્યું, "तुं न म हरे छे ?" "हरिद्र थई 16 तो !" આ તેનો જવાબ હતો. प्रश्नोत्तरम् कूपणं कश्चिद् अपृच्छत् भो! किमिति दानं न क्रोषि ? "कदाचिद् दरिद्रो भवेयम् !!" इति तस्य उत्तर आसीत् । तदैव कश्चिद् दातारमपूच्छत् भो! किमर्थं दानं करोषि ? "कदाचिद् दरिद्रो भवेयम् !!" इति तस्याऽपि उत्तर आसीत् । अनुवाद: सा. युगन्धराश्री: ८३ Page #99 -------------------------------------------------------------------------- ________________ कथा (१) भव्यं सञ्जातं, यद् भवता शस्त्रक्रिया त्वरितमेव कारिता । यदि दिनद्वयं विलम्बः कृ तः स्यात्, तदा शस्त्रक्रियां विनैव भवान् स्वस्थोऽभविष्यत् । (२) कथायां बोधः - विजयशीलचन्द्रसूरिः जन एकः श्लेष्मग्रस्तः । स विदेशे विश्वविद्यालयेऽधीत्य निष्णातवैद्यपदवीं सम्पाद्य चाऽऽगतस्यैकस्य नूतनवैद्यमहाशयस्य समीपं गतवान्, स्वीयामस्वस्थतां निवेद्य तच्चिकित्साप्रकारं पृष्टवांश्च । वैद्येन सर्वतस्तं परीक्ष्य सनिःश्वासं प्रवेदितं तस्मै - "न खलु कोऽपि चिकित्साप्रकार एतं रोगं शमयितुमस्ति अस्मत्सविधे । " जनेन पृष्टम् – “तर्ह्येतच्छमनाय मया किं कर्तव्यम् ?" वैद्य: सोल्लासमुक्तवान् – “एकं कार्यं करोतु भवान् । प्रथममत्युष्णजलधाराया अधः कञ्चित् कालं तिष्ठतु, तदनन्तरमङ्गमप्रमृज्यैवाऽतिशीतजलधाराया अध उपविशतु तावन्तमेव कालम् ।" "ततः किं भविष्यति ? " जनेन साश्चर्यं पृष्टम् । तेन सरोमहर्षं गदितम् – “एतावत्कार्यकरणतो भवान् 'न्यूमोनिया' ऽभिधव्याधिग्रस्तो भविष्यति । तस्य च चिकित्सां कर्तुमहं जानाम्येव । ततश्च भवान् शीघ्रं स्वस्थतामाप्स्यति । ८४ Page #100 -------------------------------------------------------------------------- ________________ शिष्यत्वं ईहमानेनैकेन जनेन ईजीप्सियन्-गुरुरुक्तः "मन्येऽहं यद् अखिले संसारेऽहमेव एको जनः, यः सत्यस्य पथि दीक्षितुं तीव्रतया ईहते । कृपया भवान् मां दीक्षयतु ।" गुरुणा प्रत्युक्तम् - "अस्मत्सार्थस्य सभ्यतया त्वमवश्यं प्रवेष्टुमर्हसि । किन्तु एतद्विकं त्वया हठात् स्वीकर्तव्यं भविष्यति - एकं, यत् कर्तुं तवाऽनिच्छा स्यात् तत्त्वयाऽवश्यं करणीयम् । अन्यत् , त्वं यत्किञ्चिदपि चिकीर्षिष्यसि, तत् कर्तुं त्वं नैव शक्नोषि; वयं त्वां तत् कर्तुं नैवाऽनुमंस्यामहे । यद्येतदर्थं स्यात् तव मनस्तर्हि स्वागतं ते । RTHRITE A Page #101 -------------------------------------------------------------------------- ________________ सूफी कथा ___ - मुनिरत्नकीतिविजयः एकस्य आरबदेशीयस्य जनस्य पार्श्वे प्रभूता सम्पद् आसीत् । तस्य च द्वौ एव पुत्रौ आस्ताम् । मृत्योः पूर्वं लेखपत्रे तेनैवमुल्लिखितं यद् - " उभावपि पुत्रौ उष्ट्रावारुह्य मक्कां प्रति धावताम् । यस्य चोष्ट्रो विलम्बेन मक्कां प्राप्नुयात् स एव अस्याः सम्पद: स्वामी भवतु " इति । अल्पेनैव कालेन तस्य मृत्युरपि सञ्जातः । उभौ अपि पुत्रौ तल्लेखपत्रं पठितवन्तौ । तदनुसतुं उद्युक्तौ अपि तौ सञ्जातौ । उभाभ्यां अपि उष्ट्रौ सज्जीकृतौ किन्तु गृहाङ्गणात् बहिनिर्गमने एव सप्त दिनानि व्यतीतानि । एकेन मासेन तु तौ रथ्यायाः अन्तमेव प्राप्तवन्तौ । तावत् एक प्राज्ञजन: तयोः सम्मुखं आगतवान् । उभयोरपि तादृशं स्वरूपं दृष्ट्वा आश्चर्य अनुभूतवान् सः । द्वौ अपि भ्रातरौ तमकथयताम् - किं करणीयं आवाभ्याम् ? पिता विचित्रं लेखं लिखितवान् अस्ति।" "किंस्वरूपं लिखितं भवतोः पित्रा? " - पृष्टवान् स प्राज्ञः । "तै: लिखितमेतद् यद् यस्य उष्टः विलम्बेन मक्कां प्राप्नुयात् स एव अस्याः सम्पदः स्वामी भवतु । अत: आवां मन्दगत्या उष्ट्रौ चालयावः" - ताभ्यामुक्तम् । "एवमेव तु भवतो: उभयोरपि जीवनं यदि नाम समाति प्राप्स्यति तथाऽपि युवां लक्ष्यं न प्राप्स्यथः" इति स जनः उवाच । एतत्तु आवामपि जानीव एव । किन्तु किमत्र अन्यत् कर्तव्यम् ? " "युवयोः पित्रोष्ट्रयो: मक्काप्राप्ति: विलम्बेन निर्दिष्टा न तु युवयोः । किं सत्यमेतद् खलु?" "आम् ! सत्यमेव।" "तहिं उष्ट्रयोः परस्परं परावर्तनं कुर्वाथाम् । एवं च युवां यस्मिन् उष्ट्रे स्थितौ अभविष्यथ: स भ्रातुः अभविष्यत् । युवां च तमुष्टं तावद् धावयतं यत् स एव प्रथमं लक्ष्यं प्राप्नोतु । अतः स्वाभाविकमेव युवयो: उष्ट्रं विलम्बेन मक्कां प्राप्स्यति ।" उष्ट्रौ च सत्यं अधावताम् । ८६ Page #102 -------------------------------------------------------------------------- ________________ कथा बणिजः शाठ्यम् मुनिकल्याणकीर्तिविजयः वणिजो हि शाठ्यकला(?)यामतीव निपुणा भवन्ति । कस्यचित् वञ्चना नाम तेषां वामहस्तक्रीडा! । भवतु नाम यदि ते मुग्धजनान् प्रतारयेयुः, किन्तु कदाऽपि श्रुतं भवद्भिर्यत् केनचिद् वणिजा देवा अपि प्रतारिता:? आम् तादृशा अपि जना सन्ति अस्मिन् वैचित्र्ययुते विश्वे ये विबुधनामधारकान् देवानपि वञ्चितुं शक्नुवन्ति । __ अद्याऽहं तादृशस्यैवैकस्य देववञ्चकस्य कथां भवद्भयः श्रावयितुं(पाठयितुं ?) उपस्थितोऽस्मि । शृणुत तावत् । किल देवपुरनामनगरे एको वणिक्श्रेष्ठी वसति स्म । कुलानन्द इति तन्नाम आसीत् । तच्च नाम तेन निजाचरणेन सार्थकं कृतमासीत् । स हि महाशठ आसीत् । वणिक्कुलेषु तु तादृशा एव आनन्ददायका इति स यथार्थतया कुलानन्द आसीत् । तस्य च मदनकलिका नामाऽत्यन्तरूपिणी गुणवती च भार्या बभूव। तौ द्वावपि परस्परमतीव प्रीतिमन्तौ आस्ताम् । __ अथ स श्रेष्ठी महाधनिक आसीत् । तत्पार्वे तावद् धनमासीत् यस्य गणनां कर्तुं स स्वयमपि न शक्तोऽभूत् । व्यवहारकुशलस्य तस्य वाणिज्यं जल-स्थलोभयमार्गेण नैकदेशेषु व्याप्तं विस्तृतं च बभूव । (अद्यतनीभाषायां तु 'मल्टीनेश्नल्कम्पनी'ति स्यात्)। किन्तु बहो: कालादपि तयोर्दम्पत्योः काऽपि सन्ततिर्न बभूव। अत: कुलानन्देन चिन्तितं यद् 'यदि पुत्रो नाऽस्ति तदाऽस्य विशालवैभवस्य धनस्य च भोक्ता को भविष्यति ? अस्माकं परम्परा कथं प्रचलिष्यति ? वार्धक्ये च नौ क आधार: ? अतः पुत्रप्राप्त्यर्थं कश्चिदुपायः प्रयोक्तव्यः। इतो मदनकलिकयाऽपि चिन्तितं यद् 'मातृत्वेन विना स्त्रीत्वस्य कोऽर्थः? तानि गृहाणि स्मशानतुल्यानि येषामङ्गणेषु क्रीडतां बालानां कर्णमधुरः कलकलरवो न श्रूयते । अतः सन्ततिप्राप्त्यर्थं किमपि कर्तव्यम्।' ८७ Page #103 -------------------------------------------------------------------------- ________________ ततस्तया निजमनोरथोऽयं पत्ये कथितः । एतच्छ्रुत्वा हृष्टः सोऽपि तत्सममेव निजचिन्तितं कथितवान् । तदा मदनकलिकया कथितं यत् "स्वामिन् ! नगराद् बहि: नगरदेव्या: स्थानमस्ति । सा हि भृशं करुणावती सर्वदा च जनेभ्यो मनोवाञ्छितानि ददाति । यद्यावां तस्या उपयाचितं कुर्वस्तदा निश्चितं सा आवाभ्यां पुत्रप्रदा भविष्यति।" श्रेष्ठिनोक्तं - "तर्हि त्वं तस्या उपयाचनं कुरु । पुत्रे जाते वयं महोत्सवपूर्वकं तदुपयाचितं पूरयिष्यामः।" । अथ तयाऽपि मदनकलिकयाऽन्यस्मिन् दिने नगरदेव्या आयतनं गत्वा विविधैरुत्तमैर्द्रव्यैः तस्याः पूजा कृता, पूजान्ते च उपयाचितं कृतं यद् - "हे भगवति! त्वत्प्रसादाद यदि मे पुत्रो भविष्यति तदाऽहं तव लक्षत्रयमुद्राव्ययनिष्पन्नां पूजां करिष्ये " इति । ततो गृहमागत्य श्रेष्ठिनेऽयं वृत्तान्तो निवेदितः । तेनाऽपि "उचितं कृतं त्वया" इति कथयित्वा तस्याः समर्थन कृतम्। क्रमेण तयोः पुत्रो जातः । केषुचिद्दिनेषु व्यतीतेषु मदनकलिकया श्रेष्ठी देव्या उपयाचितपूरणार्थं स्मारितः । तेन च श्रेष्ठिना प्रत्येकं लक्षद्रव्यनिष्पन्नानि त्रयो रत्नखचितानि हैमपुष्पाणि कारितानि । तदनु सपरिजनं नगरदेव्याः सदनं गत्वा महामहःपूर्वकं तस्याः पूजां कृतवान् सः। पूजाकाले च स तानि त्रीण्यपि पुष्पाणि देव्यै समर्पितवान् । अथ पूजासमाप्तौ स स्वस्य पन्याः शिशोश्च नामग्राहं "मातः! अहं भवत्याः प्रसादरूपेणैतानि पुष्पाणि गृह्णामि" इति कथयित्वा त्रीण्यपि पुष्पाणि गृहीतवान् ।। श्रेष्ठिना समाचरितं शाठ्यमिदं विलोक्य सा देवी अतीव विलक्षिता बभूव । अतो निजमनोव्यथां निवेदयितुं सा मित्रदेवपार्श्व गता, कथितवती च तस्मै यद् - "भो मित्र! तेन कुलानन्देन वणिजाऽद्य पुष्पत्रयेण मम पूजा कृता। तदनु च युक्तिपूर्वकं तानि गृहीत्वा स मां वञ्चितवान् । अतोऽहं तस्य शठस्य शाठ्यं प्रतिकर्तुमुत्सहे। तदर्थं च भवत्साहाय्यमपेक्षे।" एतच्छ्रुत्वा उच्चैर्विहस्य मित्रदेवतयोक्तम् – “ देवि! स्वल्पमेतत् खलु । यतोऽहं ह्यनेन तथा कदर्थितो यथाऽद्याऽपि तां मम दुरवस्थां न विस्मरामि ।" _ "किं वक्षि त्वम् ? अनेन श्रेष्ठिना त्वमपि वञ्चित: ? कदा? कथम् वा? " इति देव्या पृष्टे तेनोक्तम् - "शृणु तावत् । अयं हि वणिक् वाणिज्यार्थं देश-विदेशान् भ्राम्यति । अस्य शतश: प्रवहणान्यपि जलधौ ८८ Page #104 -------------------------------------------------------------------------- ________________ चरन्ति । अथैकदा एकं प्रवहणं समुद्रमध्ये कुत्रचिद् विलीनं बभूव । कुतोऽपि तद्गन्धोऽपि न ज्ञायते स्म । अतोऽसौ श्रेष्ठी मच्चैत्ये आगत्य "यदि भवत्कृपातो मम बोहित्थं सक्षेममागमिष्यति तदा भवते महिषमेकं दास्यामि बलिरूपेण" इति उपयाचितं प्रतिपन्नवान् । मयाऽपि च महिषलोभेन तत् प्रवहणं समुद्रमध्यान्मृगयित्वा स्वशक्त्या समुद्रतटे आनीतम्। तदागमनवार्ता श्रुत्वा हृष्टेन तेन श्रेष्ठिना नगरे महोत्सव आचरितः। तस्य च प्रवहणस्याऽन्तःस्थानां क्रयाणकानां विक्रयणेन च तस्याऽनपेक्षितो लाभो जातः । किन्तु महिषवार्ता तु स विस्मृता तेन । अतो मया स्वप्नेऽसौ महिषार्थं स्मारितः । तदा सोऽपि कुतश्चिदेकं तरुणं महिषं मम चैत्ये आनीतवान् । ततोऽसौ महिषगलस्थाया रज्ज्वा द्वितीयं पर्यन्तं मम प्रतिमाया बद्धवान् । तदनु स भेरी-मृदङ्गादिवादकान् आहूय चैत्यपरिसरे युगपदेव सर्वाणि वादित्राणि वादयितुमादिशत् । वादित्राणां तेषां महान्तं नादं श्रुत्वा चिरादरण्यवास्तव्यत्वात् त्रस्तः स कासारनन्दनः ततो धावितवान् । धावन् स स्वेन सह रज्ज्वा बद्धं मामपि घर्षयन् तथाऽऽकृष्टवान् यथा तदा ममाऽङ्गेषु लग्नाश्चन्द्रिका: किलाऽद्याऽपि नोपशाम्यन्ति । अयं च वणिक् तथा निःशूकोऽस्ति यथाऽहं तत्प्रतीकारं कर्तुं नैव प्रभवाम्यहमपि। अतस्त्वं मा रोदी: । यतो महद् भाग्यं जागर्ति ते यत् स्वल्पेनैव विडम्बनेन मुक्ताऽसि त्वं तेन" इति । एतच्छुत्वा स्वां भाग्यवतीम्मन्या सा ततो निजस्थानं प्रतिनिवृत्ता। अतो भवन्तोऽपि वणिग्भ्यः सदा सावधानीभूय चरन्तु, अन्यथा.......!! ८९ Page #105 -------------------------------------------------------------------------- ________________ सुभाषितकथा कथा - एम. के. नञ्चुण्डस्वामी अथ कस्मिँश्चित् दिने कबीरः साधुः कस्या अपि प्रवचनसभाया: प्रतिनिवर्तमानः श्रान्तः कस्यचित् जलाशयस्य निकटे उपिववेश। उपिवष्टस्य तस्य कतिपयेषु क्षणेषु व्यतीयमानेषु विवदमानाश्चत्वारो युवानस्तत्रैवाऽऽगत्य आसीनाः । ते पुन: सद्य एव स्वरचिते द्यूते जयापजयविषये परस्परमसम्मता निर्णयमगच्छन्तो वाक्कलहाय प्रारेभिरे। अथ तेष्वेकः, "आत्मना वयं विवादस्याऽन्तं गन्तुं न शक्नुमः । तस्मात् अत्रैवोपविष्टं साधुमिमं याचामहे-यथा अस्मासु कृपया आस्माकीने विवादे न्याय्यं अन्विष्य निर्णयं कथयतु भवान् " इति कथितवान् । तदा तेष्वेकतमः, शृण्वति कबीरे, सोपहासमवदत् - "अहो एष साधुरेतादृशान् विषयान् किं जानीयात् ? विकृतान् मुखवालान् असीमं संवर्धयितुं केवलं जानीयाद्" इति । तयोपहासं शृण्वन्तोऽपि अन्ये तमनाक्षिप्यैव तूष्णीं स्थिताः । अथ गतेषु कतिपयक्षणेषु तेष्वेको जगाद - "को दोषः, यद्येष साधुर्वर्षीयान् बाह्यपुरुषः पक्षपातदूरोऽस्माकं विवादं प्रशमयेद्" इति । एवं अन्योन्यं संमन्त्र्य ते कबीरं "आर्येति" संभाव्य स्वविवादविषयं तस्मै न्यवेदयन् । ___ कबीरः सर्वमपि तदुक्तं शान्तेन मनसा श्रुत्वा विवादस्याऽसारतां विदित्वा, तान् प्रकारान्तरेण बोधियतुं यत्नवान् मृदुलया वाचाऽपृच्छत् - "भो वत्सा ! यूयं के, वृत्तिर्वा युष्माकं का?" इति । ते पुनरात्मनो विद्यार्थिदशां निवेद्य, किमप्यनिष्टं घटितं स्मारिता इव खिन्ना: तूष्णींस्थिताः। एवं खिन्नान् तानवलोक्य कबीर: पुनर्मुदुलया वाचा पृष्टवान् - "भो वत्साः ! विद्यार्थिभिः विद्याव्यासङ्गविधये सदा हृष्टचित्तैर्भवितव्यं ननु ? तिष्ठतु तावद् विवादविषयः। यूयं कुत एवं विषण्णा इव दृश्यध्वे? निगूहनीयं किमपि नास्ति चेत् कथ्यतां यत्किमप्यात्मनो वृत्तान्त " इति । ते छात्रा अवदन् - "आर्य ! न किमप्यस्ति निगूहनीयम् । वयं विद्यार्थिनः परीक्षार्थिनश्च स्मः । स्वसामर्थ्य मिथ्याभिमानितया नियतशिक्षासमयस्व पूर्वार्धं सहपठिनीभिविनोदविहार ९० Page #106 -------------------------------------------------------------------------- ________________ यात्रारताः, तासां प्रशंसासंपादनाय वाहनचालनादिस्पर्धासु संमिलन्तः, स्वसङ्केतरविद्यार्थिन: प्रथमं विरुध्य, पश्चात् तद्विरोधशमनाय कालं व्यर्थं नयन्तः, स्वाध्यायविषये आसक्तिरहिता अभूम । अथ किञ्चिज्जागिरता: पाठ्यविषयाणां बहुगम्भीरतयाऽपठितत्वाच्च परीक्षायां सफलतां प्रति दुर्बलाशाः, तज्जनितनैराश्यं विस्मर्तु एतादृशलघुद्यूतादिषु दत्तिचत्ता: कालं यापयामः । इत्येतदद्य भवद्भ्यः सर्वं निवेदितं निवेदनीयम् । आर्याः ! कथयन्तु सम्प्रति भवन्तः" इत्यावेद्य तूष्णींस्थिताः। तदा कबीर: तानपृच्छत् - "भो छात्रा: ! क्रीडादिषु नियमेन प्रवर्तनं छात्राणामपेक्षितमेव । किन्तु सर्वदा क्रीडारतत्वं किमुचितम् ? अयं क्रीडामोह एव खलु?" छात्राः अथ किम् आर्याः ! एष मोहक्रीडा एव। कबीरः नन्वेष मोहो मनसो विकार एकः । छात्राः आर्या: ! अथ किम् ? कबीरः "ननु परीक्षाकालो दूरे वर्तते" इत्यक्तं युष्माभिः । एतदपि कथं निर्णीतम् । विद्यार्थिनां प्रत्यहमिति किम् , प्रतिक्षणमपि विद्यार्जनसमय एव । विद्यार्थी स्वयमनुदिनमात्मानं परीक्षायतं कुर्वन्नेव शिक्षायामग्रेसरो भवेन्ननु ? छात्राः आर्याः ! एनाममृतवाणीं सदा हृदयसात् कुर्मः । बाढमस्माभिः कालस्य महान् दुरुपयोगः कृतः। कबीरः नन्वेवं कालस्य दुरुपयोगः रागद्वेषनिघ्नस्य मनसो विकारेण संजातः खलु ? छात्राः आर्याः ! उपपन्नोऽयमर्थः। कबीरः युष्मादृशां विद्यार्थिनां लक्ष्यं प्राप्तुं सहपाठिनीनां प्रशंसादि किमनिवार्यमासीत् ? छात्राः न खलु आर्या ! न खलु । अत्राऽपराद्धास्स्मः । तदा इममपि मनोविकारं वेत्तुं न पारितवन्तः। कबीर: वत्साः ! अन्यमेकं प्रश्नं श्रावियतुमिच्छामि । येन यूयं रुष्टा भवेत । अथवा न श्रावयामि। छात्राः हन्त, आर्याः ! मा तूष्णीं भवन्तु । कृपयाऽनुशासनेनाऽनुगृहणन्त्वस्मान् । अहो वत्साः ! मुखे वाला युष्माभिविकृता दृष्टाः ? ततोऽपि विकृता मनसो विकारा कुतो न दृष्टाः? कबीरः ९१ Page #107 -------------------------------------------------------------------------- ________________ छात्राः छात्रा: छात्राः आर्याः ! हन्त, अत्र बाढमपरद्धास्स्मः । अनुकम्पनीयास्स्म आर्याणां बालभावे नोत्तानहृदयाः । भवदुपदेशेन निरस्तहृदयक्लेशा नूतनाः संवृत्ता वयम्। कबीरः वत्सा: ! पूर्वमेवाऽनुकम्पिता एव यूयम् । सन्मार्गे तिष्ठत । कुरुत हृदयस्थानि मे वचनानि । संप्रति गच्छामो वयम् ? न न आर्याः ! क्षणं तिष्ठन्तु । सुधामधुराण्यपि भवद्वचनानि गद्यरूपेण हृदये चिरं स्थातुं न क्षमन्ते । तस्मात् पद्यबन्धेन यदि श्रावयन्त्यार्याः तर्हि सकृदभ्यासेनैव हृदये धारयितुं शक्ता भवेम। कबीरः बाढम् ! युक्तमुक्तं युष्माभिः । ननु प्रथममत्र यूयमेव यतध्वम् । अहं साह्याय प्रस्तुत एव। आर्याः ! इदं प्रयतिष्यामहे। -प्रथमः "केसन कहा बिगाडिया -द्वितीयः जो मंडै सौ बार। -तृतीयः मन को क्यों नहिं मूंडिये -तुरीयः जा में विषय-विकार ॥" कबीरः हन्त! मत्साह्यं विनैव युष्माभिः सुभाषितमेवं ग्रथितमिति मम वचनानि युष्मन्मनसि सम्यक् लग्नानीति मन्ये । श्रेयोऽस्तु वः । गच्छत गृहान् । वयमपि साधयामः । एकश्छात्रः अहो कथयन्नेव गतः साधुः। अन्यश्छात्रः नन्तुमप्यवसर एव न लब्धः। . अपरश्छात्रः आशिषो दत्त्वा गतः । न तादृशा नमनप्रतीक्षकाः। तुरीयश्च साधोर्निगमनेन शून्यीकृतमिवाऽस्माकं मनः । हन्त, गन्तव्या एव गृहाः । • "रागद्वेष वियुक्तानां यतीनां यतचेतसाम्। अभितो ब्रह्मनिर्वाणं वर्तते विजितात्मनाम् ॥" गीता ॥ Page #108 -------------------------------------------------------------------------- ________________ एको निबन्धः - मुनिरत्रकीर्तिविजयः विद्यालये परीक्षायां प्रश्नपत्रे एक: प्रश्नः पृष्ट आसीत् यद् - "निम्नलिखितेभ्यो विषयेभ्य एकस्मिन् विषये निबन्धं लिखतु - महात्मा गान्धी:, गौः, अस्माकं विद्यालयः इति" एकेन विद्यार्थिना 'गो' विषयं चित्वा एवं लिखिम् - गौरत्यन्तं सरलः प्राणी अस्ति । अस्माकं राष्ट्रे गोरपि गान्धीवर्यस्य इवोच्चं स्थानं विद्यते । यतो गान्धीवर्यवत् तमपि निबन्धस्य विषयत्वेन स्वीकृत्य श्रीकारेण तस्मै गौरवं प्रदत्तमस्ति। महात्मगान्धीवर्योऽस्माकं राष्ट्रस्य पिताऽस्ति तथा गौरस्माकं माताऽस्ति । गोरपि मनुष्यस्य इवैकमेव मुखं (मनुष्यमुखाद् भिन्नस्वरूपं) विद्यते। द्वावेव कर्णो किन्तु बृहतौ भवतः । एका नासिका एकैव च जिह्वा विद्यते । गौः कियन्तो दन्ताः सन्ति इति न मयाऽद्यापि ज्ञातम् । तद् ज्ञातुं च कोऽपि प्रयत्नविशेष: साहसो वाऽपि मया न कृतः न च तत्करणे ममोत्साहोऽपि वर्तते । अत: तद्विषयकमज्ञानं तस्य ज्ञातृणामग्रे स्वीकरोमि। गोझै एव शृङ्गे वर्तेते, ये च सततं बहिर्दश्यते । येन मनुष्यः सावधानं वर्तितुं शक्तो भवेत् । (न किन्तु मनुष्यस्य इव अनेकानि गुप्तानि च सन्ति) शरीरसंरचनामनुसृत्य चत्वारः पादास्तस्य भवन्ति, येन स्थितौ गतौ च न कष्टं तस्य भवेत् । द्वाभ्यां पादाभ्यां तु न काऽपि क्रिया सुकरं कर्तुं शक्या तस्य, अपरं च यदि द्वावेव पादौ स्याताम् तहि शरीरस्य मध्यभागे तौ स्थापितव्यौ, यन्नोचितम् । अतो दीर्घदृष्टयैव विचार्य चत्वारः पादाः प्रदत्ता ईश्वरेण। वस्त्राणामभावे एकं पुच्छमपि दत्तं तस्मै ईश्वरेण । यद्यपि कण्डूयनकाले स्वरक्षणकाले च न तद् वस्त्रस्य कार्यं करोति तथाऽपि अनुक्रमेण द्वे अपि कार्ये (रक्षणकण्डूयनादि वस्त्रकाएँ ९३ Page #109 -------------------------------------------------------------------------- ________________ च) तेन सिध्यतः। गौः जलमिश्रणेन रहितं शुध्धं दुग्ध ददाति । जलं तु तत्र विक्रेतारो मिश्रयन्ति । उपायोऽस्त्यत्र यद् दुग्धदोहन कालात् पूर्वं यदि नाम गां जलं पाययेत् नर्हि बहिस्तः जलमिश्रणस्याऽपराधो न भवेत् । किन्तु एषा रहस्यवार्ताऽस्ति, अतो न सर्वत्र निःशङ्कं वा वक्तुं योग्या। गौर्दुग्धं ददाति किन्तु न पिबति परं मनुष्यस्तु दुग्धं पिबति न ददाति । यच्च दुग्धं स परेभ्यो ददाति तदपि गोरेव । अत एव गौरेव परोपकारी कथितुं योग्यः । गौः तृणान्यत्ति । यद्यपि एतद्विधानं तु प्राचीनां परम्परामनुसृत्याऽत्र कृतमस्ति । यतोऽधुना तु केषाञ्चिद् अधिकारिणां जनानामपि तद् भोजनं (?) जातमस्ति इति श्रूयते वाच्यते चाऽपि । गौः सकाशात् प्रभूतं शिक्षणीयमस्ति । मनुष्यजातेन तु तस्य सकाशात्, उत्थितः सन् चरंश्च कथं भक्ष्यते, इति शिक्षणं प्राप्तं, प्रसारितमपि च सर्वत्र । किन्तु एकत्र न स सफलोऽभवत्, यद् यथा गौरुच्चर्वणं कर्तुं शक्तः तथा नाऽयम्। जन्मप्रभृति मरणपर्यन्तं गौ: 'गौ'रेव कथ्यते न किन्तु मनुष्यवत् यथालक्षणं भिन्नभिन्नैविशेषणैः (गो-गर्दभ-श्वेत्यादिभिः) स परिचीयते । गौः गोरूपेणैव यथा जीवनं यापयति तथा मनुष्येणाऽप्येतद् शिक्षणीयं यद् सोऽपि मनुष्यरूपेणैव जीवनं यापयतु। मनुष्यत्वस्य कादाचित्को व्यवहारो न शोभास्पदः इति विचारणीयम् । इति । ९४ Page #110 -------------------------------------------------------------------------- ________________ रङ्गमञ्चः ////// mh अहो! दुर्धर्षा दैवलीला (सोफोक्लीस्-नामग्रीक नाट्यकारेण विरचितस्य “ईडिपस्” नाटकस्य संस्कृतभावरूपकम् ) -स्वामिश्रीब्रह्मानन्देन्द्रसरस्वती योगवेदान्तमहाविद्यापीठम्, मत्तीकोप्प, पो. कल्मने, ता. सागर, जि. शिवमोग्ग ५७७४०१ (कर्णाटक) पात्राणि ईडिपस् - थीब्स् - नगरस्य राजा जोकास्टा - ईडिपस्-इत्यस्य राज्ञी क्रयान् - जोकास्टाया अनुजो युवराजकुमारश्च टैरिसियस् – दैवज्ञः दूत: प्रजानायक: राजभटाः or Page #111 -------------------------------------------------------------------------- ________________ -- प्रथमं दृश्यम् (राजा ईडिपस्, राज्ञी जोकास्ट्रा च सिंहासनारूढौ विराजे । मन्त्रिवर्गपरिवारस्याऽऽस्थानप्रवेशायाऽल्पसमयोऽवशिष्यते । ईडिपस् जोकास्टया सह संलपति ।) ईडिपस् (जोकास्टामुद्दिश्य) प्रिये ! एतावत्पर्यन्तं थीब्स्-नगरमनाथमासीत्। लायस्नृपालस्याऽमानुषनिगूढहत्यायाऽनन्तरं नः प्रजा निराश्रिता व्याकुलिताश्चाऽऽसन् । तेषां कृते सन्निहितभाग्यराशिरिवाऽहं मम पितरौ विहाय कारिन्तराज्यस्थितान्मज्जन्मस्थानादाकस्मिक घटनाप्रचोदितः सन्नत्राऽऽगतोऽस्मि । नूनमदृष्टं यदाऽस्मान्ननुगृह्णाति तदा सर्वसम्पदधिदेवता स्वयमस्माननुगच्छति । सत्यं वदामि जोकास्टे ! अत्रत्याः प्रजा मया सनाथीकृताः, न ता इतः परं शत्रुभयेनाSराजकतया पीड्यन्ते । अहं सुष्ठु स्मरामि नाथ ! अद्याऽहं प्रायेण पञ्चचत्वारिंशद्वर्षवयस्काऽस्मि । अहं मम पञ्चदशवर्षमिते वयसि लायस् - नृपालं पर्यणयम् । आवयोरेकः पुत्रोऽपि जातः । किन्तु तच्छैशव एव, "यद्ययं शिशू राजधान्यां निवसति तदा तस्य मातापित्रोर्दुरन्तं कष्टं सम्भविष्यति " इति देववाणीमुपश्रुत्य तं शिशुं मारणार्थमरण्यवासिभ्यः प्रायच्छम् । तदनन्तरं लायस् - नृपालेन सह मम दाम्पत्यं प्रायेण पञ्चविंशतिसंवत्सरपर्यन्तं सुखसन्तोषविलासै-रन्ववर्तत । एवं सति कदाचिद् लायस्-नृपाले सपरिवारे रथारूढे विहाराय पथि गच्छति सति, दुर्दैवेन लुण्यकानां गणः सन्ध्यासमये क्षीणप्रकाशे मार्गत्रयसन्धौ नृपालमाक्रम्य शस्त्रैश्च तं भृशं प्रहृत्य जघ्नुः । तस्या दुर्घटनाया अनुपदमेव मम हस्तगत भाग्यराशिरिव त्वं कारिन्तनगरात् थीब्स् - नगरमागत्य मां पर्यणयः । त्वया सह सङ्गमनात् प्रभृति पतिवियोगनिमित्तौ दुःखशोकौ मामजहताम् । त्वं मम पतिवियोगव्यथां विस्मारितवानसि। अनावृष्ट्या भृशं शुष्के कङ्काली भूते चोषरक्षेत्रे वृष्टां प्रथमवृष्टिमिव त्वामुपलभ्याऽस्मत्प्रजाः नूनं सनाथीभूताः । प्रभो ! तेजःपुञ्जेन सुन्दरवदनेन, विशालाभ्यां नेत्राभ्यां, बालश्मश्वा, विपुल - ९६ Page #112 -------------------------------------------------------------------------- ________________ राजा विशालेन चोरसा विराजमानस्त्वं, मां विहाय स्वर्गतवन्तं मम स्वामिनं लायस्नृपालं सर्वथा संवदसि । वचसा गमनभझ्या चाऽपि त्वं तद्रूप एव प्रतिभासि । नूनं मम सौभाग्यस्य पारं न पश्यामि । (एतावता राजसौधस्य बहि: प्रजानामाक्रन्दनरवः श्रूयते ।) प्रजानामाक्रन्दनं वा ? विलम्बः कुतः ? प्रजानायक आगत्य निर्भयतया यथावृत्तं तासां सङ्कटकारणं किम् ? इति निवेदयतु । (राजा एवोत्थाय प्रजासम्मुखमेत्य तिष्ठति।) प्रजानायक: प्रभुर्विजयतात् । अस्मत्पूर्वप्रभोर्लायस्-महाभागस्य हत्यानुपदं यद् दारुणं सङ्कटमस्माकमापतितं तत् कथं वा निवेदयेयम् ? चिराद् बिन्दुमात्राऽपि वृष्टिर्नाऽस्ति । धरित्री नितरां शुष्का सस्यहीना च तिष्ठति । अत्तुमन्नं पातुं जलं च नैव विद्यते । परिजनाः शिशवश्च बुभुक्षा-पिपासाभ्यां भृशं सीदन्ति । तामस्मत्सन्ततिमस्मत्पुरत एव परिशुष्यन्तीं द्रष्टुं न पारयामः प्रभो ! । सर्वं पक्षि-पशुप्राणिजातं चाऽप्यवसीदति । किमस्मदुपर्यापतितस्याऽस्य घोरसङ्कटस्याऽन्तोऽस्ति वा? ज्ञातमिदानीम्। अवगतं वो घोरसङ्कटस्य निमित्तम् । प्रजानां तु प्रत्येकं स्वस्यैव सङ्कटं दूरीकर्तव्यं भवति, अस्माभिस्तु सर्वासां कष्टं दूरीकर्तव्यं भवेत् । यो राजा प्रजानां सङ्कटं नाशयितुं न प्रभवति न स यथार्थः प्रभुः । भोः प्रजाः ! अद्यप्रभृति न मेऽन्नं न मे निद्रा, न वा विश्रान्तिः । अस्य भीकरस्य दुरितसङ्कटस्य प्रजाक्षोभकारणस्य निमित्तं वा किम्? कस्य पापिन: पापकृत्यस्य फलमिदम् ? केन तापसेन विमानितेन दत्तोऽयं शाप: ? एतत् सर्वमस्य याथार्थ्यं सद्य एव ज्ञातव्यम् । किञ्चित् सहध्वं प्रजाजनाः ! । नूनमपायो यावान् वा भवेत् तस्य परिहारोपायोऽप्यस्त्येव । युवराजकुमारस्य क्रयान्-इत्यस्याऽऽगमनमेव प्रतीक्षेऽहम् । (अत्राऽन्तरे जोकास्टाया अनुजः क्रयान् अश्वारूढः सन् राजसौधमागच्छति । राजास्थानं च प्रविश्य राजसम्मुखं तिष्ठति ।)। राजा पश्यन्तु पश्यन्तु, क्रयान् स्वयमेवाऽऽगच्छति । भो प्रजाजना: ! इदानीं यूयं राजा ९७ For Private Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ क्रयान् राजा क्रयान् राजा क्रयान् स्वस्वगृहं प्रतिष्ठत । देवताया दिव्यवाणीं श्रुत्वा यथार्थं वृत्तान्तमस्माकं तूर्णमागत्याऽऽवेदयितुं क्रयान् - राजकुमारं संप्रेषयामि । निश्चिता भवन्तु भवन्तः । (प्रजा: प्रतिनिवर्तन्ते ।) (क्रयान् - कुमारमुद्दिश्य) राजकुमार ! सावधानं शृणु मे वचः । त्वया सद्य एव पिथियान्- गोपुरं प्रति गन्तव्यम् । गत्वा चेमे घोरसङ्कटानावृष्टि-प्रजाक्षोभादयः कस्य पापकृत्यस्य फलानि, कस्य वा तापसस्य विमानितस्य शापोऽयमिति त्वया यथार्थतयाऽवगन्तव्यम् । त्वरय, विलम्बो नैव योग्योऽस्मिन् कार्ये । तथाऽस्तु प्रभो ! (राजादेशं शिरसा वहन् निष्क्रामति ।) द्वितीयं दृश्यम् क्रयान् ! किमस्य भोकरस्य महासङ्कटस्य प्रजाक्षोभस्य च कारणमवगतं त्वया ? अस्य रहस्यं देववाण्याऽस्मत्कृते उद्घाटितं वा ? अवगतं प्रभो ! सुष्ठु अवगतम् । लायस्-नृपालस्य हत्यैव थीम्स् - नगरायोग्र: शापः संवृत्तः। सोऽसौ पापिष्ठो धूर्तापसदो लायस् - नरेशस्य हन्तकस्तव राज्य एव तिष्ठत्यद्याऽपि। यावदसावत्रैव वर्तते तावदयं प्रजानां क्षोभ: दुःसहं सङ्कटं च दुर्वारमेव । अतो विना विलम्बं सर्वप्रयत्नेन हन्तकोऽसावधिगम्येत राज्यसीमायाश्च बहिरुच्चाट्येत इत्येष एव परिहारोऽस्य घोरसङ्कटस्य नाऽन्य इति पिथियान्गोपुरान्निःसरन्त्या देववाण्या उच्चैर्घोषितं प्रभो ! । तर्हि झटिति सोऽयं नृपघातुको ऽन्विष्य गृह्यतामसौ । स यः कोऽप्यस्तु, तमहं राज्याद् बहिर्निष्कासयिष्यामि । एषा मेऽनुल्लङ्घया राजाज्ञा । प्रभो ! लायस् - नृपस्य हत्याया विषयेऽद्याऽपि तथ्यं इदमित्थमिति नैवाऽगतम्। अद्याऽप्यनुद्घाटितमेव तिष्ठत्यस्य रहस्यम् । तथाऽप्यहं सम्यक् स्मरामि यत् कति संवत्सरेभ्यः प्राक्, अर्थात् तव सिंहासनाधिरोहात् पञ्चषदिनेभ्यः पूर्वं कदाचित् क्षीणप्रकाशायां सन्ध्यायां लायस्-नरेशः स्वीयैः ९८ Page #114 -------------------------------------------------------------------------- ________________ राजा पञ्चभिः परिजनैः सह रथमारुह्य नगराद् बहिविहरति स्म । तदा मार्गत्रयसन्धौ दस्यूनां निवहो हठात् लायस्-नरेशं सपरिवारमाक्रम्य तं निर्दयतया प्रहृत्य च निजघान । सर्वेषामपि लायस्-नृपपरिजनानां मध्यादेक एव कश्चिद् दूत: कथञ्चित् प्राणान् रक्षित्वा पलायितो राजधानी प्रत्याजगाम । तेनैव दूतेन लायस्-नरेशस्य दुरन्तो नाशो मे विज्ञापितः । सोऽपि राजदूत: कतिपयदिनान्तरं राजसेवां विहाय राजधान्याः बहि: कुत्रचिन्निर्गत इति अवगच्छामि । अथ सोऽसौ दूत: कुत्र गतः, इदानीं च क्व वसति किं वा करोतीति न कश्चिज्जानाति । तथाऽप्यत्रैव राजास्थानेऽद्याऽपि राजसेवानिरतो दैवज्ञः टैरिसियस्-नामा सर्वमस्य दुरन्तस्य लायस्-नरेशघातस्य ऐतिह्यं तथा तदनन्तरं घटितां घटनावलिं च यथावज्जानाति । स एवाऽस्मिन् निगूढविषये सर्वं यथावदावेदयितुं समर्थः । अत्रैव राजास्थाने निवसन्तं तमाह्वयानि प्रभो !? शीघ्रमेव तमानीयाऽत्रोपस्थापय । विलम्बो मा भूदत्र कार्ये । क्रयान् तथाऽस्तु प्रभो ! (निष्कामति ।) तृतीयं दृश्यम् । (राजभटा वृद्धमन्धं टैरीसियस्- दैवज्ञं ईडिपस्-नृपस्य सम्मुखं समानीयोपवेशयन्ति ।) राजा ज्योतिर्विन्महाशय! लायस्-नृपालस्य हत्यासम्बन्धिवृत्तं यद् यत् त्वं जानासि तत् सर्वं निर्भयतया सत्यं यथावच्च आवेदय।। टैरीसियस मैवं प्रभो ! शृणोतु मे हितवचनम् । तं कठोरं सत्यवृत्तान्तं वचसा वक्तुमेव बिभेमि । अतो मा मामागृह्णातु तत्कथनाय भवान् । न। सत्यं नैव गूहितव्यम्। निःसङ्कोचतया यथार्थं निवेदयतु भवान् । तदनिवेद्य इतः पदमपि चलितुमवकाशो ते न दास्यते । तं धूर्तापसदं लायस्-नृपहन्तारं यत्र कुत्राऽपि विलीनं भवद्वचनेनाऽवगत्य तत्स्थाने तमन्वेषयिष्यामि । ततो बद्ध्वा तं हस्तिपादतले वीथिषु कर्षयिष्यामि । ततश्च राज्याद् राजा २९ Page #115 -------------------------------------------------------------------------- ________________ बहिस्तमुच्चाटयिष्यामि । तस्मै नीचजनाय क्षणमपि राज्ये निवसितुं नैवाऽवकाशं दास्ये । अतो दैवज्ञ ! सर्वं सत्यं वृत्तं क्षिप्रमेव वद। टैरीसियस तर्हि श्रूयतां सावधानम् । अस्य प्रजासङ्कटस्य कारणं भवानेव । (श्रुत्वैतदशनिपातसदृशं वचो राजा भृशं चकित: समुत्तिष्ठति । ) अस्य महापापस्य शापस्य च दुर्भरं भारं ऊवा विहरन् भवानेव । लायस्नृपसहधमिण्या साकं पापपङ्के क्रीडन् वर्तमानो भवानेव नाऽन्यः । ननु सत्यं वदेति मामागृहीतवान् भवान् न वा? तत: सत्यमेव कथितवानहं प्रभो!। राजा (भृशं क्रुद्धः करतालं वादयति । राजभटाः प्रविशन्ति।) भो राजभटाः! तमेनं वृद्धोलूकं निष्कासयन्तु इतः । उन्मत्ततया यद्वा तद्वा जल्पति सः । (भटास्तं दैवज्ञं सरभसमाकृष्य बहिनिष्कासयन्ति । तत्समकालमेव क्रयान्कुमारस्तत्रोपतिष्ठति ।) क्रयान् ! ज्ञातमिदानीम्। एतत् सर्वं तवैव राज्यलिप्सो: कूटविजृम्भितम् । त्वं द्रोही कृतघ्नश्च । नाऽस्त्यत्र शङ्कालेशोऽपि मम । भस्मपिहितेनाऽङ्गारेणेव त्वयैवेदं वृद्धोलूकेन टैरीसियस्-दैवज्ञेन साकं सम्भूय विततं कपटजालमिति सम्यगवगतं मया । मुग्धं मां ज्ञात्वा मृषैव दूषयित्वा च मत्तो राज्यमपहृत्य राज्यभोगेच्छया विहित: कूटप्रबन्धोऽयं त्वया। किन्तु न त्वं कूटप्रबन्धेनाऽनेन मां विचालयितुं शक्नोषि क्रयान् ! । सुष्टु जानीहि, नाऽनया द्रोहचर्यया त्वं मां राजसिंहासनात् प्रच्यावयितुं प्रभवसि। क्रयान ईडिपस् ! मैवं मतिहीन: सन् निरपराधिनं मां वृथा दूषय । त्वां स्वार्थलिप्सया प्रशंसन्त: संस्तावका बन्दि-मागधा अत्र बहवः सन्ति । मिथ्यासंस्तवेन त्वां स्वर्णशूलमधिरोपयन्तः सर्वत्र सुलभाः, किन्तु तव हितमिच्छन्तस्तव श्रेय:साधने बद्धादरा नूनमतिविरलाः । किमेवं मां वृथा दूषयित्वा तव साधितं भविष्यति ? समानय तं दूतं, यो लायस्-नरेशस्य निगूढहत्यासमये कथं कथमपि पलायनेन स्वजीवितं रक्षितवान् । स सर्वं यथावृत्तं यथार्थतयाऽऽवेदयिष्यति । ततश्च लायस्-नरपतेर्घातकस्याऽधिग्रहणं सुलभं सम्पत्स्यते । __(करतालं वादयित्वा राजभटानाह्वयति । ) राज्ये सर्वत्र शोधयित्वा क्षिप्रं राजा १०० Page #116 -------------------------------------------------------------------------- ________________ I समाकारयन्तु तं राजपरिवारसेवकं दूतम् । तं चाऽत्रोपस्थापयन्तु । अहं तेन सह नृपघातक-वृत्तसम्बन्धि विचारणं कर्तुमिच्छामि । यः कोऽपि तं दूतमन्विष्याऽत्र समानेता तस्मै अहं विपुलं पारितोषिकं दाता । यदाज्ञापयति देवः । (निष्क्रामन्ति ।) राजभटाः (राजा महिष्या जोकास्टया सह संलपन् सिंहासनमधिरूढो वर्तते । तावत् सोऽसौ राजपरिवारदूतो राजसम्मुखमुपस्थितो भवति ।) रे रे दूत ! अस्य लायस्- नरेशस्य हत्याया हन्तुश्च विषये त्वं यद् यत् तथ्यं जानासि तत्, तदनन्तरं घटितां घटनावलीं च यथार्थतया निर्भीको भूत्वा पूर्णरूपेण मां निवेदय । तथा त्वमिदानीं क्व निवससि कुतश्चाऽऽगतोऽसि तदपि निवेदय । राजा दूत: राजा दूत: राजा प्रभो ! अहं मेषपालकोऽस्मि । कारिन्तनगरस्य समीपवर्तिनि पर्वतपरिसरे मेषपालनं कुर्वतो मम बहवः संवत्सरा व्यतीताः । तथाऽपि मम स्मरणशक्तिरकुण्ठितैव वर्तते । मम जीविते यत्किञ्चिदपि घटितं तत् सर्वमहं सुष्ठु स्मरामि । अहं भवन्तमपि बाल्यादेव सुतरां जानामि । भवन्तमिदानीं पुष्टं पीनं युवानं च दृष्ट्वा हर्षपुलकितोऽस्मि प्रभो ! । हे दूत ! मम जन्मस्थानस्य कारिन्तनगरस्य पर्वतपरिसरनिवासिनमात्मानं वर्णयसि तदा कारिन्तनगरस्था मन्माता मेरोपा तथैव मत्पिता पालिबस् - इति कुशलौ वा ? अकस्मादेवाऽहं तौ मन्मातापितरौ विहायाऽत्र समागतोऽस्मि । किं वदानि प्रभो !, वक्तुमेव