SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ * अनुवादः -मुनिधर्मकीर्तिविजयः अस्माकं सर्वेषामपि जीवानां मनसः पीडादायकः एकः एव दोषः - ईर्ष्या । ___ कस्यचिदपि आत्मनो भवत् सुन्दरं कार्यं निरीक्ष्य त्वरितमेवाऽस्माकं चित्तं व्याकुलं भवति । वस्तुतः ‘तस्य कार्य श्रेष्ठमस्ती'ति विश्वासोऽस्माकं चित्ते कदाचिदेव भवति । केवलमस्माभिर्मनसैव निर्णीतमेतद् यन्मत्तः तस्य स्थानं श्रेष्ठ, समाजे तस्य मानोऽधिकः । आश्चर्यं त्वेतद यदेतादृशे विचारे । मनसि जाते सत्येवाऽस्माकं हृदयमीज्विालया दहति ।। ईर्ष्याया वैशिष्ट्यमपि ज्ञेयं यत्तस्यामीर्ष्यायां “अन्येभ्यो भवेयमहं श्रेष्ठोऽथवा मयाऽपि यदि परिश्रमः क्रियेत तदा तेन सदृशोऽथवा ततोऽपि श्रेष्ठो भवेयमि”ति भावनायाः स्थानमेव न भवति । तत्र तु 'अहमुत्तमो भवेयं न वा किन्तु कदाऽप्यन्यस्तु मत्तः श्रेष्ठो नैव भवेत्' इत्येव दुष्टवृत्ती रमते । एतादृशी वृत्तिरस्माकं मानसे हताशां हतवीर्यतां चोद्गमयति । तथा चाऽन्यान् प्रति निष्कारणं द्वेषं क्रोधं च जागरयति । सुज्ञजनायैतादृशी स्थितिः न कदाऽपि हितावहा भवति । ७८ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy