________________
कृता हि तीर्थोद्धृतिकैतवेन
निजोद्धृतिर्येन सुपुण्यभाजा। भवप्रहेरुद्धरणं ममाऽपि
करोत्वसौ सद्गुरुनेमिसूरिः ॥१८॥" भवेति । भव:-संसार:, स एव प्रहि: कूप: । 'पुंस्येवान्धुः प्रहि: कूप:' इत्यमरः । उपजातिः ।।१८।।
" यदीयसद्बोधवरप्रदीपः
श्रीमज्जिनाज्ञावरतैलपूर्णः। प्रदर्शको वस्तुयथार्थतत्त्वं
नमामि तं नेमिगुरुं सुसत्त्वम् ॥१९॥" प्रदर्शक इति । प्रदर्शयतीति प्रदर्शक: । उपजाति: ॥१९॥ " अष्टौ येषां प्रवचनपटवोऽरिष्टदाः सूरिशिष्या
मान्या नूनं प्रवचनजननीवर्मणः साधुरक्षे । ते जीयासुः प्रवचननिक्षाघृष्टहेमाभप्रज्ञा
नेम्याचार्याः सदयहृदयकाः सज्जनवातधुर्याः ॥२०॥। () अष्टाविति । अरिष्टं-मङ्गलं ददतीत्यरिष्टदाः । प्रवचनजननीति । प्रवचनस्य जनन्यः प्रवचनजनन्य:प्रवचनमातरः इति भावः । ता अष्टविधा: -
इरिया भासेसणादाणे, उच्चारे समिईसु अ ।
मणगुत्ति वयगुत्ति कायगुत्ती तहेव य ॥१॥ तासां वर्मणो देहाः । प्रवचननिकषेति। प्रवचनं जैनागमस्तदेव निकष:-कषः (कसोटी-इति भाषायां) तेन आ-समन्ताद् घृष्टा, अत एव हेमाभा-स्वर्णाभा निर्मला प्रज्ञा येषां ते इत्यर्थः । नेमिनामान आचार्या नेम्याचार्याः । वृत्तं चित्रलेखा ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org