न पारयामि तद् दारुणं वृत्तान्तम् । भवतस्ततो निर्गमनस्याऽनुपदमेव पालिबस् जठरसम्बन्धिनाऽन्त्रव्याधिना चिरपीडितो भूत्वा मृत्युवश-मगमत् । मरणावसरे भवन्तमेव स्मरन् स 'ईडिपस् ईडिपस् ! !' इति प्रलपन्नेव प्राणानजहत् प्रभो ! । अहो ! पश्य दुर्दैवविलसितम् । योऽहि स्वमातापितरौ मत्प्रसवितारौ आबाल्यादेव मे पालयितारौ परमपूजनीयौ आस्तां, तौ वार्धक्ये न सान्त्वयन् न रक्षंश्चाऽहं नूनं परमपापिष्ठो लोके सद्भिर्निन्दितः सीदामि । अहो मे दौर्भाग्यम् । १०१ Page #117 -------------------------------------------------------------------------- ________________ (शोकातिरेकात् सरभसं सिंहासनानिपतति । जोकास्टा तं स्वहस्तेन उत्थाप्य सान्त्वयति ।) प्रिये ! मम पित्रोर्मयि प्रीति-वात्सल्ये कियती गाढे आस्तामिति त्वामहं कथमावेदयामि? तथा कारिन्तप्रजा अपि मामेव राजतयाऽभिषेक्तुं ऐच्छन् पूर्वसिद्धतायां च निरता आसन्। किन्तु दैवसङ्कल्पो भिन्न एवाऽऽसीत् । किं वा करवाणि ? कदाचिन्मयि नगरसमीपवति ऍपॉलो-मन्दिरं सपर्यार्थं गतवति तदा देववाणी श्रुता, यथा “रे पावकिन् ! त्वमचिरादेव तव पितरं निहत्य तव मातरमेव परिणीय तत्सङ्गमनेन कुत्सितां सन्ततिमुत्पादयिता। तेन च त्वं राज्ये प्रजानां दारुणसङ्कटस्य महाक्षोभस्य च निमित्तं भविता " इति । सा वाणी मामशनिपातवदभर्त्सयत् । अतो भीतभीतोऽहं तस्माद्दुरन्तात् परमगर्हणीयादात्मानं च रक्षितुं , तथा पितरमेव हत्वा मातरं च परिणीय तत्पापसङ्गमेन सन्तत्युत्पादनाल्लोकनिन्दावहकादात्मानं त्रातुं, राज्यस्य प्रजानां महाक्षोभस्य दुर्भरसङ्कटस्य निमित्तीभविष्यन्तमात्मानं रक्षितुं च सरभसमज्ञाततया रहसि कारिन्तनगरान्निष्क्रम्य पर्वतारण्यप्रदेशानतिक्रम्य धावं धावमिदं थीब्स्नगरमुपाजगाम। एवं तहि नाथ ! त्वद्वचसैव सर्वं यद् यत् समभवत् तत् सर्वमस्मद्धितायैव सञ्जातं खलु । इतः परं सर्वचिन्तासमुत्थितं जीवितं नेतुं न ते कश्चिदन्तरायोऽवशिष्यते। यतो दूतस्य वचसा तव पिता जठरव्याधिनैव मृत इति निश्चितमत ऍपॉलो-देववाणी मृषैव सञ्जाता। मृते च ते पितरि त्वया पितृहत्या मात्रा च सह परिणयस्तत्सङ्गमनात् पातकभूयिष्ठा सन्ततिश्च कथं सम्भवेताम्? यद्यपि ते माता जीवति, तथाऽपि त्वं तां विहायैवाऽऽगतोऽसि ननु ? तस्मात् त्वया तच्चिन्ता सुतरां नैव कार्या । वृथा शङ्कापीडितो मा भू: नाथ ! । कारिन्तपिथियन्-गोपुरप्रोद्घोषिता देववाणी मृषैव संवृत्ता। चिन्ता माऽस्तु । (राजा किञ्चित् स्वस्थो जातः ।) किन्तु प्रभो ! एकं प्रधानं विषयमावेदयितुं मया विस्मृतमेव। जोकास्टा दूत: १०२ Page #118 -------------------------------------------------------------------------- ________________ राजा दूत: राजा राजा दूत: । कोऽसौ प्रधानो विषयः ? वद द्रुतम् । अहं तं श्रोतुमुत्सुकोऽस्मि । पालिबस् मेरोपा च ते पितरौ न स्तः । न तौ त्वां प्रसूतवन्तौ न वा तौ ते जनयितारौ प्रभो!। हाँ! तर्हि ? तौ केवलं तव परिपोषकौ। तहि कथं तौ मां प्राप्तवन्तौ ? शृणोतु प्रभो! । लायस्-जोकास्टयोर्दम्पत्योस्त्वं पुत्रः । तव जननान्तरं शैशव एव तौ त्वां मे समर्पितवन्तौ । तथा हि - एकदा राजसौधमाकार्य महिला काचिद् मधुरमनोहरं मुग्धबालकमेकमर्थात्त्वां मद्वशे कृत्वा "तदेनमरण्ये नीत्वाऽस्य सर्वानवयवांश्छित्त्वा गध्र-जम्बुकेभ्यः प्रयच्छ” इत्याज्ञापयत् । सा च मे त्वां समर्पयन्ती शिशोस्तव पादौ कण्टकै शं विद्ध्वा मुखं च नखैर्विदार्य दत्तवती। तन्निर्दयं निष्करुणं घोरं च दुष्कृत्यं पश्यन्नपि सेवकत्वादहं किमप्यनुक्त्वा, विधेयतया च तस्या कठोरामाज्ञां शिरसा ऊढ्वा रक्तसिक्तं तं शिशुं गृहीत्वा ततो निर्गतः । ततो भृशं रुदतस्तस्य बालस्य पादौ मुखं च परिमार्ग्य तं सान्त्वयन्नहमरण्यमगमम् । ततस्ततः? रक्तसिक्तं रुदन्तं शिशुं गृहीत्वाऽरण्यं प्रविशन्नहं तया महिलयाऽऽदिष्टादमानुषकृत्याद् विमुखीभूतः पर्वतसानुस्थितं कारिन्तनगरं प्रविष्टः । तत्र च तन्नगरनिवासिनोः पालिबस्-मेरोपादम्पतीभ्यां त्वां पालनपोषणसंवर्धनाय समार्पयन् । तावपि सन्ततिरहितौ त्वां परमया मुदा समवर्धयताम् । तावेव दम्पती तव ईडिपस्-इति नामाधानं चक्रतुः। अस्मत्कारिन्तवाङ्मये ईडिपस् नाम 'कण्टकैर्विद्ध: घासितः' इत्यर्थः । अद्याऽपि परीक्ष्यतां प्रभो ! स्वानवयवान् । यद्यपि मुखे नखाकर्षणचिह्नानि विलुप्तानि स्यु: तथाऽपि पादयोः कण्टकवेधचिह्नानि त्ववश्यमेवाऽविलुप्तानि भवेयुरेव । (स्वपादौ निपुणतया परीक्ष्य ) राजा दूत: Page #119 -------------------------------------------------------------------------- ________________ राजा दूतः राजा जोकास्टा आमाम् । सत्यम् । मम पादयोः कण्टकवेधचिह्नानि सुस्पष्टतया दृश्यन्ते । ततः कतिपयेषु दिवसेषु व्यतीतेषु भवान् पालिबस्-मेरोपा-इत्येते विहाय थीब्स्-नगरं प्रति निष्क्रान्तः इति कारिन्तनगरजनैरहं ज्ञापितः। तदनन्तरं घटितानां घटनानां तु भवानेव सुष्ठ ज्ञाता। सत्यं तव कथनम्। किन्तु दूत ! ज्ञापय मां यत् केनाऽहं मुखे घासित्वा पादौ कण्टकैविध्वा मद्धत्यायै ते समर्पितः ? एनं विषयं त्वं नूनं स्मरसि खलु । (दूतस्तत्रोपस्थितां जोकास्टां सुनिपुणं परिलक्षयति । साऽपि च सर्वं यथातथं दूतकथनं श्रुत्वा बहो: कालात् पूर्वं नवजातस्य स्वयंप्रसूतशिशोः स्वेन कृतं क्रूरकृत्यं सुष्ठ स्मरन्ती चकिता भवति । तत: ससाध्वसं दिग्भ्रान्तेव स्वोरसि वारं वारं प्रहरन्ती केशपाशं विकिरन्ती स्वमाक्रोशन्ति च सिंहासनादुत्थायाऽन्तःपुरं प्रति धावति । राजा साश्चर्यं तां सान्त्वयित्वा प्रत्यानेतुमनुधावति । तदा -) मा मामिमां घोरपातकिनी स्पृशतु भवान् । सुष्ठ स्मराम्यहं तद्दिनं यदाऽहं लायस्-स्वामिना समेता विहरति स्म । तदा देववाणी मामभत्य॑त् । यथा - " रे रे पातकिनि ! शृणु तावत् । तव सुतः स्वपितरं हत्वा त्वया परिणेष्यति । तत्पापप्रसङ्गेन च सन्तति प्राप्स्यति ।" इतीमां देववाणीं श्रुत्वा सम्भ्रान्ताऽहं देववाण्या श्रावितं तद् घोरमनिष्टं वारयितुकामा तद्दिन एव राजपरिवारसेवकं दूतमाकार्य ..... । (जोकास्टा सञ्जारहिता सञ्जाता सती स्वकथनमनुवर्तयितुमेव न प्रभवन्ती मूच्छिता भूमौ मुहुर्मुहुनिपतति, उत्थाय च पुनरपि पतति । ततः कथं कथमपि लब्धचेतना -) अहं वक्तुमेव न प्रभवामि मे दुष्टाचरणम् । नाथ ! त्वच्छैशवे एव मुग्धमनोहरं तव मुखं नखैः कर्षित्वा पादौ च कण्टकैविद्ध्वा दूतस्य हस्तयोस्त्वामहं समर्पितवती। ततस्तं त्वन्मारणायाऽरण्यं प्रति प्रेषितवती । योऽयं तद्दिने मारणायाऽरण्यं प्रस्थापितो निजतनयः स त्वमेव मम पुत्रः, यः पश्चात् स्वमातरं मामेव परिणीतवानसि। अहो दैवलीलाविलासः॥ अन्ततः सा देववाणी अमोघा सञ्जाता खलु । मा मां स्पृश: परमपापिनीम् । (राजा तामेवाऽनिमेषतया पश्यन् किंकर्तव्यविमूढतया तां जिघृक्षति । सा च For १०४ Page #120 -------------------------------------------------------------------------- ________________ दूत: राजा स्वं राजहस्तादवमोचय्याऽन्तःपुरं प्रति धावति । राजा च नि:सहायतया दूतं परिलक्षयति ।) प्रभो ! भवान् पितरं हत्वा मातरं च परिणीय पापसन्ततिं प्राप्स्यति - इत्यनया देववाण्या श्रावितमनर्थं वारयितुमेव कारिन्तनगरान्निष्क्रम्य थीब्स्-नगरं प्रत्याजगाम खलु? तत्पश्चात् यद् घटितं तत् स्वयमेव सुष्ठ जानाति ननु ? आमाम् । सम्यग् जानामि । यदाऽहं मार्गे आगच्छन्नासीत् तदा सन्ध्यायां क्षीणप्रकाशवेलायां विरुद्धदिश आगच्छन्तं सुदृढकायं तेजस्विनं रथारोहिणं पञ्चभिः परिजनैः परिवृतमद्राक्षम् । स च मार्गत्रयसन्धौ समागतं मां तर्जयित्वा "रे जाल्म ! निर्गच्छ मन्मार्गात् । मा रुधः मम मार्गम् । " इत्यादिकं मां नीचैर्वचोभिः भत्सितवान् । ततः स रथी मामेकाकिनं ज्ञात्वा स्वीयलगुडेन धर्षितवान् । तेन भृशं क्रुद्धोऽहं तेनैव लगुडेन तं सुदृढकायं तेजस्विनं रथिनं तत्परिजनै: सह निजघान । तदनु ततोऽग्रे गत्वाऽहं थीब्स्-नगरं प्रविष्टः । अत्रत्याभिश्च प्रजाभिरहं राजपदेऽभिषिक्तः । प्रभो ! त्वच्छैशवादनु तव दर्शनं मयाऽद्यैव कृतम् । तथा तव कारिन्तनगरनिष्क्रमणादनु या या घटना घटितास्ता अहं नैव जाने । अतस्ता ज्ञातुं तवाऽऽस्थाने वर्तमानं टैरीसियस्-दैवज्ञं आकारय । स एव ता यथातथं कथयिता। दूतः राजा दैवज्ञः (करतालं वादयित्वा) कोऽस्ति भोः ! तत्र ? सद्यः प्रवेशयेह तमुन्मत्तं ज्यौतिषिकम्। (भटैः कृष्यमाणः टैरीसियस राजपुरतः उपतिष्ठति।) प्रभो ! यत्त्वयाऽहं वृद्धोलूक इति निन्दित्वा बहिनिष्कासितस्तेन न मे काचित् क्षतिः । इदानीं यत्त्वया ज्ञातव्यमवशिष्यते तदावेदयानि वा? शृणु राजन् ! योऽसौ तद्दिने थीब्स्-नगरपरिसरे त्वया लगुडेनाऽऽक्रम्य सपरिवारो १०५ Page #121 -------------------------------------------------------------------------- ________________ राजा दृढकायस्तेजस्वी रथी निहतः स एव लायस्-नरेश आसीत् । स एव जोकास्टायां तव जनयिता तव पूज्यपिता । (राजानमभिवाद्य निष्कामति ।) पञ्चमं दृश्यम् ज्ञातमिदानीं यज्ञातव्यमासीत् । सर्वं सुस्पष्टम् । इतः परं न किञ्चिज्ज्ञातव्यमवशिष्यते । लायस्-जोकास्टादम्पत्योर्जातं मामेव शिशं देववाण्या श्रावितादनिष्टात् भीता जोकास्टा घोरं सङ्कटं वारयितुकामा दूतद्वाराऽरण्यं प्रेषितवती । सोऽहमेव तेन दयालुना दूतेन कारिन्तनगरनिवासिभ्यां पालिबस्मेरोपादम्पतीभ्यां प्रदत्तः । ताभ्यां प्रेम्णा संवधितोऽहं तावेव मे जनयितारौ पितराविति मत्वा ऍपॉलो-मन्दिरे देववाणीं श्रुत्वाऽनिष्टं वारयितुं कारिन्तनगरात् तूर्णं थीब्स्-नगरं प्रतिजगाम । सोऽहमेव थीब्स्-नगरसमीपे लायस्-नृपालं पितृत्वेनाऽजानन् लगुडेन निहतवान् । सोऽहमेव थीब्स्-नगरं प्रविश्य नृपो भूत्वा मम मातरं जोकास्यं मातृत्वेनाऽजानन् प्रत्युत त्रिलोकसुन्दरीति मत्वा परिणीय समालिङ्गितवान् । जोकास्टे ! जोकास्टे! क्वाऽसि ? नाऽहं जानामि कथं त्वामाभाषे 'प्रिये!' इति वा 'अम्ब' इति वा? धिङ् मां कुत्सितजीविनम्। अन्ततः "पितरमेव निहत्य मातरमेव परिणीय तत्पापसङ्गमेन पापभूयिष्ठां सन्तति प्राप्स्यसि" इति देववाणीभणितं मया सत्यापितमेव । अहो दुर्धर्षा दैवलीला ! अहो क्रूरो विधिविलासः ! किन्तु अलं तच्चिन्तया । इदानीमिदं तु सुस्पष्टं यदस्य प्रजासङ्कटस्य निमित्तमहमेव, नाऽन्यः कश्चिदिति । यः कोऽपि वाऽसौ भवतु स राज्याद् बहिनिष्कास्य इति खलु मयैव विहिता आज्ञा ! तत्पालने कुतो विलम्बः? पितृहन्तुर्मातृभोक्तुश्च मेऽत्युग्रो दण्डोऽवश्यं विधेयः । नास्त्यत्र लेशाऽपि संशीतिः । क्रयान् ! युवराजकुमार ! क्वाऽसि त्वम् ? द्रुतमागच्छाऽत्र । (दूतः बद्धाञ्जलिः सन् उपतिष्ठति ।) स्वामिन् ! असमञ्जसं समापन्नम् । राजकुमारो निजस्वसारं जोकास्टां सान्त्वयितुं दूत: १०६ Page #122 -------------------------------------------------------------------------- ________________ राजा क्रयान् राजा तामन्वधावत् । तदपि निष्फलं जातम् । सा क्रयानागमनपूर्वमेव स्वकोष्ठं प्रविश्य द्वारं पिधाय रज्ज्वा कण्ठमुद्बध्य प्राणैर्वियोजिताऽभवत् प्रभो!। गच्छतु सा। तेन न किञ्चिद् विनष्टम् । स्वयं कृतस्याऽपराधस्य स्वयमेव युक्तं दण्डं विहितवती सा। अहमपि इतः परं कुतः, कस्य कृते, किं वा साधयितुं जीवितं धारयानि? इदं मे पापनेत्रसहितं मुखं प्रजाभ्यो दर्शयितुं नेच्छामि । (खड्गेन स्वनेत्रे विध्यति । ततोऽसौ अन्धो भूत्वा इतस्ततो दन्द्रम्यमाणो राजद्वारमुपतिष्ठति । तावता क्रयान् प्रधावंस्तत्रा-ऽऽगच्छति ।) कोऽसौ ? क्रयान् वा? आमाम् । क्रयान् अहं प्रभो ! कुमार! योग्यसमये त्वमिहाऽऽगतोऽसि । आगच्छ वत्स ! । एतावत्पर्यन्तं तवाऽऽगमनमेव प्रतीक्षामि स्म । इतः परं त्वमेवाऽस्य थीब्स्-जनपदस्य राजा भवितुमर्हसि । यद् राजद्रोहीति वञ्चक इति राज्यलिप्सुरिति कूटप्रबन्धक इति शङ्कित्वा वृथैव त्वामहं दूषितवान् तत् क्षमस्व कुमार ! । अनेन तव स्वहस्तेनैव मामपराधिनं राज्याद् बहिनिष्कासय । इमां राजाज्ञां मद्विहितां सत्वरं निर्वह । विलम्ब मा कुरु । न, नैव राजन् ! (राज्ञः खड्गविद्धे नेत्रे विलोक्य) अहो किमिदं दुस्साहसं कृतं प्रभो!, स्वहस्तेनैव स्वमन्धीकृतवान् ? त्वं हि सुतरां निरपराधी। अदृष्टेनैव प्रच्छन्नशत्रुणा त्वमिमां दुरवस्थां प्रापितोऽस्ति । स एव विधेरदृश्यो हस्तोऽस्य सर्वस्याऽप्यनर्थजातस्य प्रधानं कारणम् । त्वं तु निष्पापो निरपराधी एव ईडिपस् !। सत्यम् । सा दैवलीलैव दुर्धर्षा । किन्तु किमनेन वृथा प्रलपनेनेदानीम् ? इदं कठोरं सत्यं यज्जानता अजानता वा मयैव लायस्-नरेशस्य दारुणा हत्या कृता या प्रजासङ्कटस्य मूलकारणं सञ्जाता । 'यावत्पर्यन्तमेतादृशपापस्य कर्ताऽस्मिन् राज्ये स्थास्यति तावत्पर्यन्तं प्रजासङ्कटस्याऽस्य परिहारो नाऽस्त्येव' इति देववाणीकृता उद्घोषणा। सा च देववाणी मयाऽनुल्लङ्घया अपरिहार्यतया क्रयान् राजा १०७ Page #123 -------------------------------------------------------------------------- ________________ च निर्वाह्मैव । किञ्च क्रयान् ! ममैते मुग्धे द्वे पुत्र्यौ स्तः । न ते मादृशं दुर्भगं पापिष्ठं पितरमर्हतः । अनाथे निराश्रिते च ते त्वयैव स्वपुत्रीवत् संवर्धितव्ये सन्मार्गे च नेतव्ये येन ते पापरहितं परिशुद्धं जीवनं निर्वहेताम् । इदं मेऽन्तिम निवेदनं नमनं च सर्वेभ्यः । (हस्तावुद्धृत्य सर्वेभ्यो नमस्कृत्य राजसौधान्निष्कामति ।) * “अहो दुर्धर्षा दैवलीला” नाम भावरूपकं समाप्तम् । उत्तरोदन्तसक्षेपः ईडिपस्-जोकास्टयोह्रौ पुत्रौ एटियोक्लेस् (Etioclas) पालिनीसेस्(Polynices) नामानौ तथा द्वे दुहितरौ एण्टिगोने(Antigone) इस्मेने(Ismene) नाम्न्यौ आसन् । अन्ध ईडिपस् स्वदुहित्रा एण्टिगोने-इत्यनया सह दन्द्रम्यमाणः समीपस्थं एथेन्स्(Athens)-नगरं प्राप्य तत्रत्येन राज्ञा दत्ताश्रयः सन् राजोद्याने कतिपयदिनान्यतिवाहयत् । एतन्मध्ये थीब्स्-नगरे राजधान्यां ईडिपस्-पुत्रौ एटियोक्लेस् पालिनीसेस् च राज्यलिप्सयाऽन्योन्यं निहत्योपरतौ । ततः ईडिपस् अपि एथेन्स्-नगरोद्याने कञ्चित् कालमतिवाह्य शान्तमनसा प्राणान् जहौ। समाप्तम् For Private १०८ Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ मर्म-नी -विजयशीलचन्द्रसूरिः विवाहानन्तरं पतिगृहत: प्रथमवारं पितृगृहमागतया नववध्वा सोत्कण्ठं कथितम् , जो "अम्ब! तव जामाता कवितामपि करोति नन!" "पुत्रि!", मात्रा उक्तं; "खिन्ना मा भव, मनुष्यमात्रे कश्चिद् दोषस्तु स्यादेव।" ॐ "सञ्चालक-सेवकयोः किमन्तरं भवेत् ?" पञ्चवादनवेलायां यदा कार्यालयः स्थग्यते, तदा ततः अर्धघटिकापूर्वमेव कार्यं यः स्थगयति स सेवकः । सञ्चालकस्तु स यः कार्यालयस्य स्थगीभवनवेलातः अर्धघटिकापूर्वमेव कार्यमारभते । - पञ्चाशद्वर्षमितं कालं सेवां कृत्वा निवृत्ताय 'कारकुन'कक्षीयसेवकाय निवृत्तिक्षणे, तस्य स्वामिना एको बन्धनावृत उपहारो दत्तः। अप्रत्याशितमुपहारं प्राप्य प्रसन्नेन तेन झटिति तद्बन्धनमुद्घाटितम् । दृष्टा च तत्र कागदपेटिकायां (in box) श्रेष्ठिनः प्रतिकृतिः । "किम् भोः ? उपहारः कीदृशः ?" पृष्टं श्रेष्ठिना। "पूर्णरूपेण उपहारोऽयं भवन्तमनुकरोति किल!" सेवकेन गदितम् । १०९ Page #125 -------------------------------------------------------------------------- ________________ मी-नर्म मुनिकल्याणकीर्तिविजयः भो:! त्वं प्रतिदिनं कतिवारं श्मश्रुकर्तनं करोति? प्रायो दशवारम् । किं भवान् मूर्योऽस्ति? न नैवम् । अहं नापितोऽस्मि । एक (मद्यप: तालं उद्घाटयन् कम्पते, अतस्तालं नोद्धटति ।) सज्जन: भो:! इत:, कुञ्चिकां मे देहि। अहं तालं उद्घाटयामि । मद्यपः मा मैवम् । तालं त्वहमुद्घाटयिष्ये। भवान् हि आलयं धारयतु । स बहु कम्पते। । FICE (त्रयो मद्यपा मिथो वार्तयन्ति) ( प्रथमः अहं ताजमहाल' केतं विचारयामि। द्वितीय: किन्तु अहं विकेतुं नैव इच्छामि। तृतीयः भो:! अधुनाऽहं तत्र वसामि । तच्च रिक्तीकर्तुं नैव इच्छामि। तत्कथं भवन्तौ तस्य क्रय-विक्रयविचारं ) कर्तुं समर्थों । ११० Page #126 -------------------------------------------------------------------------- ________________ मन-ननी -मुनिरत्नकीर्तिविजयः W अध्यापक: भवता विद्यालयस्य वाषिकं मूल्यं न सम्पादितम् । अतो नाऽहं त्वां परीक्षायां उपवेष्टुं अनुज्ञास्यामि। छात्रः भवतु अहमुत्थितः सन्नेव परीक्षां दास्यामि । प्रथमः - भोः ! व्यसनमुक्तिस्तु अत्यन्तं सुकरा खलु । द्वितीय: - कथम्? प्रथमः - मयाऽनेकशः तथा कृतम् !! सज्जनः . कदाऽहं सुखी भविष्यामि ? दैवज्ञः - (हस्तं निरीक्ष्य किञ्चद् विचार्य) कि भवतो विवाह: सञात: ? सज्जनः - आम् । सञ्जातः। तर्हि नास्ति सुखस्य कोऽपि योगः। १११ Page #127 -------------------------------------------------------------------------- ________________ मर्म-नी -मुनिरत्रकीतिविजयः o पिताः - (पुत्रं प्रति) मा शुचः । भाग्येऽनुत्तीर्णत्वमेव यद् लिखितं तद् जातम् । 15) पुत्रः - एवम् ? तर्हि तु शोभनमभवत् । यदि नाम मयाऽभ्यासे श्रमः कृतः स्यात् तर्हि मम सर्वोऽपि श्रमो व्यर्थोऽभविष्यत् । रोगी: - दन्तैः चर्वणे कष्टमनुभवामि । वैद्यः - दन्तैर्विना तु अधिकं कष्टमनुभविष्यसि। - मुनिधर्मकीतिविजयः पतिः (पत्नीमुद्दिश्य) अहो ! शृणु शृणु ! मयाऽद्य 'पञ्चशतं' रूप्यकाणां प्राप्तमिति स्वप्नो दृष्टः।। पत्नीः किं पञ्चशतमेव ! कथं न दशशतम् ? पतिः निद्रा तदैव व्यपगता। पत्नी: त्वमसि मूर्खशिरोमणिः ! यतो जागरणात् पूर्वमेव कथं न पञ्चशतं रूप्यकाणां वित्तकोशे मुक्तम् ! ११ Page #128 -------------------------------------------------------------------------- ________________ मी-नी - मुनिधर्मकीतिविजयः (अन्यत्र कथमप्यनश्यत् तुनवायो ग्राहकाणां वस्त्राणि गृहीत्वैति श्रुत्वा) रमेशः मम उपरिवलं गृहीत्वा गतवान् । चन्द्रेश: अधोवस्त्रं मेऽचोरयत । नरेशः स तु मदीयं मानार्थं दत्तं वस्त्रमेव गृहीत्वाऽगच्छत् । समीर: 'चाय्पानं' हानिकारकं वा लाभकारकं वा? राजेशः अन्येषां पायने हानिः, अन्यैः पाय्येत तर्हि लाभ: !! -सा.युगन्धराश्री: (दुग्धविक्रयिकः प्रतिदिनं जलमिश्रितं दुग्धं श्रेष्ठिने विक्रीणाति । एतज्ज्ञात्वैकदा स तत्पुत्रं पृच्छति स्म-) श्रेष्ठी भो बाल ! तव पिता प्रतिदिनं दुग्धे किं क्षिपति ? बाल: दश रूप्यकाणि प्रयच्छ , तदा कथययेम् । श्रेष्ठी गृहाणैतानि दश रूप्यकाणि । बालः शृणु , मत्पिता प्रतिदिनं दुग्धे मापकं प्रक्षिपति !! ११३ Page #129 -------------------------------------------------------------------------- ________________ मर्म-नर्म -सा.युगन्धराश्रीः माता नेत्रचिकित्सक: किमिति भवती निजबालं प्रतिदिनमपनेत्रं न परिधापयति? स बालोऽतीव चञ्चलोऽस्ति, कदाचिदुपनेत्रं भज्यात् । इतोऽहमपि प्रगल्भाऽस्मि, अतः प्रतिरात्रं यदा स शेते तदैव तमहमुपनेत्रं परिधापयामि। - र चिन्तन: भोः! एकदा अश्वस्पर्धायामाश्चर्यं जातम् । मननः किं तत् ? चिन्तनः शृणु । तद्दिने एकादशी तिथिरासीत् , अहमपि एकादशक्षणाधिके एकादशवादने तत्र प्राप्तः । तत्र ज्ञातं मया यदेकादशानामश्वानां स्पर्धाऽस्ति । अहमपि एकादशमेऽश्वेऽधृष्णवम् । मनन: तर्हि किं तवैवाऽश्वेन प्रथमः क्रमाङ्कः प्राप्त:? चिन्तन: न न । ममाऽश्वस्य क्रमाङ्कोऽपि एकादशम एवाऽभवत् । ११४ Page #130 -------------------------------------------------------------------------- ________________